________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे संज्ञाधिकारः । परिभाषा:
६१
विशेषणयोगे हि सापेक्षत्वेनागमकत्वादसामर्थ्यं भवति । यत्र च कचिद्विशेषणयोगेऽपि गमकत्वं तत्र भवत्येव समासः । यथा देवदत्तस्य गुरुकुलम्, यज्ञदत्तस्य दासभार्या ।
“सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः प्रवर्त्तते ।
स्वार्थवत्सा व्यपेक्षाऽस्य वृत्तावपि न हीयते ॥ १ ॥ ३ ॥
1
तथा वाक्ये चयोगो भवति । स चयोगः स्वचयोगः स्वामिचयोगश्च । राज्ञो गौश्वाश्वश्च पुरुषश्च ॥ ५ चैत्रस्य मैत्रस्य मित्रस्य च गौः । समासे न भवति । राज्ञो गोऽश्वपुरुषाः चैत्रमैत्रमित्राणां गौरिति ॥४॥ यदि समर्थः पदविधिः कथमसामध्ये सूर्यमपि न पश्यन्ति असूर्यपश्या राजदाराः, न पुनर्गीयन्ते अपुनर्गेयाः श्लोकाः, श्राद्धं न भुङ्क्ते अश्राद्धभौंजी, अलवणभोजी, सर्वश्वर्मणा कृतः सार्वचर्मीणो रथः, कृतः पूर्वं कटोऽनेनेति कृतपूर्वी कटमित्याद्यावृत्तयो भवन्ति ? " किं हि वचनान्न भवति ?” गमकत्वान्नञ् [ इत्यनेनाऽसामर्थ्येऽपि बाहुलकात्समासो भवतीत्यर्थः ] ॥ १९ ॥
Jain Education International
इति वरपरिभाषापद्धतिं जानतः स्याद् द्रुततरमनपायं शब्दशास्त्रप्रवेशः । न भवति परिभाषाज्ञानशून्यस्य लोके
व्यवहृतिपरिणद्धे कार्यजातेऽधिकारः ॥ १ ॥ यां शिष्योऽद्भुतकीर्त्तिकीर्त्तिविजयश्रीवाचकाहर्म्मणे राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः । तस्यां शासित साधुशब्दसरणौ खोपज्ञसत्प्रक्रिया
वृत्तौ पूर्ण (अयम् ) श्रुतिसुख (करः) संज्ञाधिकारः सुखम् ॥ १ ॥
For Personal & Private Use Only
१०
१५
१८
www.jainelibrary.org