________________
संपादकीयनिवेदनम् । वधारणानन्तरं न मया केवलं तत्प्रतिरेव समासादिता, किन्त्वहं प्रातःस्मरणीयगुरुगुणगरिष्ठश्रीविजयसिद्धिसूरीश्वरप्रसादात् तद्न्थरत्नभाण्डागारस्याधिकारीव जातः । अन्यासामपि प्रतीनां व्यापारणेऽहं कृपालुना प्रसादितः । मयाऽपि तत्कृपासफलीकरणोत्सुकेन तद्रन्थभाण्डागारस्य संपूर्णा सूचिरभ्यस्ता । व्याकरण विभागावलोकने श्रीहैमप्रकाशो विभागद्वयात्मकः तत्र सूचितो दृष्टः । कोऽयं ग्रन्थ इति पृच्छन्नहं 'स ग्रन्थस्त्वया निष्कास्य खयमेव विलोकनीयः' इत्याज्ञप्तः कृपालुभिः । तैराज्ञप्तेन तद्रन्थावलोकनानन्तरं यद्धर्षोऽनुभूतः तं ज्ञान्येव जानाति । यस्मात् अनेकवर्षपर्यन्तं हृदि सङ्ग्रहीता हैमलघुप्रक्रियाबृहट्टीकादर्शनाभिलाषा साफल्यमासादितवती । तद्न्थमङ्गलाचरण-उपोद्धात-ग्रन्थरचनाकारण-परमोपकारिमहोपाध्यायवर्यश्रीसोमविजय-जैनशासननभोमणिश्रीविजयहीरसूरीश्वर-सङ्घपतिउदयकरणसोमकरणादिवृत्तान्तग्रन्थसारल्यार्थमहत्त्वाद्यवलोकयन् सर्वथा ग्रन्थप्रकाशनसंपादनकार्याधनभिज्ञोऽपि एतद्न्थरत्नप्रकाशनाय लालायितोऽभूवम् । एतस्मिन्नवसरे सर्वथाऽपरिचितस्यापि मम समीपे विवेकिधुर्यो रावसाहेवेत्युपाधिभूषितो वाडीलालात्मजो मोहनलालः खर्गीयगुरुवर्यादिप्रेरित इव समागतः । 'किमपि कार्यमाज्ञापयतु भवान्' इति तेन विज्ञप्तेन मया स ग्रन्थस्तस्मै दर्शितः, तत्प्रकाशनाभिलाषा च व्यक्तीकृता । तेनापि सुविवेकिना एतद्रन्थरत्नावलोकनानन्तरं संपूर्णप्रेसकॉपीव्ययः स्वीकृतः । तद्व्ययबलात् प्रेसकॉपीकरणे च मया नरोत्तमदासनामाऽध्यापको प्राचीनलिप्यादिवाचनां शिक्षयित्वा नियोजितः । प्रत्यन्तरगवेषकेन मया 'अस्या एका प्रति वनगरस्थभाण्डागारे वर्त्तते' इति तदा खंभातनगरस्थपूज्यपादश्रीविजयदानसूरीश्वरसकाशात् ज्ञातम् । तस्याश्च प्रत्या अर्द्धाशमितो विभागो महोपाध्यायश्रीप्रेमविजयानां प्रसादात् समासादितः । प्रेसकॉपीकार्यारम्भानन्तरं प्लुतप्रकरणे समागते प्रत्योर्महदव्यवस्थावशादुद्विग्नहृदयेनाऽपि मया पश्चात् साधनान्तरसहायेन सुस्थं करिष्ये इत्याशया प्रयत्नो न विघटितः । अत्रान्तरे श्रीगिरिनारतीर्थोद्धारे दत्तसफलोपदेशानां श्रीविजयनीतिसूरीणां सकाशात् कुत्राप्यनुपलभ्यमानस्य केनापि प्राचीनसहृदयविदुषाऽतीवसूक्ष्माक्षरैलिखितस्य मध्यमवृत्त्यवचूरिभ्यामलङ्कृतस्य श्रीसिद्धहेमशब्दानुशासनस्य प्रतेरआँशमितो भाग उपलब्धः । तदनन्तरं श्रीविजयदानसूरीणामाज्ञावशात् मोहमय्यां चातुर्मासीकरणाथ समागतः । तत्र मद्गुरुभ्रातृमुनिश्रीभक्तिविजयादीनां उपदेशपीयूषप्रीणितैः पुनमचन्दगोमाजीत्यादिश्रावकैः खण्डशः श्रीहेमप्रकाशप्रकाशनार्थं व्ययखीकारेण प्रोत्साहितः । सुरतस्थजैनानन्दपुस्तकालयाधिकारिणाऽमरचन्द्रेण निर्णयसागरप्रेसकार्यवाहकः सम्मेलितः, प्रकाशनकार्य चारब्धम् । सर्वथा संपादनकार्यानभिज्ञतया प्रथमाष्टपृष्ठमितं विभागं मुद्रितमपि बह्वशुद्धमिति ज्ञात्वा पंन्यासपदभूषितानां श्रीजम्बूविजयगणिनां पार्थे शुद्धीकरणार्थ प्रेषितम् , तैश्च तत् सपरिश्रमं संशोध्य संशोधनविधिचिह्नादिसूचनासमन्वितं विधाय प्रकाशनमार्गः सरलीकृतः । तासां सूचनानामनुसारेण सावधानतया प्रुफसंशोधनृव्यग्रोऽपि यत्र यत्र स्खलितस्तत्र तत्र निर्णयसागरमुद्रणालयस्थशास्यादिभिः पुनः पुनः सारित इति तेषामप्युपकारं न विस्मर्तमुत्सहे । प्लुतप्रकरणमासाद्य आदर्शप्रत्योर्बहुस्खलनायुतत्वेन कार्य स्थगितं, कथमिदं ग्रन्थरत्नं प्रकाशमानयिष्ये इति चिन्ताक्लान्तः कोट( मुंबई )स्थ श्रेष्ठिहीरालालेन खपितृसोमचन्द्रश्रेष्ठिसङ्गृहीतपुस्तकरत्नानां विलोकनार्थमामन्त्रितः, तत्र गतेन तत्रस्थपुस्तकानां मध्ये लिखितपुस्तकेषु हैमप्रकाशस्यातीव प्राचीना ग्रन्थरचनायाः पश्चात् षष्ठे वर्षे लिखिता प्रतिरुपलब्धा । खपितृभाण्डागारे एतद्वन्थरत्नस्य विद्यमानत्वेऽपि किमहं न ज्ञापित इत्युपालभ्य श्रीहीरालालः सम्पूर्णग्रन्थप्रकाशनाय प्रेरितः । तेनापि खट्स्टीनामनुमत्या पूर्वार्द्धस्य
१ निशीथचूर्णादर्शविधानकार्य तु मां हैमप्रकाशप्रकाशनव्यप्रमवधार्य श्रीजम्बूविजयैः केवलैरेव अन्या अपि प्रतीः सम्प्राप्य सुसम्पादितमस्तीति विदाकुर्वन्तु सज्जनाः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org