________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । परिभाषाः
५३ प्रत्ययस्य स्थाने विधीयमान आदेशः सर्वस्यैव भवति । सर्वे । अष्टौ । कति ॥ ५ ॥
स्थानीवाऽवर्णविधौ ॥ ६॥ (७४।१०९) स्थानं प्रसङ्गः सोऽस्यास्तीति स्थानी आदेशी । आदेशस्थानिनोः पृथक्त्वात्स्थानिकार्यमादेशे न प्राप्नोतीत्यतिदिश्यते । अन्यत्र प्रसिद्धस्यार्थस्यान्यत्र कथनमतिदेशः । आदेशः स्थानिवद्भवति स्थान्याश्रयाणि कार्याणि प्रतिपद्यते, अवर्णविधौ-न चेत्तानि कार्याणि स्थानिवर्णाश्रयाणि भवन्ति । तत्र धातु १ प्रकृति ५ २ विभक्ति ३ कृद् ४ अव्यय ५ पदादेशा ६ उदाहरणं । धात्वादेशो धातुवद्भवति, "अस्तिब्रुवोर्भूवचावशिति" (४।४।१) भूवचोस्तृजादयो भवन्ति । भविता, भवितुं, भवितव्यं, वक्ता, वक्तुम् , वक्तव्यम् १ । प्रकृतिरिह गोबलीवर्दन्यायात् धात्वतिरिक्ता नामरूपा ग्राह्या । प्रकृत्यादेशः प्रकृतिवत्-कस्मै, के, केषाम् , किमः कादेशे सर्वादित्वात्स्मादयो भवन्ति २ । विभक्त्यादेशोऽपि विभक्तिवत्-वृक्षाय, प्लक्षाय, राजा, अत्र चतुर्येकवचनादेशस्य यस्य स्यादित्वाद्दीर्घः, “दीर्घङयाब्०” (१।४।४५) इति लुग्-१० रूपस्यादेशस्य स्यादित्वाद्दीर्घत्वं पदत्वं च भवति । पचेयम् , पचेयुः, अत्र याम्युसादेशयोरियमियुसोस्त्यादित्वात् "तदन्तं पदम्” (१।१।२०) इति पदत्वम् ३ । कृदादेशः कृद्वद्भवति-प्रकृत्य, प्रहृत्य, अत्र क्त्वो यबादेशे "हखस्य तः पित्कृति" (४।४।११३) इति तोऽन्तो भवति ४ । अव्ययादेशोऽव्ययवत् । प्रस्तुत्य, उपस्तुत्य, अत्र "अव्ययस्य" (३।२।७) इति सेल्प् ५ । पदादेशः पदवत्-धर्मों वो रक्षतु, धर्मो नो रक्षतु, अत्र पदत्वात्सोरुत्वम् ६ । स्थानीवेत्यत्र इवग्रहणं स्थानिनोऽपि कार्यप्रतिपत्त्यर्थ, १५ इवेनातिदिष्टे हि उभयत्र कार्यमन्वेति चन्द्र इव मुखमित्यादौ, चन्द्रे मुखे चाहादकत्ववत् । एवं हनो वध इत्यादौ हनरूपस्य स्थानिनो वधरूपस्यादेशस्येत्युभयस्याप्यात्मनेपदादिरूपकार्यान्वयोऽस्तीतीवग्रहणम् । अन्यथा स्थानीत्यादेशस्य संज्ञेति प्रतीयेत, ततश्च देवदत्तः पिण्ड इव वधाद्यादेशरूपे संज्ञिन्येव कार्यान्वयो न तु स्थानीति रूपायां संज्ञायामपि । तथाहुः श्रीसूरयः । इवग्रहणं स्वाश्रयार्थं स्वस्य स्थानिस्वरूपहन इत्यादेराश्रय आश्रयणं तदर्थम् । अन्यथा स्थानीत्यादेशस्य संज्ञा विज्ञायेत । तेन आहत, २० अवधिष्टेत्यादौ "आडो यमहनः स्खेऽङ्गे च" ( ३।३।८६) इत्यनेनोभयत्राप्यात्मनेपदं भवति, अन्यथा बधेरेव स्यादिति । अत्र वध इत्यकारान्तादेशविधानबलेनानेकवरत्वात् इनिषेधो न, नैकस्वरादित्यत्र ह्येकस्वराद्विहितस्य "स्ताद्यशित०" (४।४।३२) इनिषेध इति । स्थानिवद्भावेऽनेकस्वरत्वे त्वकारान्तादेशविधानमनर्थकं स्यादिति ॥ अवर्णविधाविति किम् ? यत्कार्य वर्णमुच्चार्य विधीयते तद्वर्णाश्रयम् । यत्तु धात्वादिसमुदायोच्चारणेन न तद्वर्णाश्रयं वर्णस्य तत्र शब्देनासंसर्गात् । तत्र वर्णाश्रयो विधिवर्णवि-२५ धिरिति समासस्याश्रयणाद्वर्णात्परस्य विधिः १ वर्णे परतो विधिः २ वर्णस्य स्थाने विधिः ३ वर्णेन विधिः ४ अप्रधानवर्णाश्रयो विधिः ५ इति सर्वत्रावर्णविधाविति प्रतिषेधो भवति ॥ तत्र वर्णात्परस्य विधिः द्यौः पन्थाः सः। अत्र औत्वात्वत्यदाद्यत्वेषु कृतेषु स्थानिवद्भावाद् व्यञ्जनात्परस्य सेर्लोपः प्रामोति स न भवति । १ । वर्णे परतो विधि:-क इष्टः स उप्तः । अत्र य्वृति कृते "घोषवति" ( ११३।२१) इति रोरुत्वम् "एतदश्च०" ( १।३।४६) इत्यादिना च सेर्लोपश्च न भवति । २ । वर्णस्य स्थाने विधिः-३० श्रीदेवतास्य श्रायं हविः । अत्रेकारस्य वृद्धौ कृतायां स्थानिवद्भावात् "अवनुवर्णस्य” (७।४।६८) इति लोपः प्राप्तो न भवति । ३ । वर्णेन विधिः-उरःकेण उरःपेण उरकेण उर पेण अत्र सकारादेशानां विसर्जनीयजिह्वामूलीयोपध्मानीयानां स्थानिवद्भावप्रतिषेधादलचटतवर्गशसान्तरे इति णत्वप्रतिषेधो न भवति । व्यूढोरस्केन इत्यत्र तु प्रत्यये इत्यनेन यः कृतः सकारस्तदाश्रयो णत्वनिषेधो न तु मूलसकारस्य, स्थानिवद्भावेन वर्णाश्रयविधौ तदभावात् । ४ । अप्रधानवर्णाश्रयो विधिः, यथा "स्ताद्यशितोऽत्रोणादेरिट्" (४।४।३२) इत्यत्रान्यपदार्थस्याशितः प्राधान्यात् स्तोरप्राधान्यं, ततः प्रदीव्य प्रसीव्य इत्यत्र ३६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org