________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे खरसन्धिः । अवर्णस्वर्णादिना ऋतः स्थाने ऋलभ्यां सह यथासङ्ख्यं ऋ लु वा स्याता; परमयं विशेषः, पक्षे ऋतः स्थाने ऋकारेण सह ऋकारः, लकारेण लकारश्च वा स्यात् । ऋता, पितृ ऋषभ इति स्थिते पितृषभः १ पितृषभः २ पितृ ऋषभः ३ 'ऋस्तयो'रिति पितृषभः ४ । लता होट लकार इति स्थिते होलूकारः १ होतृकारः २ होत लकारः ३ होलकारः ४ । एवं च लकारस्य ऋलभ्यां सह षद् रूपाणि ऋकारस्य चाष्टौ रूपाणि स्युरिति ॥१॥ अथ अवर्णस्य इवर्णादिभिश्चतुर्भिः सह सन्धिभिधत्ते
____अवर्णस्येवर्णादिनैदोदरल् ॥ २ ॥ [ सि० १।२६] अवर्णस्य इवर्ण उवर्ण वर्ण लवर्णैः सह एत् ओत् अर अल् इत्येते आदेशाः स्युः। यथासङ्खयमनुदेशः समसङ्ख्याकानाम् । तव इदं तवेदम् । गङ्गा उदकं गङ्गोदकम् । महा ऋषिः 'जलतुम्बिकान्यायेन रेफस्योर्द्धगमनम्' महर्षिः । तव लकारः तवल्कारः ॥२॥
अवर्ण ६-१ "टाङसोरिनस्यौ" उसः स्यः, इवर्ण आदिर्यस्य स इवर्णादिस्तेन ३-१ आ "टः पुंसि, १० ना"; एच ओच्च अर् च अल् च एदोदरल् १-१ "अनतो लुप्" । अनेनैव सूत्रेण एत्वे "ऐदौत्सन्ध्यक्षरैः' इति ऐत्वे च अवर्णस्येवर्णादिनैदोदरल् । त्रिपदमिदं सूत्रम् । ननु स्वस्मिन् स्वक्रिया नोपपद्यते निपत्स्यमानं च सूत्रं कार्यां नोत्पादयेदिति चेदुच्यते-"आत्मानं भासयन्नेव प्रदीपोऽन्यं प्रकाशयेत् । उदेष्यन्नपि मार्तण्डः पराभवति तामसम् ॥ १ ॥” इति । यदि 'सुशिक्षितोऽपि नटः स्वस्कन्धं नारोहति' इति न्यायात् स्वस्मिन् स्वस्य क्रिया न भवति, अनुत्पन्नेन च कार्यकरणेऽतिप्रसङ्ग इति मतं तदा १५ "लोकात्" इति सूत्रेण सर्व सिद्धपतीति । *'यथासङ्ख्यमिति न्यायः, सङ्ख्याया अनतिक्रमेण यथासङ्ख्थं तब कचित् 'स्थानिकार्ययोः' यथा “इवर्णादेरखे स्वरे यवरलम्" इत्यत्र, कचिच्च निमित्तकार्ययोः' यथात्र सूत्रे, ततश्च प्रथमेन निमित्तेन सह प्रथमं कार्य द्वितीयेन सह द्वितीयमित्यादि; एवं च अवर्णस्य इवणेन सह एत्, उवर्णेन सह ओत् , ऋवर्णेन सह अर्, लुवर्णेन सह अलू भवतीति भावः ॥२॥ अथात्रापवादसूत्रमाह
ऋणे प्रदेशार्णसनकम्बलवत्सरवत्सतरस्यार् ॥ ३ ॥ [सि० १७] प्रादीनां सप्तानामवर्णस्य ऋणे परे ऋता सहार स्यात् । प्रऋणं प्रार्णम् । ऋण ऋणं ऋणार्णम् ॥३॥
ऋणे० । ऋण ७-१ "अवर्णस्येवर्णावि०" प्रश्च दश च ऋणं च वसनं च कम्बलश्च वत्सरश्च वत्सतरश्च प्रदशार्णवसनकम्बलवत्सरवत्सतरं तस्य इति । प्रदश० ६.१ "टाङसो०"। आर् १-१ "दीर्घड्यां०" २५ सिलुक् । “नानो नोऽनह्नः" इति दशनशब्दस्य नलोपः अनेन सूत्रेणार् । अयमरं बाधते । 'येन प्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः' सचापवादो बहुधा भवति, कचित् स्थानिविशेषात् , कचिन्निमित्तविशेषात् , कचिदुभयविशेषात्, कचिदर्थान्तरविशेषाच्च । तत्रास्मिन् सूत्रे स्थानिनिमित्तोभयविशेषादपबादः, तथैवाह प्रादीनामिति-प्रगतं, प्रकृष्टं वा ऋणं प्रार्णम् १-१ । दशानां ऋणं दशार्णम् १-१ । ऋणस्य अवयवतया सम्बन्धि ऋणं ऋणे ऋणं वा ऋणार्णम् १-१। वसनानां वस्त्राणां गणं वसनार्णम् १-१ । कम्ब-३० लस्य ऋणं कम्बलार्णम् १-१ । वत्सरस्य वर्षस्य ऋर्ण वत्सरार्णम् १-१।हस्खो वत्सो वत्सतरः "वत्सोक्षावर्षभाद् हासे पित्” इति तरट् पित्प्रत्ययः 'दम्यवत्सतरौ समौ' इति नाममालायां, वत्सतरस्य गणं वत्सतराणम् १-१ । सर्वत्रानेन सूत्रेण अरपवाद आर् "अतःस्यमोऽम्" इति सेरम् “समानादमोऽतः" इत्यकारलुप्। समानानामिति बहुवचनस्य व्याप्त्यर्थत्वेनोक्तत्वादिहोत्तरत्र पूर्वत्र च "अलति हस्खो वा” इति सूत्रेण ३४
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org