________________
४६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु"स्त्रियां क्तिः" "युवर्ण०" इत्याभ्यां क्रमात्रूयलोः प्राप्तावलेव । शिरसोऽर्दनं शिरोऽतिरित्यादौ च अर्दतेः "त्रियां क्तिः" "अनट्” ( ५।३।१२४) इत्याभ्यां क्रमात्रूयनटोः प्राप्तौ रुयेव ॥ ५५ ॥
___ यावत्सम्भवस्तावद्विधिः ॥५६॥ यथाप्राप्तस्य सूत्रस्य न्यायस्य वा यावतो वारान्प्रवृत्तेः सम्भवः स्यात्तावतो वारांस्तस्य प्रवृत्तिः ५कार्यैव नत्वेकवारं कृतेति बुद्धयाऽधिकवारं सम्भवे सत्यपि न क्रियत इति । सम्भवे व्याहते च प्रवृत्तिर्न कार्यैव । 'यस्य तु विधेनिमित्तमस्ति' इत्यादि न्यायस्य प्रपञ्चोऽयं न्यायः । तत्र सूत्रस्य त्वक् इत्यादौ प्रथमं विरामे परे "अदीर्घात्०” (१।३।३२) इत्यनेन कस्य द्वे रूपे क्रियेते त्वक् , पुनरनेनैव एकव्यञ्जने परे सूत्रप्रवृत्तेः सम्भवस्य सद्भावादाद्यकस्य द्वे रूपे क्रियेते यथा त्वक । ततः परं तु मध्यम
कस्य "धुटो धुटि स्खे वा” (१।३।४८) इति लुकि पुनराद्यकस्य "अदीर्घात्” (१॥३॥३२) इति द्वे रूपे १० प्राप्नुतः परं न क्रियेते, तथाकरणे क्रियानुपरमप्रसङ्गाद् , 'यं विधि प्रति' इति न्यायेन व्यर्थविधिनिषेधेन
प्रवृत्तेः सम्भवस्य व्याहतत्वात् [न्यायस्य यथा-ब्रूगः कृतवचादेशस्य प्रण्यवोचतेत्यादौ भूतपूर्वकन्यायस्य प्रथमवारं प्रवर्त्तनेन वोचस्य वचत्वोपचाराहितीयवारं प्रवर्त्तनेन च वचस्यापि ब्रूत्वोपचारात्तस्मिन् परे "अकखादि.” (२।३।८०) इत्यनेन ने! णः । नन्वत्र भूतपूर्वन्यायस्य द्वे अपि प्रवृत्ती किमर्थं क्रियेते; वोचे एव हि परे नेर्णः करिष्यते । मैवम् । वोचस्य धातुष्वपठितत्वात् । “अकखा१५ दि०” (२।३।८०) इत्यत्र च पाठविषयस्यैव धातोहणात् ] ॥ ५६ ॥
__सम्भवे व्यभिचारे च विशेषणमर्थवत् ॥ ५७ ॥ यत्र विशेष्ये विवक्षितविशेषणस्य न सम्भवो नापि सम्भवासम्भवरूपो व्यभिचारस्तत्र तद्विशेषणोपन्यासो व्यर्थत्वान्न कार्य इत्यर्थः । 'यं विधि प्रत्युपदेशोऽनर्थक०' इति न्यायस्य प्रपश्चोऽयं न्यायः
अनेनापि व्यर्थविशेषणोपन्यासविधेरेव निषिध्यमानत्वात् । यथा "तो मुम०” (१।३।१४) इत्यत्र ‘पदान्त' २० इति विशेषणं म्वागमस्य न योज्यते असम्भवात् , मस्य तु योज्यते त्वन्तरसीत्यादौ सम्भवेन, रंरम्यत इत्यादावसम्भवेन च पदान्तस्थत्वस्य व्यभिचारित्वात् ॥ ५७ ॥
सर्व वाक्यं सावधारणम् ॥ ५८॥ एवस्याप्रयोगेऽपि सर्ववाक्येष्वेवोऽवधारणार्थो लभ्यते, "सिद्धिः स्याद्वादात्” (१।१।२) इत्युक्त्या सर्वत्र स्याद्वादाश्रयणे प्रसक्ते कचित्तदनाश्रयणार्थोऽयं न्यायः । यथा “समानानां तेन०” (१।२।१) २५ इत्यत्र दीर्घः स्यादेवेति वाक्यस्यावधारणाहण्डाग्रमित्यत्र दीर्घोऽभूदेव । ज्ञापकं त्वस्य "फलति हस्खो
वा" ( १।२।२) इत्यादौ विकल्पोक्तिस्तथाहि-एतन्यायाभावे ह्रस्वः स्यादित्युक्तेऽपि ह्रस्वः स्याच्च न स्याच्च । “विधिनिमन्त्रणा.” (५।४।२८) इति सूत्रेण कामचारेऽपि सप्तम्या विहितत्वात् तथाप्येतन्यायान्नित्यं ह्रस्वे प्राप्ते विकल्पवचनं सफलम् । वाक्यस्योपलक्षणत्वात्कचित्पदमपि सावधारणं यथा
"लुगस्यादेत्यपदे” (२।१।११३) इत्यत्रापदे एवेत्यपदादिस्थे एवादेति परे इत्यवधारणात् दण्डाप्रमि३० त्यत्र "वृत्त्यन्तोऽसषे” (१।१।२५) इति वृत्त्यन्तस्य पदत्वनिषेधेनाप्रशब्दस्यापदत्वात्तस्याकारे परे
प्राप्तोऽप्यल्लुग् न भवति, यतोऽग्रशब्दस्य वृत्त्यवस्थायां पदत्याभावेऽपि पूर्वं पदत्वमासीत्ततोऽवधारणं नास्ति । यत्त्वेकान्तत्वेनापदादिस्थ एवाकारस्तस्मिन् परे "लुगस्या०” (२।१।११३) इत्यल्लुक् स्यादेव, यथा पचन्ति-अत्र शवोऽकारस्यान्तिपरे लग् ॥ ५८ ॥
परार्थे प्रयुज्यमानः शब्दो वतं विनापि वदर्थ गमयति ॥ ५९॥ ३५ यथा “वाऽन्यतः पुमांष्टादौ स्वरे" (१।४।६२) इत्यत्र पुमानित्यस्य पुंवदित्यर्थः । अत्र हि परार्थों
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org