________________
५४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुयपः स्थानिवद्भावेन क्त्वाप्रत्ययापेक्षया स्ताद्यशितप्राप्त इड् न भवति । ५ । स्थानिवर्णाश्रयकार्यप्रतिषेधाच्च आदेशवर्णाश्रयाणि स्थान्यनुबन्धाश्रयाणि च कार्याणि भवन्त्येव । आदेशवर्णाश्रयाणि-सर्वेषाम् । अत्र सामादेशे सकाराश्रयमेत्वं भवति । स्थान्यनुबन्धाश्रयाणि-प्रभिद्य निरुध्य प्रणीय प्रलूय इत्यत्र क्त्वो यवादेशे कृते स्थानिवद्भावेन कितीति गुणप्रतिषेधो भवति । अनुबन्धा ह्यसन्त एव गुणा५भावादिकं कार्य कुर्वन्ति । अथ कथमग्रहीदित्यत्रेटो दीर्घत्वे स्थानिवद्भावादिट ईतीति सिलोपो, वर्णविधिर्येषः । उच्यते । नायं वर्णविधिः । विशिष्टं ह्येष इट्रूपं वर्णसमुदायमाश्रयते । अथ शोभना दृषदोऽस्य सुदृषदित्यत्र जस्लुपः स्थानिवद्भावेनासन्तत्वात् "अभ्वादेरत्वसः सौं” (१।४।९०) इति दीर्घः कस्मान्न भवति । "लुप्यरवृल्लेनत्” (७।४।११२) इति प्रतिषेधात् । भ्वादिप्रतिषेधेन श्रूयमाणा.
सन्तपरिग्रहाच्च न भवति । सुदृषद्वानित्यत्र तु इतिकरणसामर्थ्यादसन्तलक्षणो विन्न भवति । “अस्त१० पोमाया०” (७।२।४७ ) इति सूत्रे हि "तदस्यास्त्यस्मिन्निति.” ( ७।२।१) सूत्रादिति शब्दोऽनुवर्तते स चेतिकरणो विवक्षार्थ इत्युक्तम् । विवक्षा च व्यवस्थेति भावः ॥ ६ ॥
खरस्य परे प्राग्विधौ ॥७॥ (७४।११०) स्वरस्यादेशः परे परनिमित्तको व्यवहितेऽव्यवहिते वा पूर्वस्य विधौ कर्तव्ये स्थानीव भवति । कथयति, अवधीत् । अत्राल्लुकः स्थानिवद्भावादुपान्त्यलक्षणा वृद्धिर्न भवति । स्पृहयति, मृगयते । अत्र १५ लघूपान्त्यलक्षणो गुणो न भवति । पादाभ्यां तरति पादिकः । अत्र “यस्वरे पादः पदणिक्यघुटि" (२।१।१०२) इति पद्भावो न भवति । शातनी, पातनी । अत्रानोऽस्य लुग् न भवति । धरणस्यापत्यं धारणिः रवणस्यापत्यं रावणिः अत्र "नोऽपदस्य०” (७।४।६१) इत्यन्त्यस्वरादिलोपो न भवति । भ्रंश्यते ध्वंस्यते अत्र णिलुगः स्थानिवद्भावादुपान्त्यनकारलोपो न भवति । याज्यते वाप्यते अत्र वृन्न
भवति । निरादनं पूर्व निराद्य समाद्य अत्र जग्धादेशो न भवति । घात्यात् अत्र वधादेशो न भवति । २० निगार्यते निगाल्यते अत्र "न वा खरे" (२।३।१०२) इति पक्षे लत्वम् । चातुरौ । आनडुहौ । अत्र
औत्वादेशस्य स्थानिवद्भावात् “वाः शेषे” (१।४।८२) इति वा न भवति । पादे अत्र एत्वादेशस्य स्थानिवद्भावात् पद्भावो न भवति । उभयजन्यत्वेऽपि अन्यतरव्यपदेशादौत्वैत्वयोः परनिमित्तत्वम् । अवीवदद्वीणां वादकेनेत्यत्र तु णिजात्याश्रयणादुपान्त्यस्य ह्रस्खो भवति । द्वाभ्यामित्यत्र निमित्तापेक्षया प्रागविधौ आत्वे तु "आढेरः” (२।१।४१) इति जातस्य अस्य न स्थानित्वं "वैकत्र द्वयोः” (२।२।८५) २५ इति निर्देशात् । खरस्येति किम् ? अक्राष्टाम् अद्राष्टाम् अत्र सिज्लोपो न स्वरादेश इति “पढोः
कः सि” (२।१।६२) इति कत्वे स्थानी न भवति । आगत्य, अभिमत्य, अत्र पञ्चमलोपो ह्रस्खलक्षणे तकारे स्थानी न भवति । पर इति किम् ? द्वौ पादौ ददाति, द्विपदिकां ददाति । अत्राल्लुकः परनिमित्तत्वाभावात् स्थानित्वाभावे पदादेशो भवति, “सङ्ख्यादेः पादादिभ्यो दानदण्डे चाकल् लुक च"
(७।२।१५२) इति अकल्सन्नियोगशिष्टत्वादल्लुचो नाकल्निमित्तमिति परनिमित्तत्याभावः । प्राग्३०विधाविति किम् ? बानव्यस्य छात्राः बाभ्रवीयाः अत्र *"तद्धितयस्वरेऽनाति" (२।४।९२) व्यञ्जना
त्परस्यापत्यस्य यकारस्य यकारादावाकारादिवर्जिते स्वरादौ च तद्धिते लुग् भवति । इति यलोपे परविधौ कर्त्तव्येऽवादेशः स्थानी न भवति, स्थानित्वे हि उकारान्तत्वेन व्यञ्जनाभावात् यलोपो न स्यात् । निधानं निधिस्तस्यापत्यं नैधेयः निधिकः अत्र “इडेपुसि चातो लुक्" (४।३।९४ ) इत्याकारलोपो द्विस्वरलक्षणे एयणिकप्रत्ययविधौ परस्मिन् स्थानी न भवति अन्यथा त्रिस्वरत्वात्प्रत्ययो न स्यात् । इलु
काया अदूरभवं [ नगरम् ] ऐलुकम् परिखायाः पारिखम् तत्र भवः ऐलुकीयः, पारिखीयः । अत्राण्या३६ कारलोपः परविधौ कखोपान्त्यलक्षणे ईये स्थानी न भवति । पूर्वस्माद्विधिः प्राविधिरित्यप्याश्रीयते तेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org