________________
संपादकीयनिवेदनम् । यदा श्रीमद्विजयानंदसूरिभिः खजन्म-विहारादिना पवित्रिते पञ्चनददेशे मालेरकोटलामध्ये सद्गुरवः मुनिप्रवरश्रीअमीविजयमहोदयाः चातुर्मासी स्थिताः, तदाऽहं मुमुक्षुभावेन तेषां समीपे आगतः सर्वथा संस्कृतभाषाज्ञानविकलोऽभूवम् । श्रीगुरुभिरेव शास्त्रवाटिकादर्शनचक्षुःकल्पं व्याकरणमध्यापयितुमिच्छुभिः श्रीसिद्धहेमशब्दानुशासनस्य लघुवृत्तिः पाठयितुं प्रारब्धा । तस्याः पादद्वयमितेऽधीते श्रीगुरवः चतुर्मासपूर्त्यनन्तरं शीघ्रमेव मरुदेशं प्रति विहृतवन्तः, मयाऽपि गृहस्थावस्थास्थितेनैव तैः सार्द्ध पादविहारं कृत्वा बीकानेरः समाश्रितः । विहारमध्ये पठनं शिथिलं जातम् । तच्च बीकानेरमध्ये पुनः प्रारब्धम् । पादत्रयमितेऽभ्यस्ते दीक्षोत्सवादिव्याक्षिप्तस्य मम व्याकरणपठने पुनः शिथिलादरो जातः । दीक्षादानानन्तरं साधुक्रियां शिक्षयित्वा पुनः व्याकरणे नियोजितः सुगुरुभिः। षट्पादमितेऽभ्यस्तेऽपि मतिमान्द्यात् न काचिदपि स्फूर्तिरजायत । एतादृशं जडखभावं मामवधार्य श्रीपरमोपकारैकप्रधानैः श्रीगुरुभिः श्रीलक्ष्मीचन्द्रकोचरात् महामहोपाध्यायश्रीविनयविजयगणिविरचितं श्रीहैमलघुप्रक्रियापूर्वार्द्ध समासाद्य आदितः पाठयितुं प्रारब्धम् , तच्च अन्धस्य लोचनमिव समासाद्य मम मन्दबुद्धेरपि व्याकरणपठने आदरः समजनि । प्रभुश्रीहेमचन्द्रसूरिविहितशब्दानुशासनस्य च साधुशब्दरनपिटकरूपताऽवधारिता । पूर्वार्द्धकरणबलेन उपरि वर्णितलघुवृत्तेः सार्द्धद्वयाध्यायादिमितो विभागो बुद्धिदर्पणे संक्रान्तः । हैमलिङ्गानुशासनमप्यघीतम् । तदनन्तरं श्रीगुरुभिः श्रीहैमलघुप्रक्रियाया उत्तरार्द्ध पाठितः, तत्प्रभावेन समग्राऽपि लघुवृत्तिः परिचिता इव जातेति सुष्ठु तथाऽभ्यस्ता । सा च हैमकोशाभ्यासबलयुता बृहद्वृत्वेरपि विलोकने मामुत्साहितवती । उपर्युक्तश्रीहैमलघुप्रक्रियाध्यापनावसरे श्रीसद्गुरुभिर्ज्ञापितोऽभूवम् यत् परोपकारप्रवीणैः श्रीविनयविजयोपाध्यायवर्यैः न केवलं श्रीसिद्धहेममहाव्याकरणप्रासादप्रवेशद्वाररूपा श्रीहैमलघुप्रक्रियैव विहिता, अपि तु एतादृशलघुप्रक्रियाऽध्येतारोऽपि तादृशीं योग्यतामासाद्य श्रीसिद्धहेमव्याकरणाद्यनेकव्याकरणपरिचिता भूयासुरित्युपकारभावनां हृद्यवधार्य हैमलघुप्रक्रियाया उपरि बृहट्टीकाऽपि विरचिता । महोपाध्यायश्रीविनयविजयमहोदयप्रसादादेव प्राप्तव्याकरणदृष्टेर्मम तहट्टीकावलोकनोत्कस्यापि श्रीसद्गुरुविद्यमानतायां सा न कुत्रापि दृष्टिपथमवतीर्णा । श्रीसद्गुरुवर्गवासानन्तरं संवत् १९८८ मध्येऽहं पूज्यमहोपाध्याय( इदानीमाचार्यवर्य) श्रीप्रेमविजयादिवन्दनार्थ पाटणनगरे समागतः । तत्र तैः संपूर्णयोगोद्वहनकरणे प्रेरितः । रतलामनगरगमनोत्सुकोऽपि श्रीमहानिशीथयोगोद्वहनार्थ तैः सार्द्धमुषितः । योगारम्भादनु विहारे जाते श्रीराधनपुरनगरे श्रीमहानिशीथयोगसमाप्तिं विधाय श्रीसिद्धगिरियात्रार्थ प्रस्थितः । तां विधाय रतलामार्थं प्रस्थितोऽपि भवितव्यतावशेन महोपाध्यायैः प्रेरितश्च स्वर्गीयसकलागमरहस्यवेद्यादिविरुदसत्यापकपूज्याचार्यश्रीविजयदानसूरिभिः खंभातनगरे मिलितः । तैरेव सार्द्ध चातुर्मासी वढवाणमध्ये कृता । तदनन्तरं द्वितीया चातुर्मासी महोपाध्यायैः सह राजनगरे विहिता । तत्र महोपाध्यायैः अहं मुनिवर्य (संप्रत्युपाध्यायप्रवर) श्रीजम्बूविजयश्च एकस्मिन् शुभप्रयत्ने प्रोत्साहितौ । सोऽयं प्रयत्नः-प्राचीनपुस्तकभाण्डागारेषु अनेकाः प्रतयः श्रीनिशीथभाष्यस्य केवलस्य श्रीनिशीथचूर्णेः केवलायाश्च समासाद्यन्ते । चूर्णिः भाष्यार्थविस्ताररूपा सत्यपि भाष्यगाथाद्यपदादिप्रतीकमात्रयुतैव सर्वत्रोपलब्धा, न तु संपूर्णभाष्यगाथायुता । तदवधार्य श्रीमहोपाध्यायैः अनेकप्रतिसम्मीलनपूर्वकसंपूर्णभाष्यगाथायुतचूर्णादर्शविधापने प्रोत्साहितौ आवाम् । तदारम्भानन्तरं एकस्मिन् दिने पूज्यपादश्रीविजयमेघसूरयो विद्याशालायां ( अस्माकं तादात्विके निवासस्थाने ) समागताः । तैः तदादर्शविलोकनसंतुष्टैापितौ-यदेका निशीथचूर्णेः संपूर्णा शुद्धा च प्रतिरस्या विद्याशालाया लिखितपुस्तकमाण्डागारे विद्यते, साऽपि युवाभ्यां प्रयोज्या । तैरुक्तस्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org