________________
५६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुढत्वे भवतः । प्रतिदीना प्रतिदीने अत्र "अनोऽस्य" (२।१।१०८) इति अलोपो "भ्वादेर्नामिन०" (२। १।६३) इत्यादिना दीर्घत्वे स्थानी न भवति ॥ स्कूलुगविधेः प्रतिषेधः किम् ? सुकुस्मयतेः किप, सुकूः, काष्टं तक्षयति कि काष्टतक् अत्र संयोगायोः स्कोलुंकि णिलुकः स्थानिवद्भावप्रतिषेधाभावात् स्कोलुंग न भवति । संयोगान्तलोपस्त्वसद्विधौ स्थानिवद्भावप्रतिषेधात् भवत्येव । काष्टतडित्यण्यन्तस्य । ५प्रायिकोऽयं निषेधः तेन मधुभ्युतमाचष्टे मधुश्चयतीति किप, मधुक् अत्र शलोपः सिद्धः, वेतस्वानित्यल्लुकः स्थानिवद्भावाभावेऽपि "न सं मत्वर्थे” (१।१।२३) इति पदत्वाभावात्सोरुन भवति, ब्रह्मबन्ध्वौ, ब्रह्मबन्ध्वः इति उडादेशस्य वकारस्य स्थानिवद्भावाभावेऽप्यन्तरङ्गे धस्य तृतीयत्वे लुकि च बहिरङ्गत्वेनासिद्धत्वम् । अयं भावः-यद्यपि उडो वत्वे 'स्वरस्य परे' इति प्राप्तौ वस्य स्थानिवद्भावो
"व्यचोऽनसि" (४।११८२) इत्यनेन निषिध्यते तथाप्यूडो वत्वेऽस्य व्यञ्जनादित्वात् "नामसिद०" १०(१११।२१) इति पदसंज्ञायां प्राप्तायां धस्य तृतीयत्वं लोपश्च वकारस्यासिद्धत्वान्न भवतः । एवं कियोः, गिर्योः इति नामिनो दीर्घत्वे । काक्यर्थ वास्यर्थमित्यत्र तु पदस्येति यलोपे यत्वस्यासिद्धत्वम् । अथ सखीयतीति किम्, अल्लुको यविधौ स्थानिवत्वाभावाद्यलुकि उसि “योऽनेकखरस्य” (२।१।५६ ) इति यस्य "प्वोः०" (४।४।१२१) इत्यादिना किबाश्रयो लुक् कथं न भवति ? बहिःप्रत्ययाश्रितत्वेन बहिरङ्गस्य अन्तःकिबाश्रये लुक्यसिद्धत्वात् ॥ ८॥
लुप्यय्वृल्लेनत् ।।९।। (७४।११२) परस्य प्रत्ययस्य लुपि सत्यां लुब्भूतपरनिमित्तकं पूर्वकार्य न भवति 'अय्वृल्लेन' स्वृल्लत्वमेनञ्च वर्जयित्वा । तद् , अत्र स्थानिवद्भावप्रतिषेधात् त्यदायत्वसत्वे न भवतः । गर्गस्यापत्यानि गर्गाः गर्गादित्वाद्यञ् "यबऽयोऽश्यापर्णान्तगोपवनादेः” (६।१।१२६) इति लुप् । कुवल्या विकारः फलं, कुवलम् हेमादित्वादब् “फले" (६।२।५८) इति तस्य लुप् अत्र वृद्धिर्न भवति । प्लुप्यपि लुपतास्त्येव । तेन २० पश्चगोणिरित्यत्रेकणः प्लुपि वृद्धिर्न भवति, लुपीति वचनात् लुकि भवत्येव । गोमान् यवमान् अत्र सिलुकि तन्निमित्तं दीर्घत्वं भवति, लुपीति सप्तमीनिर्देशात् पूर्वस्य यत्कार्य प्राप्तं तन्निषिध्यते, समुदायस्य तु भवत्येव । पयः, साम, पञ्च, सप्त । अत्र पदसंज्ञा तथा च तन्निबन्धनानि रुत्वनलोपादीनि भवन्ति । कथं पापक्ति, पापचीति इत्यत्र द्वित्वम् ? नेदं यडि निमित्ते किन्तु यउन्तस्य । अवृल्लेनदिति किम् , स्वृत्-व्यध् , वेविद्धि, श्वि शोशवीति, ग्रह जरीगृहीति । लूग, निजागलीति । एनत्-एनत्पश्य, २५एनच्छ्रितकः । स्थानीवावर्णविधाविति लुपः स्थानिवद्भावेन प्राप्तानां पूर्वेषां कार्याणां प्रतिषेधार्थ वचनम् ॥९॥
विशेषणमन्तः॥१०॥ (७४।११३) विशिष्यतेऽनेनेति विशेषणम् । विशेषणं विशेष्यस्य समुदायस्यान्तो भवति । इह शास्त्रे धात्वादिः समुदायोऽवयवविशेषण उपादीयते । तत्र सोऽवयवस्तत्समुदायस्यान्तत्वेन नियम्यते । "अतः स्यमोऽम्" ३०(१।४।५७) कुण्डं तिष्ठति, कुण्डं पश्य । इह न भवति-तद्, “युवर्णवृदृवशरणगमृद्ग्रहः” (५।३।२८) जया, स्तवः । इह न भवति-सेकः योगः । इणोऽलि अय इत्यादौ व्यपदेशिवद्भावाद्भवति ॥ १० ॥
सप्तम्या आदिः ॥११॥ (७४।११४) सप्तम्यन्तस्य विशेष्यस्य यद्विशेषणं तत्तस्यादिरवयवो भवतीति वेदितव्यम् । "इन् डीखरे लुक्" (११४७९) पथः, पथाम् । इह न भवति-पथिषु । "युक्तोपान्त्यस्य शिति स्वरे" (४।३।१४) ३५नेनिजानि, अनेनिजम् । इह न भवति-नेनेति । "उत औषिति व्यञ्जनेऽद्वे:" (४३५९) यौति,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org