SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ५० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुषणत्वायोगानिर्द्धनानामपीश्वरसुहृदां तद्धनेन धनित्ववदेषामकर्मकाणामपि कटकर्मत्वेनैव द्वितीया सिद्धा। ननु भीष्मादीनामविभक्तिकानां प्रयोगाऽनहत्वे सामान्यविभक्तिः प्रथमैव प्रयोक्तुमर्हा; न तु कर्मादिशक्तिप्रकाशिन्यो द्वितीयाद्या इत्याशङ्कायामस्य व्याख्यान्तरमुच्यते । केवलेति कोऽर्थः-क्रियारहिता प्रकृतिर्न प्रयोज्या किन्तु प्रयुज्यमानया गम्यमानया वा क्रियया सहितैव प्रयोज्या। ततोऽत्र यथा कटस्य ५करोतिना सम्बन्धस्तथा भीष्मादीनामपि । कटं कुर्वस्तद्गताम् गुणानपि करोत्येव, यत्तु करोतिना व्याप्नुमिष्टं तत्सर्व द्रव्यं गुणश्च कर्मेति सर्वेषां पृथकर्मकत्वे सर्वेभ्योऽपि द्वितीया एव पश्चात्तु गौणमुख्यभावे विशेषणविशेष्यभावः [विशेषणानां विशेष्यसमानविभक्त्युपपादनार्थोऽयं न्यायः ] ॥ १३ ॥ किबर्थ प्रकृतिरेवाह ॥ १४ ॥ यथा त्वां मां चाचक्षाणेन इति णिजि, किपि, तल्लुकि च युष्म् अस्म् इति मान्ताद् छौ "टाङयोसि यः" १० (२।११७) इत्यनेन मस्य प्राप्तं यत्वं बाधित्वा परत्वात्त्वमादेशे पश्चाश्च त्वमयोरकारस्य प्राप्नुवतोऽपि यत्वस्य 'सकृद्गते स्पर्द्ध' इति न्यायादभवने युष्मदस्मदोश्चात्र णितिबन्तत्वेन सर्वादित्वाभावात् स्मिन्नादेशाभावे त्वे मे इति स्यात् इति प्रकृतन्यायानपेक्षः पक्षः, प्रकृतन्यायापेक्षया तु प्रकृति विना विप्न भवति इति प्रकृतेरेव प्राधान्यात् णिकिबन्तयोयुष्मदस्मदोः केवलाभ्यां ताभ्यामभेदविवक्षया सर्वादित्वाद् : स्मिन्नादेशे त्वस्मिन् , मस्मिन्नित्यपि स्यात् । एवं च णिक्किबन्तयोयुष्मदस्मदोः शब्दभेदादर्थ१५भेदाच्चाप्राप्तस्य सर्वादित्वस्य प्रापणार्थोऽयं न्यायः ॥ १४ ॥ द्वन्द्वात्परः प्रत्येकमभिसम्बध्यते ॥१५॥ शब्द इति शेषः । यथा “एकद्वित्रिमात्रा हस्वदीर्घप्लुताः” (१।१।५) अत्र मात्राशब्दः प्रत्येक सम्बध्यते एकमात्रो द्विमात्र इत्यादि ॥ १५ ॥ विचित्राः शब्दशक्तयः ॥१६॥ २० तेनैव लिङ्गसङ्ख्यादौ वैचित्र्यं दृश्यते इति ज्ञप्त्यर्थोऽयं न्यायः । तत्र लिङ्गवैचित्र्यं यथा । प्रशस्त पचति "त्यादेश्च प्रशस्ते रूपप्” (७३।१०) इति स्वार्थिके रूपपि पचतिरूपमित्यादौ "पदं वाक्यमव्ययं चेत्यसङ्ख्यं च” (लिङ्गा० पर० ४।२) इति लिङ्गानुशासनपाठादलिङ्गस्यापि त्याद्यन्तपदस्य क्लीबलिङ्गत्वं सिद्धम् । तथा कुत्सिता स्वा ज्ञातिः स्वार्थिके कप्रत्यये "स्वज्ञाऽजभत्राऽधातुत्ययकात्” (२।४।१०८) इत्याप इत्वे विका, अत्र ज्ञातौ "कामलकुद्दालावयवस्वाः” (लिङ्गा० पुं० १४।१) इति लिङ्गानुशास२५ नपाठात्पुंलिङ्गस्यापि स्वशब्दस्य कुत्सितार्थविवक्षणाद्वाक्यावस्थायां कप्प्रत्ययान्तत्वे च स्त्रीलिङ्गत्वम् । तथा ह्रस्वा कुटी "कुटीशुण्डाद्रः” (७३।४७) इति स्वार्थिके रे कुटीरः कुटीरम् , अत्र कुटीशब्दस्य "वितस्तिकुटयस्रुटिः” (लिङ्गा० पुंस्त्री० ९।२) इति वचन्मत् पुंस्त्रीलिङ्गस्यापि पुंडलीबलिङ्गत्वम् । तथा हवं वनं वनिका; अत्र नान्तत्वात् "नलस्तुतत्तसंयुक्त"-(लिङ्गा० न० १११) इति पाठात् क्लीबलि ङ्गस्यापि वनशब्दस्य स्वार्थिके कपि स्त्रीलिङ्गता ॥ तथा केऽपि शब्दाः पदान्तरसापेक्षाः केऽप्यनपेक्षाश्च ३० तत्तल्लिङ्गान्याहुः । तत्र सापेक्षा यथा । इयं गौः, अयं गौः, अत्र गवार्थस्योभयलिङ्गत्वादियमयमिति पदापेक्षेण गोपदेन स्त्रीपुंस्त्वमुच्यते; अनपेक्षास्तु त्रिधा नाममात्रेणादेशेन प्रत्ययेन च, तत्र नाममात्रेण यथा । माता पिता अत्र नाममात्रमेव स्त्रीपुंस्त्वोक्तौ क्षमम् । आदेशेन यथा । तिस्रः; अत्र स्त्रीत्वं विनाऽनुपपद्यमानेन तिस्रादेशेन स्त्रीत्वं प्रतीयते, एवं क्रोष्टा अत्र पुंस्त्वेन क्रुशस्तुनस्तृजादेशेन पुंस्त्वम् । प्रत्ययेन यथा राज्ञी; अत्र स्त्रीवोद्भवेन डीप्रत्ययेन स्त्रीत्वम् । गोचरः; अत्र 'नामत्वोद्भवेन "गोच३५रसञ्चर." ( ५।३।१३१) इति धेन पुंस्त्वम् । सहायाचित्र्यं यथा “अं अः क प शषसाः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy