________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुवृत्तौ त्वेकार्थीभावः । एवं नीलमित्येतद्विशेषणं गुणत्वाद् द्रव्यमाकाकति । उत्पलमित्येतदपि सर्वो. सलावग्रहरूपेण प्रवृत्तं सद् विशेषणं गुणमाकाङ्क्षति । वृत्तौ पुनरेकार्थीभावेन पांसूदकवदविभागापन्नौ तावु. भावप्यर्थावेकस्मिन्नधिकरणे मूर्च्छिताविव भवतः । नीलं च तदुत्पलं च नीलोत्पलमिति । तदेवं साम
र्थ्यमविशेषोक्तमपि लोकव्यपेक्षया वृत्त्यवृत्त्योः स्वभावेन विभक्तमवतिष्ठते । यत्र त्वसामर्थ्यं तत्र समासो ५न भवति । यथा पश्य धर्मं श्रितो मैत्रो गुरुकुलम् । किं ते शङ्खलया खण्डो मैत्र उपलेन । गच्छ यूपाय दारु शोभनं शैले । निवर्त्तख व्याघ्रात् भयं चैत्रस्य मैत्रात् । भार्या राज्ञः पुरुषो देवदत्तस्य । सक्तस्त्वमक्षेषु शौण्डः पिबति पानागारे । नामधातुः, पुत्रमिच्छति पुत्रीयति । श्येन इवाचरति श्येनायते । समर्थ इति किम् ? पश्यति पुत्रमिच्छति सुखम् । कृत् , कुम्भं करोति कुम्भकारः । समर्थ इति किम् ? पश्य कुम्भं करोति कटम् । तद्धितः, उपगोरपत्यं औपगवः । समर्थ इति किम् ? गृहं उपगोरपत्यं तव। १० उपपदविभक्तिः , नमो देवेभ्यः । अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः । उपाध्यायश्चेदागच्छेदाशंसे युक्तोऽधीयीय । समर्थ इति किम् ? इदं नमो देवाः शृणुत । देवदत्त मातरं स्मरसि । अवसाम दीर्घ मगधेषु । युष्मदादेशः, धर्मस्ते खं धर्मों मे स्वम् । धर्मो वः वं धर्मों नः स्वम् । समर्थ इति किम् ? ओदनं पच तव भविष्यति मम भविष्यति । प्लुतः, अङ्ग कूज ३ इदानीं ज्ञास्यसि जाल्म ।
समर्थ इति किम् , अङ्ग कूजत्ययमिदानी ज्ञास्यसि जाल्मः ॥ १५ पदग्रहणाद्वर्णविधिरसामर्थेऽपि-तिष्ठतु दध्यशान त्वं शाकेन तिष्ठतु कुमारीच्छत्रं हर देवदत्तेति
यत्वं द्वित्वं च भवति । एवं समासनामधातुकृत्तद्धितेषु वाक्ये व्यपेक्षा वृत्तावेकार्थीभावः शेषेषु पुनर्व्यपेक्षैव सामर्थ्य भवति । ननु च राज्ञः पुरुषमानयेत्युक्ते योऽर्थ आनीयते राजपुरुषमानयेत्यप्युक्ते स एव तत् कोऽत्र व्यपेक्षका भावयोर्विशेषः ? उच्यते-सयाविशेषो १ व्यक्ताभिधानम् २ उपसर्जनविशेषणं ३ चयोगश्चेति ४ । तत्र राज्ञः पुरुषः, राज्ञोः पुरुषः, राज्ञां पुरुषः इति वाक्ये सङ्ख्याविशेषो २० भवति समासे न भवति राजपुरुषः इति । वाक्ये ह्युपसर्जनानि विभक्तार्थाभिधायित्वात् सङ्ख्याविशेषयुक्तं
स्वार्थ प्रतिपादयन्ति । समासे त्वन्तर्भूतस्वार्थ प्रधानार्थमभिदधतीत्यभेदैकत्वसङ्ख्यां गमयन्ति । सङ्ख्याविशेषाणामविशेषेणावस्थानमभेदैकत्वसङ्ख्या ।
__ “यथौषधरसाः सर्वे मधुन्याहितशक्तयः ।
अविभागेन वर्तन्ते तां सङ्ख्यां तादृशी विदुः ॥ १॥" २५ तामित्यभेदैकत्वसङ्ख्याम् , तादृशीमिति मध्वाहितशक्तिकौषधरससदृशीम् । विभक्तिवाच्यैव तु सङ्ख्या
वृत्तौ निवर्त्तते नामादिगम्या तु न निवर्त्तते । यथा द्विपुत्रः, पञ्चपुत्र इत्यादौ नामार्थ एव सङ्ख्याविशेषः । तावकीनो, मामकीन इत्यादेशाभिव्यङ्ग्यमेकत्वम् । शौर्पिकः, मासजात इति परिमाणस्वाभाव्यादेकत्वसङ्ख्यावगमः । कारकमध्यं, व्यञ्जनमध्यमित्यादौ मध्यान्वथानुपपत्त्या द्वित्वायगमः । यत्रापि वृत्तौ विभक्ते ब् नास्ति । दास्याः पुत्रः, देवानां प्रियः, आमुष्यायणः, अप्सव्यः, गोषुचरः, वर्षासुज, इति । ३० तत्रापि सङ्ख्याविशेषो नास्ति सामान्येन विशेषणमात्रप्रतीतेः । अत एव वृत्तौ सत्याभेदाभावात् स्वभावनि
वृत्ता विभक्तिः लुपा अन्वाख्यायते। अलुप्समासे तु शब्दान्तरं विभक्त्यन्तप्रतिरूपावयवमनेनोपायेन प्रतिपाद्यते। १। तथा वाक्ये व्यक्ताभिधानं भवति-ब्रामणस्य कम्बलस्तिष्ठति । समासे पुनरव्यक्तं ब्राह्मणकम्बलस्तिष्ठतीति । सन्दिह्यते अत्र षष्ठीसमासो वा सम्बोधनं वेति । किश्चित्पुनरव्यक्तं वाक्ये । यथार्द्ध पशोर्देवदत्तस्येति । पशुगुणस्य वा देवदत्तस्येति यदड़ यो वा संज्ञीभूतः पशुस्तस्य यदर्द्धमिति वा । तच्च
समासे व्यक्तं अर्द्धपशुर्देवदत्तस्येति । २। तथा वाक्ये उपसर्जनविशेषणं भवति । ऋद्धस्य राज्ञः पुरुषः। ३६ समासे न भवति, राजपुरुषः । यथाहु:-"सविशेषणानां वृत्तिन, वृत्तस्य वा विशेषणं न प्रयुज्यते” इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org