________________
अथ ख र सन्धि र भिधीयते ।
अथेति-अथ संज्ञाकथनानन्तरं स्वराणां सन्धिः सन्धानं कथ्यते । स च 'यथोद्देशं निर्देश' इति न्यायात् क्रमोलाने हेत्वभावाच्च अवर्णादिक्रमेणवोच्यते ।
वृषभ अजितौ इति स्थिते अत्र यद्यपि 'वृत्त्यन्तोऽस' इत्युत्तरपदस्य वृत्त्यन्तत्वेन पदत्वनिषेधात् "लुगस्यादेत्यऽपदे” इति पूर्वपदाकारस्य लुक् प्राप्नोति, तथापि 'सर्व वाक्यं सावधारणम्' इति न्यायात् 'अपदे' इत्यत्रापदस्यैवादिरित्यवधारणान्न भवति, उत्तरपदस्यावृत्त्यवस्थायां पदत्वादिति । तत्र सूत्रम् -
समानानां तेन दीर्घः ॥ १॥ [सि० ११२१] समानानां तेन परेण समानेन सह दीर्घः स्यात् । द्वयोः स्थाने एको दीर्घः स्यादिति संहार्थः । “लोकात्" खरहीनं परेण संयोज्यम् । वृषभाजितौ । तब आयुः तवायुः । दधि इदम् १० दधीदम् । मधु उदकम् मधूदकम् । पितृ ऋषभः पितृषभः । होत् लकारः होतृकारः॥१॥
समाना० । समान ६-३ "हखापश्च" आमो नाम् ' दी| नाम्यतिमृचतसृष्रः" इति दीर्घे समानानाम् । तद् ३-१ टा "आवरः” इति दस्य अः "लुगस्यादेत्यऽपदे” इत्यकारलुक् "लोकात्" अकारसंयोगः "टाङसोरिनस्यौ” टाया इनः "अवर्णस्ये०" तेन । दीर्घ १.१ "सोरुः" "रः पदान्ते." । "तौ मुमौ०" मोऽनुस्वारः, समानानां तेन दीर्घः । त्रिपदमिदं सूत्रम् ।। सहार्थ इति, यत्र कापि सहशब्दप्रयोगस्तत्र १५सर्वत्रापि द्वयोः स्थानिनिमित्तयोः स्थाने एक कार्य स्यादिति परिभाषा ज्ञेया । ननु तेनेति सहार्थे तृतीयेति
द्वयोर्दीर्घत्वं प्राप्नोति यथा पुत्रेण सह स्थूल इति, नैवम् , अत्र अजाक्षीरेण सहौषधं पिबेदितिवदेक एव दीर्घ इति । "ननु तेनेत्यत्र खेनेति क्रियतामेवमिवर्णादेरखे इत्यत्रावग्रहणं न कर्त्तव्यं स्यादित्यत्रोच्यते, दधिशीतमित्यत्र इकारशकारयोस्तालव्यत्वान्मतान्तरेण शकारस्यापि विवृतत्वादीर्घः प्राप्नोतीति तेनेत्युक्तम् ;" एतच्च लघुन्यासोक्तं नातिक्षोदक्षम, खमते आस्यप्रयत्नभेदेन परमते च नाझलाविति वचनेन २० स्वसंज्ञाप्रतिषेधात् । अत्र च स्थानिनिमित्ताभ्यां चतुर्भङ्गी यथा द्वावपि ह्रस्वौ १ आयो ह्रस्वः परो दीर्घः
२ आद्यो दीर्घः परो हवः ३ द्वावपि दीपों ४ । उदाहरणानि च वृषभाजितौ १ तवायुः २ श्रद्धात्र ३ मेधायुषी ४ । एवमिवर्णादिवपि चतुर्भझ्या सर्वत्र सन्धिरुदाहार्यः । समानानामिति बहुवचनं व्याप्त्यर्थं तेन ऋलति ऋलतोरपि "ऋलति हस्खो वा” इति सूत्रेण हवः स्यात्, क्ल ऋषभः होत लकारः, अन्यथा 'ऋस्तयोः' इति परत्वात् ऋरेव स्यादिति । अत्रायं विशेषः "लत ऋल ऋलभ्यांवा"[सि० १।२।३] २५ लतःस्थाने ऋता लता च सह यथासङ्ख्यं ऋल इत्येतद्वर्णद्वयं वा स्यात् [ऋ इति स्वरसमुदायो वा स्वरव्यञ्जनसमुदायो वा वर्णान्तरं वा ] तच [ ईषत्स्पृष्टकरणं] द्विरेफतुरीयमध्यर्द्धस्वरमात्रमित्येके, [संवृततरं ] सकलरेफर्कारमर्द्धस्वरभक्तिकमित्यन्ये, द्विरेफश्रुतिकमध्यर्धस्वरमात्रमित्यपरे । ल इत्यत्र च रेफस्थाने लकारो ज्ञेयः । कु ऋकार इति स्थिते कृकारः १ पक्षे 'ऋलति ह्रस्वो वा' क्ल ऋकारः २ । पक्षे
"ऋस्तयोः" [सि० १।२।५] तयोर्लकारऋकारयोः स्थाने ऋलभ्यां सह ऋकारो द्विमात्रः स्यात् । ३० कृकारः ३ । लता, कुकारः १ क् लकारः २ कुकारः ३ । ऋतो वा तौ च [ सि० १।२।४ ] एवं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org