________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे संज्ञाधिकारः । परिभाषाः
५९ विशेषे स्त्रियां यत्रो लुप् भवति-वतण्डस्यापत्यं वृद्धं स्त्री आङ्गिरसी वतण्डी, अस्य पुंवद्भावे वातण्ड्ययुवतिरिति भवति । दरदां राजा, दरदोऽपत्यं वा "पुरुमगधकलिङ्गसूरमसद्विस्वरादण्" (६।१।११६) दारदः "द्रेरमणोऽप्राच्यभर्गादेः' (६।१।१२३) इति नियामस्य लुक् दरत् , अस्य पुंवद्भावे दारदवृन्दारिकेति । प्रमाणेन अमुष्मै, अमूभ्याम, "मादुवर्णोऽनु" (२।१।४७) इति मात्रिकस्य मात्रिको द्विमात्रस्य द्विमात्रः ।। १७ ॥
सम्बन्धिना सम्बन्धे ॥ १८ ॥ (७४।१२१) सम्बन्धिशब्दानां यत्कार्यमुक्तं तत्सम्बन्ध एव सति भवति नान्यथा । 'श्वशुराद्यः' (६।१।९१) श्वशुरस्यापत्यं श्वशुर्यः । संज्ञाशब्दात्तु इनेवश्वाशुरिः । “मातृपितुः स्वसुः” ( २।३।१८) मातृष्वसा, धान्यमातुः स्वसुस्तु न भवति-मातृस्वसा ।। १८ ॥
समर्थः पदविधिः ॥ १९ ॥ (७४।१२२) समर्थपदाश्रयत्वात्समर्थः, पदसम्बन्धी विधिः पदविधिः, तेन यः पदाद्विधिः, यश्च पदे, यश्च पदस्य, पदयोः, पदानां वा स सर्वः पदविधिरेव । सर्वः पदविधिः समर्थो वेदितव्यः, समर्थानां पदानां विधिर्वेदितव्य इत्यर्थः । तत्र सामर्थ्य व्यपेक्षा, एकार्थीमावश्च, अत्र व्यपेक्षायाः सम्बद्धार्थः सम्प्रेक्षितार्थो वा पदविधिः साधुर्भवति।तत्र सम्बद्धोऽर्थो यत्र झटित्येव पदानामन्वयः प्रतीयते यथा राज्ञः पुरुषः इत्यादौ । सम्प्रेक्षितः कष्टकल्पनया प्रतीतो यथा-"राजोत्पले हरिभुजामिह के शवस्य, यस्योरसीन्दुरदनं च जटा-१५ कलापे । शङ्खाम्बरोऽपि पवनादरिनाथसूनुः कान्ता स वोऽगतनया विपुलं ददातु ॥ १ ॥" हरिभुजां वायुभुजां शेषाऽहिर्यस्योरसि, यस्य जटाकलापे इन्दुः उत्पले निर्मासे शवस्य के मस्तके अदनं भक्षणं, यस्य अगतनया कान्ता, स खाऽम्बरोऽपि विपुलं शं ददातु, स किंविशिष्टः ? पवनादः सर्पस्तस्यारिः केकी तस्य नाथः षण्मुखः स सूनुर्यस्येति सम्प्रेक्षितपदविधेरुदाहरणम् । एकार्थीभावे तु विग्रहवाक्यार्थाऽभिधाने यः शक्तः सङ्गतार्थः संसृष्टार्थो वा पदविधिः स साधुर्भवति । अत्र च पदानि उपसर्जनीभूतस्वार्थानि २० निवृत्तस्वार्थानि वा प्रधानार्थोपादानात् व्यर्थान्यर्थान्तराभिधायीनि वा भवन्ति ॥ पदविधिश्च समासनामधातुकृत्तद्धितोपपदविभक्तियुष्मदस्मदादेशप्लुतरूपो भवति । तत्र समासः, द्वितीया "श्रितादिभिः” (३।१।६२) धर्मं श्रितो धर्मश्रितः । "तृतीया तत्कृतैः” (३।११६५) शङ्कलया कृतः खण्डः शङ्कुलाखण्डः, । "चतुर्थी प्रकृत्या" (३।११७०) यूपाय दारु, यूपदारु । “पञ्चमी भयाद्यैः" (३।११७३) वृकाद्भयं वृकभयम् । “षष्ठ्ययत्नाच्छेषे” (३।११७६) राज्ञः पुरुषः राजपु-२५ रुषः । “सप्तमी शौण्डायैः” (३।१।८८) अक्षेषु शौण्डः अक्षशौण्डः । “विशेषणं विशेष्येणैकार्थ कर्मधारयश्च" (३।११९६ ) नीलं च तदुत्पलं च नीलोत्पलम् । एषु पूर्वोत्तरपदयोर्वाक्यावस्थायां परस्पराकाडालक्षणा व्यपेक्षा, वृत्त्यवस्थायां तु पृथगर्थानां सतामेका भाव इति । तथाहि-धर्ममित्येतसाधनत्वात्साध्यभूतां क्रियामपेक्षते । श्रित इत्येतदपि श्रयणक्रियोपसर्जनकर्तृवाचि स्वक्रियाविषयं साधनमपेक्षते । तयोश्च परस्परसंसर्गात् मूछितावयव इव वृत्तावेकार्थीभावो भवति । धर्म श्रितो धर्मत्रि-३० तश्चैत्र इति । एवं शङ्कलया कृतः खण्डः शङ्खलाखण्डः । कर्तृकर्मणोर्गम्यमानभवतिकरोतिक्रियाकृता वाक्ये व्यपेक्षा, वृत्तावेकार्थीभावः । एवं चतुर्थीसमासादावपि यूपायेत्यादि सामान्यमवच्छेदाय भेदानाकाङ्क्षति । [किं यूपाय गच्छत्यागच्छति पुष्पं दारु वेति । दार्वपि यूपाय गृहाय दाहाय वेति भेदानाकाङ्क्षति ] एवं सर्वत्रोपसर्जनानां प्रधानानां च परस्परमाकाजावतां कचित्प्रकृतिविकारभावलक्षणः कचिदवध्यवधिमद्भावात्मकः कचित्स्त्रस्वामिभावः कचिद्विषयविषयिभावरूपः सम्बन्धो वाक्ये व्यपेक्षा, ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org