________________
१५
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे संज्ञाधिकारः । अव्या० न्यायाः
सर्वत्रापि विशेषेण सामान्यं बाध्यते न तु सामान्येन विशेषः ॥६॥ यथा कोऽर्थ इत्यादौ सेः “सोरुः” (२।१।७२ ) इति रुत्वे "रोर्यः" ( १।३।२६) इति सामान्यखरनिमित्तकं सूत्रं बाधित्वा "अतोऽति रोहः” ( ११३।२०) इति विशेषस्वरनिमित्तकं सूत्रं प्रावर्तिष्ट । 'तक्रकौण्डिन्यन्यायो'ऽप्यस्यैव प्रपश्चः । द्विजेभ्यो दधि देयम् ; तक्रं कौण्डिन्यायेत्युक्ते कौण्डिन्यस्य दधिनिषेधोऽनुक्तोऽपि प्रतीयते ॥ ६॥
ङित्त्वेन कित्त्वं बाध्यते ॥७॥ ___ यथा 'णूत् स्तवने' कुटादिः नुवितः, अत्र "उवर्णात्” (४।४।५८) कित्प्रत्ययस्यादौ विहित इड् निषेधो नाभूत् । कुटादित्वहेतुकेन क्तस्य डिवेन तकित्वस्य बाधनात् ॥ ७ ॥
__ परादन्तरङ्ग बलीयः॥८॥ यथा स्योमा इत्यत्र सीव्यतेः “मन्वन्०" (५।१।१४७) इति मनि “य्वोः प्वय्" (४।४।१२१)१० इति वलोपमपवादत्वात् “लघोरुपान्त्यस्य" (४।३।४) इति गुणं च नित्यत्वाद्बाधित्वा, ऊटि कृते, तदनु च परत्वादुपान्त्यगुणे प्राप्तेऽप्यन्तरङ्गत्वात् प्रथमं यत्वं सिद्धं, पश्चात्तु गुणः । यद्यपि 'परान्नित्यं' 'नित्यादन्तरङ्गमित्येताभ्यामयं गतार्थ एव, तथाहि-परान्नित्यं बलवत्ततोऽपि यद्यन्तरङ्गं बलवत्तदा परादन्तरङ्गं बलवत्प्रतीतमेव, तथापि तदनुवादपरोऽयं न्यायः ॥ ८ ॥
प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्य विज्ञायते ॥९॥ लोपशब्दस्य लुक्लुपोर्वाचकत्वेऽपि लुकि स्थानिवद्भावेनैव सिद्धत्वाल्लुप्येष न्यायः । यथा पापचीत्यत्र 'लुबन्तरङ्गेभ्य' इति प्रथममेव यङ्लुप्यपि यङन्तलक्षणं “सन्यङश्व" (४।१।३) इति द्वित्वं सिद्धम् ॥९॥
विधिनियमयोविधिरेव ज्यायान् ॥१०॥ यथा “प्रत्यभ्यतेः क्षिपः” ( ३।३।१०२) इत्यत्र 'क्षिपीत् प्रेरणे' इति क्षिपिरुभयपदी तौदादिको व्याख्येयस्तस्यैव परस्मैपदविध्यर्हत्वात् , न तु "क्षिपंच प्रेरणे” इति केवलं परस्मैपदी । तस्य सिद्धपरस्मै-२० पदत्वेन सूत्रस्य नियमार्थताप्रसक्तेः, नियमश्चैवं प्रसज्यते-प्रत्यभ्यतिपूर्वादेव क्षिपः परस्मैपदं नत्वन्योपसर्गपूर्वादनुपसर्गाद्वेति ॥ १० ॥
अनन्तरस्यैव विधिनिषेधो वा ॥ ११॥ ___ तत्र निषेधो यथा “नामध्ये” (२।१।९२) इत्यनेन "नाम्नो नोऽनह्नः” (२।१।९१) इत्यनन्तरसूत्रविहितस्य नलुको निषेधः क्रियते । विधिर्यथा "क्लीवे वा” (२।१।९३ ) इत्यनेनानन्तरसूत्रविहितस्य २५ नलुको निषेधस्य विकल्पेन विधिः क्रियते । यद्यपि च शब्दशक्तिरेवैषा यद्विधिनिषेधो वाऽनन्तरस्यैव स्यादिति; परं शब्दशक्तेरेवानुवाद्ययं 'विचित्राः शब्दशक्तय' इत्यादिवत् ॥ ११ ॥
पर्जन्यवल्लक्षणप्रवृत्तिः ॥ १२ ॥ यथा पर्जन्य ऊनं पूर्ण वाऽनपेक्षमाणः सर्वत्र वर्षति तथा स्वविषयं प्राप्य लक्षणेन सर्वत्र फलाभावेऽपि प्रवर्तितव्यम् , अप्रवृत्तौ हि तस्याऽऽनर्थक्यं स्यादिति । यथा गोपायति, पापच्यते, चिकीर्षती-३० त्यादौ धातूनामदन्तत्वेन शवोऽनाकाङ्क्षायामपि शव भवत्येव ॥ १२ ॥
न केवला प्रकृतिः प्रयोक्तव्या ॥ १३ ॥ प्रकृतिरिह नामरूपा ग्राह्या न तु धातुरूपा । यथा कटं करोति भीष्ममुदारं दर्शनीयमित्यत्र द्रव्यस्यैव कर्मत्वेऽप्येतन्यायाद्रीष्मादीनामविभक्तिकानां प्रयोगानहत्वात्समानविभक्तिं विना सामानाधिकरण्यविशे- ३४
है. प्रका० पूर्वा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org