________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे संज्ञाधिकारः । परिभाषाः
रौति । इह न भवति - असावीत् अस्तवीत् । पथा, अयौत् इत्यादौ व्यपदेशिवद्भावाद्भवति । अन्तत्वापवादोऽयं योगः ॥ ११ ॥
प्रत्ययः प्रकृत्यादेः ॥ १२ ॥ ( ७|४|११५ )
यस्माद्यः प्रत्ययो विधीयते सा तस्य प्रकृतिः । प्रत्ययः प्रकृत्यादेः समुदायस्य विशेषणं वेदितव्यः नोनाधिकस्य । मातुर्भोगो मातृभोगस्तस्मै हितो मातृभोगीण: "भोगोत्तरपदात्मभ्यामीनः” (७।१।४०) ५ खरपस्यापत्यं खारपायणः नडादित्वादायनण्, अत्र " तदन्तं पदम् " ( १|१।२० ) इति पदसंज्ञा समुदायस्य भवति न तु ऊनस्य भोगीण इत्यादिरूपस्य, तेनैकपदत्वात् णत्वं सिद्धम् । राज्ञः पुरुषः राजपुरुषः “षष्ट्ययत्नाच्छेषे” (३।१।७६ ) इति समासः, अधिकस्य न भवति - ऋद्धस्य राज्ञः पुरुषः । गार्ग्यस्यापत्यं गार्ग्यायणः “यञिञः” ( ६ । १।५४ ) इत्यायनन्, अधिकात्समुदायान्न भवति-परमगार्ग्यस्यापत्यम् । पुत्रमिच्छति पुत्रकाम्यति, अधिकान्न भवति - महान्तं पुत्रमिच्छति । न्यूनाधिकव्यवच्छेदार्थं वचनम् । १० तदन्तत्वं च "विशेषणमन्तः ” ( ७|४|११३ ) इत्येव सिद्धम् ॥ १२ ॥
"
गौणो ङादिः ।। १३ ।। ( ७|४|११६ )
/
ङीमारभ्य ष्यं यावत् ङयादिः प्रत्ययः स गौण उपसर्जनं सन् प्रकृत्यादेः समुदायस्य विशेषणं भवति नोनाधिकस्य । कारीषगन्ध्यामतिक्रान्तः स बन्धुरस्य अतिकारीषगन्ध्यबन्धुः, अतिकौमुद्गन्ध्यबन्धुः । अत्र ध्येणाधिकस्याग्रहणात् “बन्धौ बहुव्रीहौ ” ( २।४।८४ ) इति ईच् न भवति । गौण इति किम् ? अगौ- १५ itsधिकस्यापि विशेषणं भवति । परमकारीषगन्धीबन्धुः परमकौमुदगन्धीबन्धुः । पूर्वेणैव सिद्धेऽगौणस्याधिकपरिग्रहार्थं वचनम् । ध्यादिसूत्राण्यग्रे वक्ष्यन्ते दिमात्रं त्वेवम् - "अनार्षे वृद्धेऽणि बहुवरगुरूपान्त्यस्यान्नस्य ष्यः " ( २।४।७८) अनार्षे वृद्धे विहितौ यावणिनौ प्रत्ययौ तदन्तस्य सतो बहुस्वरस्य गुरूपान्त्यस्य नाम्नोऽन्त्यस्य ष्यः इत्यादेशो भवति, स्त्रियां गुरुग्रहणादनेकव्यञ्जव्यवधानेऽपि भवति, गुरुग्रहणं हि दीर्घपरिग्रहार्थं संयोगपरिग्रहार्थं च, अन्यथा दीर्घोपान्त्यस्येत्यु- २० च्येत । करीषस्येव गन्धोऽस्य करीषगन्धिः तस्यापत्यं पौत्रादि स्त्री "ङसोऽपत्ये” ( ६।१।२८ ) इत्यण्, तस्य ध्यादेशः कारीषगन्ध्या । एवं कौमुदगन्ध्या । शब्दशक्तिस्वाभाव्यात् ष्यादेश आवन्त एव स्त्रीलिङ्गमभिव्यनक्ति । "यापुत्रपत्योः केवलयोरीच् तत्पुरुषे” (२।४।८३ ) मुख्य आबन्तस्य ष्यः पुत्रपतिशब्दयोः केवलयोः परयोस्तत्पुरुषे समासे ईच् भवति । चकारो " वेदूतो० " ( २|४|९८ ) इत्यादौ विशेषणार्थः । कारीषगन्ध्यायाः पुत्रः कारीषगन्धीपुत्रः एवं कारीषगन्धीपतिः । परमकारीषग- २५ न्धीपतिः अत्र कर्मधारये परमकारीषगन्ध्याशब्दस्य ष्यान्तस्य मुख्यत्वेन केवलपतिशब्दे अनेन सूत्रेण ईंच् भवति । अतिकारीषगन्ध्यापतिः अत्र तु अतिकारीषगन्ध्याशब्दस्य घ्यान्तस्य गौणत्वे "गौणो ङयादिः " प्रकृतिमात्रस्यैव विशेषणं नाधिकस्येति कारीषगन्ध्याशब्द एव ध्यान्तो नत्वतिकारीषगन्ध्याशब्द इति तत्पुरुषसमाससत्त्वेऽपि ईच् न भवति । यथा तत्पुरुषसमासे ईच् भवति तथा बहुव्रीहिसमासे ऽपि क्वचित् ईच् भवतीति दर्शयति- "बन्धौ बहुव्रीहौ ” ( २।४।८४ ) मुख्य आवन्तस्य ष्यो बन्धुशब्दे ३० केवले परे बहुव्रीहौ समासे ईच् भवति । कारीषगन्ध्या बन्धुरस्य कारीषगन्धीबन्धुः, कौमुदगन्धीबन्धुः, परमकारीषगन्धीबन्धुः । बन्धाविति किम् ? कारीषगन्ध्यापतिर्ग्रामः । बहुव्रीहाविति किम् ? कारीषगन्ध्याया बन्धुः, कारीषगन्ध्याबन्धुः, मुख्य इत्येव अतिकारीषगन्ध्या बन्धुरस्य अतिकारीषगन्ध्याबन्धुः । " मातमातृमातृके वा" ( २।४।८५ ) मुख्य आवन्तस्य ध्यो मातादिषु केवलेषु परेषु बहुव्रीहौ ईज्वा स्यात्, कारीषगन्ध्या माता यस्य स कारीषगन्धीमातः, कारीषगन्ध्यामातः, परमकारीषगन्ध्यामातः, परमका- ३५ है० प्रका० पूर्णा • ८
Jain Education International
५७
For Personal & Private Use Only
www.jainelibrary.org