________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । परिभाषाः अधुक्षन्त इति "स्वरेऽतः” (४।३।७५) इति सकोऽकारलोपस्य परमप्यदादेशं प्रति स्थानिवद्भाव इति स न भवति । पूर्वत्रावर्णविधाविति प्रतिषेधाद्वर्णविध्यर्थ वचनम् ॥ ७ ॥
"न सन्धिडीयक्तिद्विदीर्घाऽसद्विधावस्क्लुकि" ॥ ८॥ (७।४।१११) पूर्वेणातिप्रसक्तः स्थानिवद्भावः प्रतिषिध्यते । सन्धिविधौ १ डीविधौ २ यविधौ ३ किविधौ ४ द्वयोर्तित्वस्य विधौ ५ दीर्घविधौ ६ "संयोगस्यादौ स्कोलक्” (२।१।८८) इति स्कलुक्वर्जिते अस-५ द्विधौ ७ च स्वरस्यादेशः स्थानीव न भवति । 'समानानां तेन' (१।२।१) इति सूत्रादारभ्य "लि लौ" ( १।३।६५) इति सूत्रं यावत् द्वितीयतृतीयपादौ सन्धिविधिः, तत्र वियन्ति, अपयन्ति । अत्रेणो यत्वं स्वरादेशः परनिमित्तकः पूर्वविधौ दीर्घत्वे एत्वे च कर्तव्ये स्थानी न भवति । तानि सन्ति, तौ स्तः अत्रास्तेरल्लोपो यत्वे आवादेशे च कर्त्तव्ये स्थानी न भवति । वैयाकरणः, सौवश्वः अत्र यत्ववत्वयोः स्थानिवद्भावाभावादैदौतोरायावादेशौ न भवतः । शिण्ढि पिण्ढि अत्र भस्याकारलोपो "नां धुडवर्गेऽन्त्यो-१० ऽपदान्ते" (१।३।३९ ) इति वर्गान्ते कर्त्तव्ये स्थानी न भवति । शिंषन्ति; पिंषन्ति इत्यत्र त्वनुसारे कर्तव्ये स्थानी न भवति । जक्षतुः, जक्षुः । अत्र "गमहन०" (४।२।४४) इत्युपान्त्याकारलोपलक्षणः परनिमित्तकः स्वरादेशः "अघोषे प्रथम.” (१।३।५०) इति घस्य कत्वलक्षणेऽव्यवहिते प्राविधौ कर्तव्ये स्थानीव न स्यात् , यदि स्यात्तदा धकारसकारयोर्मध्येऽकारेण व्यवधाने घस्य कत्वं न स्यात्तदभावे "नाम्यन्तस्था०” (२।३।१५) इति सस्य षत्वं न स्यात्तदभावे क्षो न स्यात् ॥ निमित्तापेक्षयापि १५ प्राविधिरिष्यते तेन नयनं, लवनमित्यत्र गुणस्य स्थानिवद्भावाभावादयवादेशौ सिद्धौ स्थानिवद्भावे त्वियुवादेशौ स्याताम् ॥ १॥ डीविधौ बिम्ब्याः फलं बिम्बम् , हेमादित्वादञ् “फले” (६।२।५८) इति लुप् “ड्यादेः०” (२।४।९५) इत्यादिना ङीलुक् तस्य परनिमित्तकत्वेऽपि स्थानिवद्भावनिषेधात् "अस्य ड्यां लुक्" (२।४।८६) इत्यकारलुक् न भवति, एवमामलक्याः फलमामलकम् “दोरप्राणिनः” (६।२।४९) इति मयट् तस्य च "फले" इति लुप् , पञ्चभिः खारीभिः कृतः पश्चखारः । "कृते" २० (६।३।१९० ) इत्यण "द्विगोरनपत्ये०” (६।१।२४ ) इत्यादिना लुप्, पञ्चेन्द्राण्योऽमाय्यो वा देवतास्य पश्चन्द्रः पश्चाग्निः अत्र "देवता" (६।२।१०१) इत्यण तस्य लुपि जीप्रत्ययस्यापि लुप् , तस्य स्थानिवद्भावप्रतिषेधात् तत्सन्नियुक्तः अनागम ऐकारादेशश्च न भवति २ ॥ यविधी, कण्डूतिः कण्डूयतेः क्तावतो लोपः परनिमित्तको “य्वोः प्वव्यञ्जने लुक" (४।४।१२१) इति लोपे कर्तव्ये न स्थानिवद्भवति, सूर्येणैकदिग् सौरी बलाका अत्रैकोऽण्यकारलोपो द्वितीयो ङयां तयोः स्थानिवत्त्वाद्यकारस्यानन्तरो कीर्न २५ भवतीति यलोपो "सूर्यागस्त्ययोरीये च" (२।४।८९) इति ईये ङीप्रत्यये प्राप्तो न स्यात् स्थानिवद्भावप्रतिषेधाच्च भवति ३। ॥ किविधौ, देवयतेः किप् , दयूः लवमाचष्टे लवयतेः विप् , लौः अत्र णिलुगलुचौ किन्विधावूटि कर्त्तव्ये न स्थानिवद्भवतः ४। ॥ द्वित्वविधौ, दद्ध्यत्र मद्ध्वत्र अत्र यत्वव. त्वयोः स्थानिवद्भावादेकव्य अनलक्षणं धकारस्य द्वित्वं भवति। द्वित्वस्य सन्धिकार्यत्वेनैव स्थानिवद्भावप्रतिषेधे सिद्धे द्विग्रहणम् 'असिद्धं बहिरङ्गमन्तरङ्गे' इति न्यायबाधनाथ तेनान्तरङ्गे द्वित्वे क्रियमाणे ३० यकारवकारौ परपदाश्रितत्वेन बहिरङ्गावपि नासिद्धौ भवतः ५ । ॥ दीर्घविधौ अपि, शामंशामम् अशामि, शंशामं शंशामं अशंशामि अत्र णिगन्ताद्यउन्ताच णिगि ख्णम्बिचोः परयोर्णिग् लुग् यडो लुक् च स्थानिवन्न भवति ६।। असदधिकारे विहितो विधिरसविधिः तत्र, यायज्यते यायष्टिः, नान्नितिक्, पापच्यते पापक्तिः याजयतेर्याष्टिः पाचयतेः पाक्तिः अत्राल्लुणिलोपयोः स्थानिवद्भावप्रतिषेधात् षत्वकत्वे भवतः । देहयतेदेग्धिः लेहयतेलेंदिः अत्र णिलोपस्य स्थानिवद्भावप्रतिषेधात् धुनिमित्ते घत्व- ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org