________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपशहैमलघुरीषगन्धीमातः । कारीषगन्ध्या माता यस्य स कारीषगन्धीमाता, कारीषगन्ध्यामाता । कारीषगन्धीमातृकः, कारीषगन्ध्यामातृकः । मातेति निर्देशान्मातृशब्दस्य पुत्रप्रशंसामामधयमन्तरेणापि मात इत्यकारान्त आदेशः स्यात् । मातृमातृकशब्दयोश्च भेदेनोपादानादृदन्तलक्षणः कज् विकल्प्यते ॥ १३ ॥
कृत् सगतिकारकस्यापि ॥ १४ ॥ (७।४।११७) ५ कृत्प्रत्ययः प्रकृत्यादेः समुदायस्य गतिकारकपूर्वस्य अपिशब्दात् केवलस्यापि विशेषणं भवति । यथेह
समासो भवति-भस्मनि हुतम् , प्रवाहे मूत्रितम् , तथा उदके विशीर्णम् , अवतप्ते नकुलस्थितम् , इति सगतिकेन सकारकेण च क्तान्तेन "क्तेन" (३।१।९२) इति समासः सिद्धो भवति । तथा व्यावक्रोशी, व्यावहासी, साङ्कौटिनं, सांराविणमिति “नित्यं बभिनोऽण्” ( ७।३।५८) इति अण् सिद्धः, । व्याव
क्रोशीत्यादिप्रयोगाणां सूत्राणि त्वेवम्-"व्यतिहारेऽनीहादिभ्योः " (५।३।११६) व्यतिह१० रणं व्यतिहारः परस्परस्य कृतप्रतिकृतिः, व्यतिहारविषयेभ्यो धातुभ्यः ईहादिवर्जितेभ्यः स्त्रियां बः
प्रत्ययो भवति । बाहुलकाद्भावे । त्यादीनामपवादः। परस्परमाक्रोशनम् व्यावक्रोशी। "अभिव्याप्ती भावेऽनभिन्" (५।३।९०) क्रियया स्वसम्बन्धिनः साकल्येनाभिसम्बन्धोऽभिव्याप्तिस्तस्यां गम्यमानायां भावे धातोरनबिन् इत्येतौ भवतः । समन्ताद्रावः संरवणं, सांराविणं, सङ्कुटनं, साकौटिनम् ।
"नित्यं अभिनोऽ” (७।३।५८) अभिन् इत्येतत्प्रत्ययान्तात्स्वार्थे नित्यमण् प्रत्ययो भवति, नित्य१५ग्रहणान्महाविभाषा निवृत्ता । "प्रत्ययः प्रकृत्यादेः" इत्यतोऽप्राप्ते वचनम् ॥ १४ ॥
परः॥ १५॥ (७४।११८) ___यः प्रत्ययः स प्रकृतेः पर एव भवति । अजा खट्वा । वृक्षः वृक्षौ वृक्षाः । जुगुप्सते, मीमांसते । कार्यम्, भव्यम् । औपगवः ॥ १५ ॥
स्पर्द्ध ॥ १६ ॥ (७४।११९) २० द्वयोर्विध्योरन्यत्र सावकाशयोस्तुल्यबलयोरेकत्रानेकत्र चोपनिपातः स्पर्द्धः, तत्र यः सूत्रपाठे परः स विधिर्भवति । "शसोऽता सश्च नः पुंसि” (१।४।४९) इत्यस्यावकाशो वृक्षान् , मुनीन् । "नपुंसकस्य शिः" (११४५५) इत्यस्य तु महान्ति, यशांसि । इहोभयं प्राप्नोति-वनानि मधूनि, तत्र परत्वात् शिरेव भवति । अयं तावदेकस्य द्विकार्ययोगे स्पर्द्ध उक्तः ॥ अनेकस्याप्यसम्भवे सति भवति । "ई:
षोमवरुणेऽमेः" ( ३।२।४२) इत्यस्यावकाशोऽग्नीवरुणौ । *"देवतानामात्वादौ” (७।४।२८) देवतार्थानां २५शब्दानामात्वादौ विषये णिति तद्धिते परे आदेः पूर्वपदस्य उत्तरपदस्य स्वरेष्वादेः स्वरस्य वृद्धिर्भवति
इति वृद्धरवकाशः । आमावैष्णवं हविः । इहोभयं प्राप्नोति-आमिवारुणीमनड्वाहीमालभेत । परत्वाइद्धिर्भवति । अत्र ह्यग्नेरीत्वं वरुणशब्दस्य वृद्धिरिति च नैको द्विकार्ययुक्तः । असम्भवस्त्वस्ति वृद्धौ सत्यां "इद्धिमत्यविष्णौ” ( ३।२।४३) इति अग्नेरीत्वापवाद इर्भवति । परस्परप्रतिबन्धेनाप्रवृत्तौ पर्यायेण वा प्रवृत्तौ वचनम् ॥ १६ ॥
आसन्नः॥ १७॥ (७४।१२०) इह आसन्नानासन्नप्रसङ्गे यथास्वं स्थानार्थप्रमाणादिभिरासन्न एव विधिर्भवति । तत्र स्थानेन दण्डाप्रम्, क्षुपाप्रम् कण्ठ्ययोरकारयोः कण्ठ्य एवाकारो दीपों भवति । अर्थेन, वातण्ड्ययुवतिः। दारदवृन्दारिका अत्र वतण्डीशब्दस्य दरच्छशब्दस्य च "पुंवत्कर्मधारये" (३।२।५७) इति पुंवद्भावे कर्त्तव्ये
अर्थत आसन्नो वातण्ड्यभावो दारदभावश्च भवति, तथाहि * "वतण्डात्” (६।११४५) वतण्डशब्दादा३५ङ्गिरसेऽपत्यविशेषे यडेव भवति-बातण्ड्यः । * "स्त्रियां लुप्" (६।१।४६) वतण्डशब्दादाङ्गिरसेऽपत्य
१०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org