________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुएदै० । एच ऐच एदैत् ६-१ "लोकात्" "सो रुः"अय् च आय् च अयाय् १-१ 'दीर्घड्याब"। मध्ये "अतोऽति रोरुः" अवर्णस्य "एदोतः पदान्तेऽस्य लुक" एदैतोऽयाय । द्विपदं सूत्रम् । “णींग प्रापणे' णी, “पाठे धात्वादेो नः" नीयतेऽनेनेति "करणाधारे” इति अनटूप्रत्यये "नामिनो गुणोऽकिति" इति गुणे ने अन इति स्थिते अनेन अयादेशे नयन १-१ "अतः स्यमोऽम्" "समानादमोतः” ५नयनम् । प्राग्वत् नीधातुः नयतीति “णकतृचौ” इति णक्प्रत्ययः, अक्, "नामिनोऽकलिहलेः" इति वृद्धौ नै अक इति स्थिते अनेन आयादेशे नायकः ॥ ११ ॥ सूत्रम्
ओदौतोऽवाव् ॥ १२॥ [सि० १।२।२४ ] ओकारौकारयोःखरे परे अवावौ स्याताम् । लो-अनं लवनम् । लौ-अकः लावकः । *पदान्तेऽयायवावां वोः स्वरे परे लुग् वाच्या लुकि सत्यामसन्धिश्च । ते-आगताःत आगताः तयागताः। १० तसै इदं तसा इदं तसायिदम् । पटो इह पट इह पटविह । वृक्षौ इह वृक्षा इह वृक्षाविह ॥१२॥
ओदौ० । ओच्च औच्च ओदौत् ६-१ अव च आव च अवाव १-१ "दीर्घज्या०"। द्विपद ० । 'लूग्शू छेदने लूधातुः लूयते अनेनेति "करणाधारे" इत्यनद्प्रत्यय: "नामिनो०" इति गुणे लो-अन इति स्थिते अनेन अवादेशे लवन १-१ "अतः स्यमो०" "समानादमोऽतः” । 'लग्श छेदने' लुनातीति "णक
तृचौ” "नामिनोऽकलिहलेः” इति वृद्धौ लौ अक इति स्थिते अनेन आव लावक १-१ "सो रुः" "र: १५पदान्ते०"। प्रसङ्गात् अयादीनां कार्य विशेषमाहपदान्त इति फक्किका-पदान्तस्थानां अय् आय् अव् आव्
एषां चतुर्णा यकारवकारयोः खरे परे [ खरे वा सि० १।३।२४ इति सूत्रेण ] लुग् वा भवतीत्यर्थः । पक्षे “अस्पष्टाववर्णात्वनुनि वा" [सि० १।३।२५ ] अवर्णात्परयोर्वययोरुब्वर्जे स्वरे परे अस्पष्टावीषत्स्पष्टतरौ वयौ वा स्याताम् । पट इह पटविह, उनि परे तु नित्यं पटवु असावु इत्यादि । पदान्त इति किम् ? नायकः इत्यत्र यलोपो न भवति ॥ १२ ॥ सूत्रम्
खरे वाऽनक्षे ॥ १३ ॥ [सि० १।२।२९ ] __ गोशब्दसम्बन्धिन ओकारस्याक्षशब्दवर्जखरे परे अव इत्यकारान्त आदेशो वा स्यात् । गो ईशः गवेशः। गवीशः । इन्द्रे परे संज्ञायां च नित्यम् । गवेन्द्रः । गवाक्षः ॥१३॥
स्वरे० । स्वर ७-१ "अवर्णस्ये."।वा १-१ अव्ययम्। न अक्षः "अन् स्वरे" इति नयो अनादेशे अनक्षस्तस्मिन् अनक्ष ७-१ "अवर्णस्ये०” । त्रिपद । गो ६-३ गवामीश १-१ “सो रुः" "र: २५ पदान्ते." “षष्ठ्ययत्नाच्छेषे” इति षष्ठीतत्पुरुषः । गो ईश इति स्थिते अनेन अव इत्यादेशे "अव
र्णस्ये.” एत्वे गवेशः । पक्षे "ओदौतोऽवाव्" इत्यवादेशे गवीशः इति । अक्षशब्दवर्ज इति किम् ? गोऽक्षम् । गोशब्दसम्बन्धिन ओकारस्येति किम् ? चित्रग्वर्थः । अत्र अपवादमाह इन्द्रे परे संज्ञायां च नित्यमिति-["इन्द्रे" सि० १।२।३० ॥ तथा “गोर्नान्यवोऽक्षे" सि० १।२।२८ ।। इत्याभ्याम् ] अयं भावः-इन्द्रशब्दे परे गोशब्दसम्बन्धिन ओकारस्य नित्यमवादेशः, यथा गोरिन्द्रः ३० प्राग्वत्तत्पुरुषे विभक्तिलोपे गो इन्द्र इति स्थिते अनेन अवादेशे गवेन्द्रः । अक्षशब्दे परे च संज्ञायामेव
अवादेशो भवति नान्यत्र, गोः अक्षीव अक्षि गोरक्षि षष्ठीतत्पुरुषे विभक्तिलोपे अक्षेर्डा "अप्राण्यङ्गे" इत्यत्समासान्ते "अवर्णेऽवर्णस्य” इत्यकारलोपे गो अक्ष इति स्थिते संज्ञायां नित्यमवादेशे गवाक्षः
वातायन इत्यर्थः । संज्ञायामिति किम् ? गोऽक्षाणि इत्यत्र "एदोतः पदान्तेऽस्य लुक्” इत्यकारलुक्॥१३॥ ३४ अयादेशस्य अवादेशस्य च अपवादमाह-सूत्रम्
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org