________________
संपादकीयनिवेदनम् । प्रकाशनमङ्गीकृतं, तद्योजनानुसारेणैवास्य पूर्वार्द्धस्य प्रकाशनं शक्यं जातम् । सोमचन्द्रश्रेष्ठिभाण्डागारस्थप्राचीनप्रत्याप्त्याहमप्यधिकोत्साहवान् जातः । संशोधनकर्मण्युपयुक्ता अन्येऽपि मुद्रितश्रीसिद्धहेमशब्दानुशासनबृहद्वृत्त्यादयो ग्रन्थाः संगृहीताः । पूर्वोक्ता श्रीविजयनीतिसूरीणां प्रतिः संशोधनकर्मण्यतीवोपयुक्ता समजनि । तस्याः शेषोऽप्यंशः श्रीविजयनीतिसूरीणां पार्थात् समासादितः ।।
पुनरपि हैमप्रकाशस्य प्रकाशनं अव्ययप्रकरणं प्राप्य तथाविधसाधनानामभावे स्खलितम् । तानि च साधनानि मुद्रितरूपाणि वाक्यपदीयादीनि हीरालालद्वारा, लिखितरूपाणि तु राधनपुरीयसङ्घविजीवतलालप्रतापसीद्वारा समासाद्य द्विमासानन्तरं तत्कार्य पुनः प्रारब्धम् । एतस्मिन्नवसरे लालबागस्थश्रावकाणामत्याग्रहेण श्रीविजयदानसूरीश्वराणामाज्ञाधीनतया हैमप्रकाशशीघ्रप्रकाशनलोलुपेन च द्वितीयाऽपि चातुर्मासी मोहमय्यामेव खीकृता । शेषकार्याणि स्थगयित्वा अस्य पूर्वार्द्धप्रकाशनन्यग्रेण चातुर्मास्यनन्तरमुपधानपूर्त्यवसरे मूलपूर्वार्द्धप्रकाशनकार्ये समापितम् । अनुक्रमणिकादिकरणार्थ मुद्रितविभागं गृहीत्वा मुम्बईतो विहृतोऽपि स्पर्शनावशात् पूज्यपादविजयप्रेमसूरीश्वराणामाज्ञानुसारेण श्रीगोडीजीत्युपनामकोपाश्रये स्थितः । परं पूर्वकर्मवशात् शिरोऽर्तिचक्षुर्वेदनादिव्यग्रेणास्यां चातुर्मास्यां न किमपि कार्यं कृतम् । सूत्राणामकाराद्यनुक्रमणिकाऽपि व्याख्यानवाचस्पति-आचार्य-श्रीविजयरामचन्द्रसूरिविनेयैः मुनिश्रीमनकविजयैः संशोधिता। शुद्धिपत्रकमपि सौभाग्यनिधिभिर्बाल्यावस्थाप्राप्तसंयमैः खपरानेकव्याकरणकुशलैस्तैरेव निर्मितमिति विदाकुर्वन्तु सज्जनाः । एतावद्विद्याप्रियैः कृतेऽपि महति प्रयत्ने यद्यस्मिन् ग्रन्थे काश्चनाशुद्धयो विदुषां दृष्टिपथमायान्ति तदा तैः प्रकाशकद्वारेण मारणीयोऽयमल्पज्ञ इति प्रार्थना । अतः पूर्व प्रकाशितानां हैमबृहद्वृत्त्यादिग्रन्थानामनुसारेणैव त्रुटितादिपाठाः संशोध्य यत्र तत्र न्यस्ता इति तेषां प्रकाशकमहोदया अपि धन्यवादमर्हन्ति । अन्येषामपि यथावसरे दत्तसाहाय्यानां साधुश्रावकादीनामुपकारं न विस्मरामि । सम्पादकीया प्रशस्तिस्तु सर्वथा कवित्वगुणवर्जिताऽपि शीघ्रकार्यसमाप्तिहर्षसूचिकैवेत्युपेक्षणीया सद्भिः । हैमप्रकाशोत्तरार्द्धादिग्रन्था अपि समुंचितप्रस्तावनादियुताः शीघ्र प्रकाशमाप्नुयुरित्याशया विरमामि विस्तरतः । सूरत
पूज्यगुरुवर्याणाम् श्रीअमीविजयमहोदयानां अक्षयतृतीया वीरसंवत् २४६३
उपाध्यायः क्षमाविजयो गणी
चरणरेणुः
१ एतदपि ग्रन्थरत्नमतीवोपयुक्तमलभ्यं च विभाव्य तस्यापि प्रकाशने अमदावादस्थ जवेरी मोतीलाल डाह्याभाईत्यादिभिर्व्ययस्वीकारेण प्रोत्साहितः, तदनुसारेणेदमपि ग्रन्थरत्नं श्रीलालबागजैनोपाश्रयद्वारा मुद्रयमाणं वर्तते।
२ श्रीजीवतलालेन बृहन्यासप्रतीः श्रीलिम्बडीप्राचीनभाण्डागारस्था आनायिताः परं भाण्डागारिकैर्व्यवस्थानुसारेणार्द्धाशरूपा एव प्रेषिताः । ताभिः यथाविभागं प्रेसकॉपी संशोध्य ताः प्रेष्य पुनः शेषांशरूपा मार्गयित्वा शेषांशरूपेण यथावद्विभागः संशोधितः । एतस्मिन् शोधनकर्मणि वाक्यपदीयादिमेलनादिभिश्चैतावान् कालो व्यतीतः।। ३ खोपज्ञविवरणदुर्गपदप्रबोधादियुतं श्रीहैमलिङ्गानुशासनं तु हीरालालेन मुद्राप्यमानमल्पैरेव मासैः प्रकाशमासादयिष्यति ।
४ गुर्जरगिरायां खत्रापि किञ्चित्प्रस्तुतम् । मुद्यमाणोऽप्येतद्वन्थः कतिभिर्मुनिभिरभ्यस्त इति तेषामध्यापकस्य सम्मतिरनन्तरपृष्ठेऽवलोक्या।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org