________________
४८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुइत्यनेनाणः ष्यादेशे "अणबेकण्०” ( २।४।२०) इत्यणन्तलक्षणोडीः प्राप्नोति, परं न स्यात् । तत्राणः स्वरूपस्थस्य ग्रह्णात् , इह चाणः व्यरूपीभवनात्। एतच्च "अणनेये." इत्यत्र व्याख्यानत एव लभ्यते ज्ञापकान्तराभावात् । ततश्च ड्यभावेऽदन्तत्वात् "आत्” (२।४।१८) इत्यापि कारीषगन्ध्येति स्यात् ॥६४॥
यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते ॥६५॥ ५ यत्रेति वाक्याङ्गभूतपदसमुदाये इति विशेष्यमध्याहार्यम् । अस्तिना च भवतिर्विद्यतिरित्यादयोऽपि लक्ष्या एकार्थत्वात् । भवन्ती वर्तमाना, प्रकरणादिवशात्सप्तम्यादिपरोऽपि प्रयुज्यते । आख्यातं विना वाक्यं न स्यादिति पदसमुदायस्य वाक्यीकरणार्थोऽयं न्यायः । यथा 'जम्बूद्वीपस्तत्र सप्तवर्षाणि' । अत्रास्ति, सन्तीति । पञ्चम्याशिष्यौ यथा, 'देवो मुदे वो वृषभः परे च' अवास्तु सन्विति भूयाद्
भूयासुरिति वा । सप्तमी यथा, "शिघुद" (१।१।२८) "औदन्ताः स्वराः” ( ११११४) अत्र स्यात् १० स्युरिति । हस्तन्यद्यतनीपरोक्षा यथा । 'अवन्त्यां विक्रमनृपस्तस्य द्वापश्चाशद्वीराः' । अत्रासीदा
सन्निति बभूव, बभूवुरिति वा । श्वस्तनी यथा । 'अतः परं श्वो भोजनम्', अत्र भवितेति । भविष्यन्ती यथा। 'अद्य नश्चतुर्पु गव्यूतेषु भोजनम्'; 'भाविन्यां तु पद्मनाभः सूरदेव' इत्यादि । अत्र भविष्यतीति । क्रियातिपत्तिप्रयोगस्तु प्रायः साक्षादेवेक्ष्यते । अनित्यत्वाचास्य कचिदन्यक्रियापदाध्याहारोऽपि यथा । अहमित्यत्र प्रणिदध्महे इति ॥ ६५ ॥
__ इति पञ्चषष्टिायाः पूर्वैः सह द्वाविंशंशतं व्यापका ज्ञापकादियुताश्च । अतः परं ये वक्ष्यन्ते ते केचिदव्यापकाः प्रायः सर्वे ज्ञापकादिरहिताश्च
__ --ते चामी*
यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः॥१॥ इट इति शेषः ॥ १॥
यस्य येनाभिसम्बन्धो दूरस्थस्यापि तेन सः॥२॥ ___ यथा अश्वेन चैत्रः सञ्चरते । अत्र चैत्रशब्देनान्तरितेनापि तृतीयान्तेन योगे "समस्तृतीयया" (३।३।३२) इत्यात्मनेपदम् ॥ २॥
येन विना यन्न भवति तत्तस्यानिमित्तस्यापि निमित्तम् ॥ ३ ॥ यथा कृतणः कीतोदेशो णिचा सहचरित एव दृश्यतेऽतो णिच् की देशस्य निर्निमित्तं विहितस्यापि २५ निमित्तं विदितम् । तथा कृततीत्यत्र णिचोऽनित्यत्वात् तदभ्यवे की देशोऽपि नाभूत् ॥ ३ ॥
नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् ॥ ४॥ . यथा उपस्पृशतीत्यत्र स्पृशेरूपरूपान्नाम्नः परत्वेऽपि "स्पृशोऽनुदकात्" (५।१।१४९ ) इति विप्न स्यात् । तेनोपस्पृगिति प्रयोगो न साधुः ।। ४ ।
सामान्यातिदेशे विशेषस्य नातिदेशः ॥५॥ ३० अन्यत्र प्रसिद्धस्यार्थस्यान्यत्र कथनमतिदेशः । यथा “भूतवञ्चाशंस्ये वा” (५।४।२) इति भूतमात्रस्यैवाऽतिदेशेऽनद्यतनपरोक्षत्वविशिष्टभूतकालस्यानतिदेशात् 'उपाध्यायश्चेदागमत् एते तर्कमध्यगीष्महि'
इत्यादौ स्थानद्वयेऽपि भूतमात्रलक्षणाऽद्यतन्येव भूतवञ्चेति सूत्रेण नत्वनद्यतनत्वपरोक्षत्वविशिष्टभूत३३ विहिते ह्यस्तनीपरोक्षे ॥ ५ ॥
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org