________________
४७
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे संज्ञाधिकारः । सूरिसूचिता न्यायाः नपुंसकस्तत्र च प्रयुक्तः पुंशब्दस्ततो नपुंसकोऽपि सन् पुंस्त्वकार्याणि लभते इति भावः । यथा मृदवे कुलाय इत्यादौ मृदुशब्दस्य पुंवद्भावानपुंसकत्वलक्षणो "अनाम् स्वरे नोऽन्तः” (१।४।६४) इति नागमो नाभूत् ॥ ५९॥
द्वौ नौ प्रकृतमथं गमयतः॥६०॥ नावित्यर्थप्रधानो निर्देशस्ततो द्वौ निषेधौ विधिमेव ब्रूतः । यथा “न नाम्येकस्वरात्” (३।२।९)५ इति सूत्रस्थो नशब्दः पुरः पुरोऽनुवर्तमानो यावत् "नेसिद्धस्थे०” ( ३।२।२९) इति सूत्रस्थद्वितीयनमा मिलितस्तावता विभक्तिलुपो विधिमेवाह स्म । ज्ञापकं त्वस्य "न नाम्येक०” ( ३।२।९) इत्यतो विभक्तिलुनिषेधार्थे नव्यनुवर्त्तमानेऽपि विभक्तिलुविध्यर्थं "नेन् सिद्ध०” इत्यत्र पुनर्नग्रहणम्। "नमो नमस्ते सततं नमो नमः” इत्यादौ नमःशब्दादीनामसकृत्प्रयोगे स्वार्थद्रढनमेष दृश्यते, ततो नमोऽपि तथैव प्रसक्ते सति तनिषेधार्थोऽयं न्यायः । इह च द्वाविति समसङ्खयोपलक्षणं, तेन चतुःष-१० डादयोऽपि नो विधिगमका एव, एकद्वित्र्यादिविषमसङ्खथास्तु निषेधगमका एवेत्यूह्यम् ॥ ६० ॥
चकारो यसात्परस्तत्सजातीयमेव समुचिनोति ॥ ६१ ॥ चस्याविशेषेण समुच्चयमात्रार्थत्वाद्विजातीयस्यापि समुच्चये प्रसक्तेऽयं न्यायः । तत्रोपसर्गादुपसर्ग यथा "प्रतेश्च वधे” (४।४।९४) १ । प्रकृतेः प्रकृतिं यथा “एतदश्च व्यञ्जने ऽनमब्समासे" (११३।४६) २। प्रत्ययात्प्रत्ययं यथा “अौँ च" (१।४।३९)३। आदेशादादेशं यथा “आ च १५ हौ” (४।२।१०१) ४ । आगमादागमं यथा “अश्व लौल्ये” (४।३।११५) ५। अर्थादर्थं यथा "अतिरतिक्रमे च” (३।१।४५) ६ । वाक्यार्थाद्वाक्यार्थं यथा "तस्य व्याख्याने च ग्रन्थात्" ( ६।३।१४२) इत्यादि ७ । एषु क्रमेणोपादिति १ तद इति २ घुटीति ३ इरिति ४ स्सोऽन्त इति ५ पूजायामिति ६ तत्र भवे ७ इत्येषां समुच्चयः । एकपदरूपोऽर्थः पदद्वयादिमयस्तु वाक्यार्थ इत्यनयोः ( अर्थवाक्यार्थयोः) भेदः ॥ ६१ ।।
२० चानुकृष्टं नानुवर्तते ॥ ६२॥ समुच्चय एव हि बलात्कारपूर्वकोऽनुकर्षणमुच्यते अतश्चेनानुकृष्टं पुरो न यातीति युक्तमेव समुच्चयानुकर्षणयोर्विशेषज्ञापनार्थोऽयं न्यायः । यथा “सदोऽप्रतेः परोक्षायां त्वादेः” (२।३।४४) इत्येतावद्वाक्यं "स्वञ्जश्च" (२।३।४५) इति सूत्रे चेनानुकृष्टं तेन स्वळेः परोक्षायां द्वित्वे कृते आदेरेव सस्य षः स्यान्न तु द्वितीयस्य, यथा परिषस्वजे। एतच्च "परिनिवेः सेवः” (२।३।४६) इत्युत्तरसूत्रे नानुव-२५ र्त्तते, तेन सेवेः परोक्षायामुभयोरपि सयोः षः स्यात् । यथा परिषिषेवे इति ।। ६२ ॥
। चानुकृष्टेन न यथासङ्ख्थम् ॥६३॥ यथा “वौ व्यञ्जनादेः सन्चायवः” (४।३।२५) इत्यत्र सनक्त्वोऽवित्यनेन अय्व इत्यनेन च सङ्ख्याया वचननिर्देशस्य च साम्ये सत्यपि यथासङ्ख्यं नास्ति क्तवश्चानुकृष्टत्वात् । वौ इत्यादेरयमर्थःवौ इत्युकारे इकारे वा उपान्त्ये सति व्यञ्जनादेर्धातोः परौ सेटौ क्त्वासनौ प्रत्येकं किद्वद्वा स्याताम् ।३० यथा मुदित्वा मोदित्वा, मुमुदिषते मुमोदिषते, लिखित्वा लेखित्वा, लिलिखिषति, लिलेखिषति । अय्व इति यकारान्ताद्वकारान्ताच न भवति यकारान्त० विश्व य च विय वियिवाचरति किप्, लुक, वेयनं पूर्व क्त्वायां वेयित्वा । वकारान्त० देवित्वा दिदेविषति ॥ ६३ ॥
व्याख्यातो विशेषार्थप्रतिपत्तिः ॥ ६४ ॥ यथा करीषगन्धेरपत्यं वृद्धं स्त्री "ङसोऽपत्ये" ( ६।१।२८) इत्यणि "अनार्षे वृद्धे०" ( २।४।७८) ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org