________________
६७
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे वरसन्धिरसन्धिश्च १॥३॥३४] ततो ब्वर्जवर्गात्परस्या अस्या अन्तस्थाया द्वे रूपे स्यातामिति यकारस्य द्वित्वं वा। केषाश्चिन्मते संयुक्तव्यञ्जने परेऽपि द्वित्वमिति पुनर्द्धस्य द्वित्वे त्रिधं रूपं एवं च एकधं एकयं १ एकधं द्वियं २ द्विधं एकयं ३ द्विधं द्वियं ४ त्रिधं एकयं ५ त्रिधं द्वियं ६ यागमे दधि यत्रेति रूपं ७ "न सन्धिः ” इति असन्धौ दधि अत्रेति ८ अइउवर्णस्येति इकारस्य सानुनासिकत्वे दधि अत्रेति एवं नवरूपाणि एकतानि, अत्रेत्यत्र तद्वित्वे द्वितानि नव । पुनस्तद्वित्वे त्रितानि नव । एवं सप्तविंशतिः । अन्तस्याकारस्यानुनासि-५ कत्वे पुनः सप्तविंशतिरिति चतुःपञ्चाशत् । एवं मद्धत्रेत्यत्रापि चतुःपञ्चाशदूपाणि । यानि तु “धुटो धुटि खे वा" [सि० १।३।४८] व्यञ्जनात्परस्य धुटो धुटि खे परे लुग्वा स्यादिति विकल्पेन धकारलोपे तथा "व्यञ्जनात्पश्चमान्तस्थायाः सरूपे वा" [सि० १।३।४७ ] व्यञ्जनात्परस्य पञ्चमस्यान्तस्थायाश्च सरूपे वर्णे परे लुप् वा स्यादिति विकल्पेन यलोपे रूपाणि भवन्ति तानि तु पूर्वोक्तरूपेभ्यो रूपतो न भिद्यन्ते इति पृथक् न दर्शितानि स्वयं ज्ञेयानि । अदीर्घाद्विरामेति सूत्राप्राप्तेरिति-गौर य१० अत्रेत्यत्र औकारस्य दीर्घस्वरत्वात् तत्र रहस्वरवर्जनाच्च "अदीर्घाद्विरामे०" इति सूत्रं न प्राप्नोति-रेफस्य द्वित्वं न स्यादित्यर्थः । किं तर्हि स्यादित्याह-किंन्त्विति ॥ ९॥ सूत्रम्
दिर्हस्वरस्यानु नवा ॥ १०॥ [ सि० १२३३१] खरात्पराभ्यां रहाम्यां परस्य रहखरवर्जस्य वर्णस्याऽनु द्वित्वं वा स्यादिति यकारस्य वा द्वित्वम् । गौर्यत्र गौर्यत्र । नहि-अत्र नय्यत्र नात्र ॥१०॥
हो । र् च हश्च ह तस्मात् है ५-१ "डेङस्योर्यातौ” होत् । र् च हश्च स्वरश्च हखरं न ईस्वरं अर्हवरम् "नबत्" नस्य अः अर्हस्वर ६-१ । अनु १-१ । नवा १-१ । "अव्ययस्य"। नवा इत्यखण्डमव्ययं वा इत्यस्यार्थे, परं यत्र वाशब्दप्रयोगस्तत्रैकस्मिन्नेव सूत्रे विकल्पः प्रवर्तते यथा "ह्रस्वोऽपदे वा" इति सूत्रे, यत्र च नवाशब्दप्रयोगस्तत्र बहुषु सूत्रेषु विकल्पोऽनुवर्तते यथा “सौ नवेतौ” इत्यनयोर्विशेषः। चतुःपदमिदं सूत्रम् । स्वरात्पराभ्यां रहाभ्यामिति अदीर्घादीर्घाश्च स्वरात्पराभ्यां रकारहकाराभ्यां २० परस्य रहस्वरवर्जस्य वर्णस्य द्वित्वं वा स्यादिति । दीर्घस्वरात्परस्य रेफस्योदाहरणं गौयंत्र २ इति, अदीर्घस्वरात्परस्य स्वाति २ इति । अदीर्घवरात्परस्य हकारस्योदाहरणं नय्यत्र २, दीर्घवरात्परस्य स्नेय्यत्र २ इति । रहस्वरवर्जनात् पद्मदः अर्हः कर:-रेफहकाराकाराणां द्वित्वं न भवति । स्वरादिति किम् ? अभ्यते। अन्विति पश्चात्कार्यान्तरेभ्यो यथा प्रोणुनाव अन्यथा प्रोर्नु इत्यत्र पूर्वमेव अनेन सूत्रेण नकारस्य द्वित्वे ततो "द्विर्धातु०” इति द्वित्वे प्रोणुन्नावेति स्यात् । गौयंत्रेत्यत्र यद्वित्वे १ तदभावे २ यकारागमे ३२५ "हस्खोऽपदे वा” इति हस्खे ४ "न सन्धिः" इत्यसन्धौ ५ इकारस्यानुनासिकत्वे च ६ षट्पाणि एकतानि । एवं प्राग्वत् द्वितानि ६ । त्रितानि ६ । एवमष्टादश । अन्तिमस्याकारस्यानुनासिकत्वेऽप्यष्टादशेति षट्त्रिंशत् । हस्खेऽकारस्याप्यनुनासिकचिन्तने षड्पाधिक्ये द्विचत्वारिंशत् रूपाणीति । अत्रेदं ज्ञेयम्-"न रात्खरे"[ सि० १।३।३७ ] स्वरात्परस्य शिटः स्वरे परे द्वे रूपे न स्याताम् । दर्शनं वर्षति वृस्या इदं वाय॑म् । “पुत्रस्यादिनपुत्रादिन्याक्रोशे' [सि० १।३।३८] आदिनि पुत्रादिनि च ३० परे आक्रोशे गम्यमाने पुत्रशब्दस्थतकारस्य द्वित्वं न स्यात् । पुत्रादिनी त्वमसि पापे । पुत्रपुत्रादिनी भव । आक्रोश इति किम् ? पुत्रादिनी शिशुमारी पुत्रादिनीति वा । पुत्रपुत्रादिनी नागी पुत्रपुत्रादिनीति वा । नायमाक्रोशः किन्तु स्वभावाख्यानं तेन "अदीर्घाद्विराम." इति विकल्प एव ।। १० ।। सूत्रम्
एदैतोऽयाय् ॥ ११॥ [सि० १०२।२३] एकारैकारयोः स्वरे परे अयायौ स्याताम् । ने अनं नयनम् । नै अका नायकः ॥ ११॥ ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org