________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । अन्या० न्यायाः शिट्' (१।१।१६) अत्र संज्ञिबहुत्वेऽपि संज्ञाया एकवचनम् । दाराः; अत्रार्थैकत्वेऽपि बहुवचनमित्यादि ॥ १६ ॥
किं हि वचनान भवति ? ॥ १७॥ वचनमिष्टार्थप्रत्यायनं [तद्वलाकिं न स्यात्-काका सर्व स्यादित्यर्थः, इष्टार्थप्रत्यये सति शिष्टप्रयोगानुसारेण केचिद्विधयोऽप्राप्ता अपि प्रवर्त्यन्ते, प्राप्ता अपि च केचिन्न प्रवर्त्यन्ते, इष्टार्थप्रत्ययाभावे तु प्राप्ता५ अपि केचिद्विधयो न प्रवर्त्यन्ते इति यावत् । “समर्थः पदविधिः” (७।४।१२२) इत्यस्यापवादोऽयं न्यायः । तत्राप्राप्तप्रवर्त्तनं ] यथा सूर्यमपि न पश्यन्त्यसूर्यपश्या राजदाराः “असूर्योग्राद् दृशः" (५।१।१२६) इति खशू, वत्सेभ्यो न हितो अवत्सीयो गोधुक्म "तस्मै हिते” (७।१।३५) इतीयः; अत्र नत्रः क्रमाद् दृशिना हितेन च सम्बन्धोऽस्ति; न सूर्येण वत्सैश्चेति समस्यमानपदानां मिथः सम्बन्धाभावादसाम
येऽपि इष्टार्थगमकत्वात् समासः सिद्ध । प्राप्ताप्राप्तप्रवर्त्तनं यथा । "नहाहोर्धतौ” (२।१।८५) अत्र १० धात्वग्रे इकिश्तिवो न । इष्टार्थप्रत्ययाभावे प्राप्ताप्रवर्तनं यथा, सङ्घस्य भद्रं भूयादित्यत्र सङ्घभद्रमिति षष्ठीसमासो न, नहि सङ्घभद्रं भूयादित्युक्ते सङ्घस्य भद्रं भूयादिति प्रतीयते, किन्तु सङ्घशब्दसम्बन्धितया प्रसिद्धं किञ्चिद्भद्रं कस्यचिद्भूयादिति प्रतीयते । 'अभिधानलक्षणाः कृत्तद्धितसमासाः स्यु'रित्यपि न्यायोऽत्रैवान्तर्भूतः, अस्यार्थ:-अभिधानमिष्टार्थप्रत्यायनं तदेव लक्षणं चिहं येषां कृदादीनां; कोऽर्थः-इष्टार्थप्रत्ययसम्भवे कृदादयः स्युस्तदभावे तु नेति । अथ 'किं हि वचनादिति न्यायस्यान्योऽर्थः-१५ वचनादिति कोऽर्थः ? सूत्रोक्तविधानबलास्किं न स्यात् ; काका अप्राप्ता अपि विधयः प्रवर्त्तन्ते इत्यर्थः। यथा श्रेयानित्यादाविष्ठेयस्वोः परयोः "प्रशस्यस्य श्रः” (७४।३४) इति श्रादेशविधानबलेन प्रशस्यशब्दात् क्रियाशब्दत्वेन गुणाङ्गादपि "गुणाङ्गाद्वेष्ठेयसू” (७।३।९) इति इष्ठेयसूप्रत्ययौ सिद्धौ, अस्यां व्याख्यायां चाप्राप्तप्रापणार्थोऽयं न्यायः ॥ अपि च 'विचित्रा सूत्राणां कृतिः' १ 'मात्रालाघवमप्युत्सवाय मन्यन्ते वैयाकरणाः' २ ते वै विधयः सुसङ्ग्रहीता भवन्ति येषां लक्षणं प्रपञ्चश्च' ३ इत्यादयोऽपि २० न्यायप्रकारा वाग्विशेषाः सन्ति । परमेते व्याकरणसूत्ररचनायामेवोपयुज्यन्ते ॥ पारिशेष्यादयोऽपि न्यायाः सूत्रार्थव्यवस्थापनायामेवोपयोगिनो न तु प्रस्तुतप्रयोगरचनायाम् ।। 'यथोद्देशं निर्देश' इत्यादयोऽपि बहवो न्यायाः सन्ति; ते लोकाज्ज्ञेयाः ॥ १७ ॥
न्यायाः स्थविरयष्टिप्रायाः ॥१८॥ यथा स्थविरो गमनादिकाले तत्साधनाय यष्टिमवलम्बतेऽन्यदा तु न तथा न्याया अपि शिष्टप्रयोगा-२५ न्यथानुपपत्त्यैवाश्रीयन्ते नत्वन्यथा । यथा रायमतिक्रान्तानां कुलानां अतिरीणामित्यत्र "क्लीबे" (२।४।९७) इति हवे तज्जे नामादेशे परे 'एकदेशविकृतमनन्यवत्' इति न्यायात्प्राप्तमपि "आ रायो व्यञ्जने" (२।१५) इत्यात्वं "सन्निपातलक्षण"न्यायेन निषेधान्न स्यात् , तत्करणे ह्रस्वविघातसम्भवात् , “दी| नाम्यतिसृ०” (१।४।४७) इति दीर्घावसरे तु 'सन्निपातलक्षण'न्यायानाश्रयणानिर्विघ्नं दीर्घः सिद्ध इति ॥ १८ ॥
शिष्टनामनिष्पत्तिप्रयोगधातूनां सौत्रत्वाल्लक्ष्यानुरोधाद्वा सिद्धिः ॥१॥ शिष्टाः शेषाः ये व्याकरणेन नावाख्याताः नामानि १ निष्पत्तयः २ प्रयोगाः ३ धातवश्च ४ तेषां सौत्रत्वादिति व्याकरणादिसूत्रनिर्दिष्टत्वात् , लक्ष्याणि पूर्वमहाकविप्रयोगास्तदनुसरणाञ्च सिद्धिः । सिद्धिशब्दो न्यायसमाप्ती मङ्गलार्थः । नानां यथा । चतुर्थी षष्ठीत्यादौ चतुर्णा षण्णां सङ्ख्यापूरणीति वाक्ये "चतुरः” (७१।१६३ ) “षट्कतिकतिपयात्थट्” (७।१।१६२) इति सूत्राभ्यां थटप्रत्यये "नाम-३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org