________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे खरसन्धिः । अवर्णेवर्णादीनाम् वौष्ठौतौ समासे । त्रिपदं सूत्रम् । बिम्बमिव ओष्ठौ यस्याः "उष्ट्रमुखादयः” इति बहुव्रीहौ अनेन अलोपे बिम्बोष्ठ इति स्थिते "नासिकोदरौष्ठजवादन्तकर्णशृङ्गाङ्गगात्रकण्ठात्” इति ज्यां बिम्बोष्ठी, पक्षे “ऐदौसन्ध्यक्षरैः” इत्यौत्वे बिम्बौष्ठी । स्थूलश्चासौ ओतुश्च अनेन अकारलोपे स्थूलोतुः । समास इति किम् ? हे पुत्रौष्ठं पश्य, अत्र “ऐदौत्सन्ध्यक्षरैरि"त्यौत्वमेव । अत्र सङ्केपमाह-कचिदन्यत्रापीति स्पष्टम् । इदम् ७-१ अस्मिन्नहनि अद्य "सद्योऽद्यपरेद्यव्यहि” इति सूत्रेण निपात्यते "अधण्तस्वाद्याशसः" इत्यव्यय-५ संज्ञा । अत्र सूत्रपद्धतिः-"ओमाङि" [सि० १।२।१८] ओमि आङादेशे च परे अवर्णस्य लुक स्यात् । अयेत्यादि अद्य १-१ "अव्यय०" सिलुप् ओम् १-१ "अव्ययस्य" सिलुप् अनेन अकारलोपे अद्योम् , एवं आङादेशे ओंकारे परेऽपि अलुक वा स्याद् यथा आ ऊढा ओढा, अद्य ओढा अद्योढा, सा अढा सोढा । इहेव तिष्ठेति इदम् ७-१ अस्मिन्निह "क्ककुत्रात्रेह" इति निपातः “अनियोगे लुगेवे" [सि० १।२।१६ ] अनवधारणेऽर्थे एवे परे अवर्णस्य लुग् भवति यथा इहेव तिष्ठ अन्यत्र वा गच्छ १० यथेच्छं कुर्वित्यत्रानवधारणं प्रतीयते, अवधारणे तु इहैव तिष्ठ मा गाः इत्यत्र "ऐदौत्सन्ध्यक्षरैरि"त्येव भवति । “उपसर्गस्यानिणेधेदोति" [सि० १।२।१९] उपसर्गस्थस्यावर्णस्य इणेधिवजैकारादौ ओकारादौ च धातुपरे लुक् स्यात् । प्रपरा 'इलण् प्रेरणे' "चुरादिभ्यो णिच्" इ "लघोरुपान्त्यस्य" इति गुणे तिव शव "नामिनो०"। "एदैतोऽयाय्" । अनेन अवर्णलोपः प्रेलयति, परेलयति । इणेधिवर्जनात उपैति उपैधते । अत्रावर्णलोपो न भवति "ऐदौत् सन्ध्यक्षरैः” इत्येव भवति । तथा वा नाम्नि [सि०१५ १।२।२०] नामावयवे एदादावोदादौ च धातौ परे उपसर्गस्थस्यावर्णस्य लुप् वा स्यात् । उपेकीयति, उपैकीयति, प्रोषधीयति, प्रौषधीयति । ___ अथात्र विशेषमाह - कचिदित्यादि-"प्रस्यैषैष्योढोढ्यूहे स्वरेण" [सि० १।२।१४ ] प्रावर्णस्यैषादिषु परेषु परेण स्वरेण ऐ औ स्याताम् । श्रेषः प्रैष्यः "उपसर्गस्यानिणेघेदोति" इति सूत्रस्यापवादोऽयम् । नन्वेषैष्ययोर्घध्यणन्तयोर्धातुत्वाभावात्कथमुपसर्गस्यानिणेधिति सूत्रप्राप्तिः। नैवं क्विबन्तवद-२० न्यप्रत्ययान्तानामपि धातुत्वस्य ज्ञापितत्वात् । तथोक्तं श्रीसूरिभिः "कृकमी"ति सूत्रवृत्तौ, "इह कम्योः केवलयोः समासो न भवतीति प्रत्ययान्तयोग्रहणम् । अथ किबन्ता धातुत्वं न जहति इति किबन्तयोरेव कस्मान्न भवति "गतिकारकस्य" इत्यादिसूत्रे किग्रहणात् । नान्यप्रत्ययान्तानां धातूत्तरपदानामग्रहणे क्विग्रहणमर्थवद्भवति" इति । “खैरखैर्यक्षौहिण्याम्" [सि० १।२।१५] इति । एवं प्रौढः प्रौढिः प्रौहः "अवर्णस्येवर्णादिनै०" इति सूत्रस्यापवादोऽयम् ॥ ६ ॥ अथ इवर्णादीनां सन्धिमाह- २५
दधि अत्र इति स्थिते . इवर्णादेरखे खरे यवरलम् ॥७॥ [ सि० १॥२॥२१ ] इ उ कल वर्णानामस्खे खरे परे यवरलाः स्युः । दध् य् अत्र इति तावद्भवति ॥७॥
इवर्णादे० । इवर्ण आदिर्यस्य स इवर्णादिस्तस्य इवर्णादि ६-१ "ङित्यदिति” “एदोभ्यां ङसिङसो रः" इति रत्वे इवर्णादेर्, न स्वः अस्वः तस्मिन् अखे ७-१, स्वर ७-१ "अवर्णस्ये.” एत्वं, यश्च वश्व ३० रश्च लश्च "चार्थे द्वन्द्वः सहोक्तौ इति समाहारद्वन्द्वे क्लीबत्वमेकत्वं च यवरल १-१ "अतः स्यमोऽम्" सेरम् “समानादमोऽतः” इत्यकारलुप् । चतुष्पदमिदं सूत्रम् । ननु अस्खे इति किमर्थं न च दधीदमित्यादौ यत्वादिप्रसङ्गवारणाय “समानानां तेन दीर्घः' इत्यनेन तस्य बाधितत्वात् , एवं तर्हि "हस्खोऽपदे वा" इत्यनन्तरसूत्रेऽनुवर्त्तनीयत्वादिह स्पष्टतायै गृहीतमिति । स्वर इति *"सप्तम्या पूर्वस्य" सप्तम्या निर्दिष्टे यत्कार्यं तत्पूर्वस्याव्यवहितस्य स्यात् । अत्रापि ह्रस्वदीर्घाभ्यां स्थानिनिमित्ताभ्यां प्राग्वच्चतुर्भङ्गी ३५
है. प्रका० पूर्वा. ९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org