________________
६४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुहस्खोऽपि भवति हस्खविधानसामर्थ्यादसन्धिश्च, मह ऋषि, प्र ऋणं, दश ऋणमित्यादि ॥३॥ अत्रैव निमित्तविशेषादर्थविशेषाच अपवादमाह-सूत्रम्
ऋते तृतीयासमासे ॥ ४॥ [ सि० १२८] अवर्णस्य ऋते परे तृतीयासमासे ऋता सहार स्यात् । शीत ऋतः शीतातः इत्यादि ॥४॥ ५ ऋत ७-१ "अवर्णस्ये०” ए। तृतीयया समासः तस्मिन् तृतीयासमासे ७-१ । द्विपदं सूत्रम् । शीतेन
ऋतः "कारकं कृता" इति सूत्रेण तृतीयातत्पुरुषसमासः, अनेन आर् शीतार्तः, हस्खोऽपि भवति शीत ऋत इति। तृतीयासमास इति किम् ? परमश्चासौ ऋतश्च परमर्त्त इत्यत्र कर्मधारयसमासे शीतेनत इत्यत्र वाक्ये च "अवर्णस्ये.” इत्यादिना अरेव । मूले इत्यादिग्रहणाच्च "ऋत्यारुपसर्गस्य" [सि० १।२।९] उपसर्गस्थस्यावर्णस्य ऋकारादौ धातौ परे ऋता सह आर् स्यात् । प्रार्च्छति, परा१० र्छति । "नाम्नि वा" [सि० १।२।१० ]"लत्याल्वा" [सि० १।२।११ ] ऋकारादौ लुकारादौ
च नामधातौ परे उपसर्गस्थस्यावर्णस्य आर् आल् च वा स्यात् । प्रार्षभीयति, प्रर्षभीयति । उपाल्कारीयति उपल्कारीयति इत्यादि बोध्यम् ॥ ४ ॥ अथ अवर्णस्य सन्ध्यक्षरैः सह सन्धिमाह । सूत्रम्
ऐदौत् सन्ध्यक्षरैः ॥ ५॥[सि० ११२।१२] अवर्णस्य सन्ध्यक्षरैः परैः सह ऐ औ स्याताम् । तव एषा तवैषा । महा ऐश्वर्यम् महैश्वर्यम् । १५तव ओदनः तवौदनः । तव औपगवः तवौपगवः ॥५॥
ऐदौ० । ऐञ्च औञ्च ऐदौत् १-२ सूत्रत्वाद्विभक्तिलोपः, सन्ध्यक्षर ३-३ "भिस ऐस्" अनेनैव च सूत्रेण ऐत्वे "सोरुः" "रः पदान्ते०" सन्ध्यक्षरैः । द्विपदमिदं सूत्रम् । युष्मद् ६-१ "तब मम डसा" तव । एतद् १-१ "आढेरः" द अ "लुगस्यादेत्यऽपदे" इत्यकारलोपः 'लोकादि'त्यकारयोगे "तः
सौ सः” इति तस्य सत्वे "नाम्यन्तस्था०” इति सस्य षत्वे, आप् , “दीर्घड्याब्” इति सेलृप् २० एषा, अनेन ऐत्वे तवैषा । 'ईशिक् ऐश्वर्ये' ईश ईष्टे "स्थेशभासपिसकसो वरः" इति वरप्रत्यये
ईश्वरः, ईश्वरस्य भावः कर्म वा "पतिराजान्तगुणाङ्गराजादिभ्यः कर्मणि च" इति ध्यणप्रत्यये 'वृद्धिः स्वरेष्वादेः" इति स्वरवृद्धौ "अवर्णस्य०" इत्यल्लोपे ऐश्वर्य, महच्च तदैश्वर्यं च "सन्महत्परमोत्कृष्टपूजायाम्" इति कर्मधारये "जातीयैकार्थेऽच्वेः" इति डाप्रत्यये अनेन ऐत्वे महेश्वर्यम् । युष्मद् ६-१ तव ।
ओदनः १-१ "सोरुः" "र: पदान्ते.", अनेन औत्वे तवौदनः । उप समीपे गावो यस्य "गोश्चान्ते." २५ इति ह्रस्वे उपगुः उपगोरपत्यं “सोऽपत्ये” इत्यण "अस्वयम्भुवोऽव्" इत्युकारस्य अवादेशे "वृद्धिः स्वरेष्वादेः" इति वृद्धौ औपगवः अनेन औत्वे तवौपगवः ॥५॥ तथात्र निमित्तविशेषादपवादमाह
वौष्ठौतौ समासे ॥६॥[सि० १०२।१७] ओष्ठौत्वोः परयोः समासेऽवर्णस्य लुग्वा स्यात् । बिम्बोष्ठी । विम्बौष्ठी । स्थूलोतुः । स्थूलौतुः । क्वचिदन्यत्राप्येदोतोः परयोरवर्णस्य लुग्वाच्या । अद्य ओम् अद्योम् । इह एव तिष्ठ इहेव ३० तिष्ठ । क्वचिदवर्णस्येवर्णोवर्णाभ्यां सहैत्वौत्वे वाच्ये । स्व ईरः खैरः । ख ईरिणी स्वैरिणी। अक्ष ऊहिणी अक्षौहिणी । प्र ऊढः प्रौढः ॥ ६॥
वौष्ठौ । वा १-१ "अन्ययस्य” इति सिलुक् ओष्ठश्च ओतुश्च ओष्ठौतुः तस्मिन् ओष्ठौतु ७-१ "डिडौं" "डित्यन्त्यस्वरादेः" इत्युकारलोपः, समाहारद्वन्द्वेऽपि सूत्रत्वान्न लीबत्वं "छन्दोवत्सूत्राणि भवन्ति" इति ३४ न्यायात सूत्रेषु बाहुलकविधिर्भवतीति । “ऐदौत् सन्ध्यारै"रित्यौत्वं वौष्ठौतौ समास ७-१ "अवर्णस्ये."
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org