________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुसिद." (१२१२२१) इति पदत्वे चतुस्थी षट्ठीति प्राप्नोति, परं “चतुर्थी" (२।२।५३) "अज्ञाने ज्ञः षष्ठी" ( २।२।८०) इति सौत्रनिर्देशान्न जातम् । लक्ष्यानुरोधाच भिस्सटा, कच्छाटिका ग्रामटिकेत्यादौ टागमः, तथा कान्दविका, काम्बविकः, वैणविक इत्यादौ "ऋवर्णोवर्णदोसि.” (७४।७१ ) इति प्राप्त इकण इलुग्न । निष्पत्तीनां यथा “अं अः अनुस्वारविसर्गौ” (११११९) "आपो डिन्तां यैयास्यास ५ याम् (१।४।१७) इत्यत्र क्रमादौजसोलुंक सौत्रत्वात्सिद्धः । प्रयोगाणां यथा । रणादिधातूनां शब्दार्थत्वाविशेषेऽपि रणितं नूपुरशब्दे; मणितं रतिकूजिते; कणितमार्तध्वनौ, कणितं वीणादिरवे, कूजितं विहङ्गानां, हितं गजानां वासितं पशूनां गर्जितं मेघस्य गुञ्जितं भ्रमरादीनां शब्दे इत्यादिकं लक्ष्यानुरोधात्सिद्धम् । धातूनां सौत्रत्वं तु “धातोः कण्वादेर्यक्” (३।४।८) इत्यस्य सूत्रस्य व्याख्यानाद् ज्ञेयम् ॥ १ ॥
न्यायानां बालबोधाय दिङ्मात्रमिह दर्शितम् ।
न्यायमञ्जूषावगाह्या विशेषार्थप्रथार्थिभिः ॥ १॥ विशेषतश्च न्यायानां ज्ञापकव्याप्तितात्पर्यादिकं हेमव्याकरणपारीणवैयाकरणशिरोमणिमहोपाध्यायश्रीहेमहंसगणिविरचितन्यायमञ्जूषायां विज्ञेयं विज्ञैरिति श्रेयः ॥ ७ ॥
अथ “परितो व्यापृतां भाषां परिभाषां प्रचक्षते” इति वचनात्
सर्वत्र व्याकरणे उपयोगिनीः परिभाषाः प्रदर्श्यन्ते
पञ्चम्या निर्दिष्टे परस्य ॥१॥ (७४।१०४) पञ्चम्या निर्दिष्टे यत्कार्यमुच्यते तत्परस्य स्थाने भवति सर्वत्र व्याकरणे । अतो "भिस ऐस्" (१।४।२) वृक्षैः । इह न भवति मालाभिरत्र । निर्दिष्टग्रहणस्यानन्तर्यार्थत्वादिह न भवति दृषद्भिः । व्यवहितेऽपि परशब्दो दृश्यते यथा महोदयात्परं साकेतमिति । अत इत्यादौ दिग्योगलक्षणा पञ्चमी । तत्र पूर्वस्य परस्य च कार्य स्यादिति नियमार्थ वचनम् ॥ १ ॥
सप्तम्या पूर्वस्य ॥२॥ (७४।१०५) सप्तम्या निर्दिष्टे यत्कार्यमुच्यते तत्पूर्वस्यानन्तरस्य स्थाने भवति । "इवर्णादेरखे स्वरे यवरलम्" ( १।२।२१) दध्यत्र मध्वत्र । निर्दिष्टाधिकारादिह न भवति-समिदन त्रिष्टुबत्र । व्यवहितेऽपि पूर्वशब्दो दृश्यते मथुरायाः पूर्व पाटलिपुत्रमिति । स्वर इत्यादौ औपश्लेषिकमधिकरणं पूर्व परं च सम्भवति तत्र परमेव प्राथमिति नियमार्थ वचनम् ॥ २॥
षष्ठयाऽन्त्यस्य ॥३॥ (७।४।१०६) ___ षष्ठया निर्दिष्टे यत्कार्यमुच्यते तदन्त्यस्य षष्ठीनिर्दिष्टस्यैव योऽन्त्यो वर्णस्तस्य स्थाने भवति न तु समस्तस्य । “वाष्टन आः स्यादौ” (१।४।५२) अष्टाभिः, अष्टासु ॥ ३ ॥
अनेकवर्णः सर्वस्य ॥४॥ (७४।१०७) अनेकवर्ण आदेशः षष्ठया निर्दिष्टस्यैव सर्वस्य स्थाने भवति । "त्रिचतुरस्तिसृचतसृ स्यादौ” (२।१११) ३० तिसृभिः, चतसृभिः । सर्वस्येति निर्दिश्यमानापेक्षं तेन व्याघ्रपादित्यत्र “पात्पादस्याऽहस्त्यादेः” __ (।३।१४८) इति निर्दिष्टस्य पादशब्दस्य भवति न तु समुदायस्य । "ऋतां कितीर" (४।४।११६) किरति । पूर्वस्यापवादोऽयम् । एवमुत्तरोऽपि योगः ॥ ४ ॥
प्रत्ययस्य ॥५॥ (७४१०८)
२०
३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org