SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ नाविदितमस्ति विदितवेदितव्यानां शेमुषीजुषां सुरसरस्वतीप्रणयिनां पण्डितप्रवराणां, शारदा समुपास कानामन्तेवासिनाश्च यत् "शब्दशास्त्रापारशब्दसन्दोहाऽकूपारमवजिगमिषुभिर्मनोज्ञघिषणाधिष्ठितैर्मनीषिनिवहैः खखान्तसुखाय परोपकाराय च विरचितानि नैकानि शब्दशासनानि, प्रोल्लासयितुं विद्वत्कदम्बनयनकुमुदानि चन्द्रिका इव सन्तीति" 11 10 11 मदीया सम्मतिः । तेषु शब्दशास्त्रेषु परिप्रथितयशोराशिधवलिताखण्डमण्डलैरनितरसाधारणपाण्डित्यप्रकर्ष पूर्णैर्व्याकरणका - व्यतर्काद्यनेकशास्त्रपारङ्गतैर्मुनिप्रवरश्री हेमचन्द्राचार्यसूरिभिर्विरचितस्य " हैमशब्दानुशासनंस्य" नास्ति तिरोहितं प्राशस्त्यमध्यापनपरैरन्यैश्व दत्तावधानैर्मनीषिभिः । "तस्यैव हैमशब्दानुशासनस्य शब्दसाधनक्रमेण संपूर्ण सूत्रसङ्कलनात्मकं" हैमप्रकाशाख्यं व्याकरणं सारखतं सर्वमनोमोदकमतीव रम्यं महामहोपाध्याय श्री विनयविजयगणिविरचितमावर्जयति चेतश्चकितचेतसाम् । तच्च "हैमप्रकाशाख्यं” सारल्यखरूपैरविष्टुतब्रह्मचारिभिः खसिद्धान्तविद्भिः " श्रीक्षमा विजयोपाध्यायैः” सश्रमं सुसम्पाद्यातीवोपकृतं सुरवाग्विभवस्य साधुसार्थस्येति समेषां धन्यवादार्हास्ते मुनिमणयः । अस्मिन् ग्रन्थरत्नेऽक्षराणां सौष्ठवं, पत्राणां मसृणता बहिरङ्गभूषासमारम्भोऽन्तरङ्ग संस्काराश्चानुरूपा बेत्येवं सुवर्णे सौरभ इव सर्वगुणसाहित्यतरां चेतश्चमत्करोति । एतच्च सम्पादनं सारवत्तया सोत्साहमध्ययनशीलानामाशुव्युत्पत्तिविधायकमिति लाभलो मेनास्मिन्नवश्यं साधुभिरन्यैश्च प्रवर्तितव्यमिति विनिवेदयन्ते— ग्राम वरैनी पो. कच्छवा - मिर्जापुर मार्गशीर्ष कृष्ण चतुर्थी विक्रम सम्वत् १९९३ Jain Education International श्रीशिवनाथोपाध्यायाः “व्याकरणशास्त्राचार्याः” हिन्दु विश्वविद्यालयीयाः For Personal & Private Use Only www.jainelibrary.org
SR No.004040
Book TitleHaim Prakash Maha Vyakaranam Purvarddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1937
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy