________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुज्ञेया । दधि १-१ "अनतो लुप्" इति सिलुप् अत्र १-१ "अव्ययस्य" इति सिलुप् अनेन यत्वं दध् य अत्रेति ॥ ७ ॥ अथात्र कार्यान्तरमाह-सूत्रम्
अदीर्घाद्विरामैकव्यञ्जने ॥८॥[सि० १॥३॥३२ ] अदीर्घात्स्वरात्परस्य रहस्वरवर्जितस्य वर्णस्य विरामे असंयुक्तव्यञ्जने च परेऽनु द्वित्वं वा स्यात् । ५ इति धस्य वा द्वित्वम् ॥ ८॥
अदीर्घा० । न दीर्घः अदीर्घः "नअत्" नस्य अः तस्मात् अदीर्घ ५.१ "डेडस्योर्यातौ" । एकं च तत् व्यञ्जनं च एकव्यञ्जनं “पूर्वकालैकसर्वजरत्पुराणनवकेवलम्” इति कर्मधारयः, विरामश्च एकव्यञ्जनं च विरामैकव्यञ्जनं तस्मिन् विरामैकव्यञ्जन ७-१ "अवर्णस्य." । मध्ये "धुटस्तृतीयः” इति
दत्वम् । द्विपदमिदं सूत्रम् । अत्र धस्य द्वित्वे कर्तव्ये वर्णविधित्वात् “स्थानीवावर्णविधौ” इति यस्य १० स्थानिवद्भावो न स्यात् , "स्वरस्य परे प्राग्विधौ” इत्यनेनापि परनिमित्तकस्य स्वरादेशस्य यस्य स्थानिव
द्भावो न स्यात् , "न सन्धिङीयक्किद्विदीर्घासद्विधावस्कलुकि" इति निषेधात् । तत्रापि सन्धिग्रहणेनैव सिद्धे पृथग् द्वित्वग्रहणं "असिद्धं बहिरङ्गमन्तरङ्गे" इत्यस्य बाधनार्थ, ततोऽनेन सूत्रेण धकारस्य द्वित्वे दध् ध् य अत्र इति भवति । नन्वत्र "पदस्य" इति सूत्रेण संयोगान्तस्य यस्य लोपः कुतो न इत्यत्रो
च्यते "असिद्धं बहिरङ्गमन्तरङ्गे" इति न्यायात् अन्तरङ्गे यलोपे क्रियमाणे बहिरङ्गयत्वं असिद्धं भव१५ तीति । रहस्वरवर्जनात् वर्या वयं तितउः इत्यत्र रेफादीनां द्वित्वं न स्यात् । विरामे द्वित्वं यथा-त्वक
त्वक त्वग्ग् त्वग् षट् षटू तत्त् तत् षड् षड् । एकव्यञ्जने परे-दद्ध्यत्र ध्यत्र, पत्थ्यदनं पथ्यदनम् , मवत्र मध्वत्र, पित्रर्थः पित्रर्थः, त्वङ्मधुरा, त्वङ्मधुरा, त्वङ्करोषि, त्वङ्करोषि, सँय्य्यतः सँय्यतः, उरxx कः उरः कः, उर पः उरल्पः, उरः कः उरः कः । अदीर्घात्स्वरादित्युक्तेः प्लुतस्वरादपि द्वित्वं भवति । गो३त्रात गो३त्रात नौ३त्रात नौ३त्रात । अन्वित्यधिकारात् कत्वगत्वादिषु कृतेषु २० पश्चाद्वित्वम् । अदीर्घादिति किम् ? वाक् भवान् सूत्रं पात्रं नेत्रम् । मतान्तरेण दीर्घस्वरादपि द्वित्वं
धात्रंशः । विरामैकव्यञ्जने इति किम् ? इन्द्रः चन्द्रः कृत्स्नं दधि । संयुक्तव्यञ्जनेऽपि इच्छन्त्येके इन्न्द्रः राष्ष्ट्रम् ॥ ८ ॥ पुनरपि कार्यान्तरमाह । सूत्रम्
तृतीयस्तृतीयचतुर्थे ॥ ९॥ [सि० १३४९] तृतीये चतुर्थे च परे धुटस्तृतीयः स्यात् । 'एकवर्गीया मिथः स्वा' इति पूर्वधकारस्य दकारः २५ दद्ध्यत्र दध्यत्र । मधु-अत्र मद्धत्र मध्वत्र । पितृ-अर्थः पित्रर्थः पित्रर्थः । ल-इत् लित् । इवर्णादेरित्यत्र पञ्चमीव्याख्याने दधियत्र, मधुवत्रेत्यादि । गौरी अत्रेत्यत्र गौर् य अत्रेति जाते अंदी
द्विरामेतिसूत्राप्राप्तेन रेफस्य द्वित्वं किन्तु ॥९॥ ___ तृतीयश्च चतुर्थश्च "चार्थे द्वन्द्व०" इति समासः । तृतीयचतुर्थ ७-१ "अवर्णस्ये." | "चटते सद्वितीये” इति रस्य सत्वम् । द्विपदं सूत्रम् । तृतीये चतुर्थे च परे इति-वर्गसम्बन्धिनि तृतीये चतुर्थे ३० च परे स्ववर्गसम्बन्धी धुटस्तृतीयः स्यादित्यर्थः । पञ्चमीव्याख्याने इति "इवर्णादेरस्वे स्वरे यवरलम्"
इति सूत्रे यथा षष्ठीव्याख्याने अखे स्वरे परे इवर्णादीनां यवरला भवन्ति तथा पञ्चमीव्याख्याने अस्खे स्वरे परे इवर्णादिभ्यः परे यवरला भवन्ति आगच्छन्तीत्यर्थः । तथा याश्रयमहाकाव्ये
प्रयोगः "रजतं चारु ईक्षित्वा हारि अत्र च काश्चनम् । दधियेतन्मधुवेतत्कुमारी एवमूहते" ॥ १ ।। ३४सिद्धान्तस्तवेऽपि-"ज्ञातैर्मृगापुत्रसुबाहुवादिभिः” इत्यादि । दयत्रेत्यत्र "ततोऽस्याः" [सि०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org