________________
३२२
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञ है मलघु
प्रतिष्ठायाम् । प्रतिष्ठा स्थानमात्मयापनापदम् (अन्यत्र आ ईषत् पदमापदाद्वा आपदम् ) आश्चर्यमद्भु ( आश्चर्य नीला द्यौः अन्यत्र आश्चर्यं कर्म शोभनम् ) प्रतिष्कशः सहाये पुरोयायिनि दूते वा, ग्राममध्ये प्रवेक्ष्यामि भव मे त्वं प्रतिष्कशः (अन्यत्र कशां प्रति गतः प्रतिकशोऽश्वः ) । प्रस्कण्वहरिश्चन्द्रावृषौ (प्रगतं कण्वं पापमस्मादिति प्रस्कण्वः, हरिश्चन्द्र इवाह्लादको यः स हरिश्चन्द्रः, ऋषेरन्यत्र प्रकण्वो देशः ५ हरिचन्द्रो माणवक: ) । मस्करो वेणुदण्डयोः, मा क्रियते प्रतिषिध्यतेऽनेनेति मस्करः, मकरशब्दस्य वाऽव्युत्पन्नस्य मस्कर इति रूपम्, (अन्यत्र मकरो ग्राहः ) । मस्करी परित्राजके, माकरणशीलो मस्करी, साह मा कृषत कर्माणि शान्तिर्वः श्रेयसीति, मस्करिनशब्दस्य वा रूपम् (अन्यत्र मकरीति, समुद्रः) । कास्तीराजस्तुन्दे नगरे ( ईषत्तीरमजस्येव तुन्दमस्येति व्युत्पत्तिमात्रम्, कास्तीरमजस्तुन्दं च नगरम् अन्यत्र कातीरम्, अजतुन्दम् ) । कारस्करो वृक्षे ( कारं करोति किल कारस्करो वृक्षः कारकरोऽन्यः । १० वनस्पतिः पुष्पं विना फलवति वृक्षे । सर्वो हरितकायो वनस्पतिरित्यन्ये ( वनपतिरन्यः ) । पारस्करो देशे (पारं करोति पारस्करो देशः पारकरोऽन्यः) । करस्करो गिरिवृक्षयोः, करं करोतीति करस्करो नाम गिरिः । करस्करो वृक्षः ( करकरोऽन्यः ) । रथस्पा ( नद्यां रथं पाति पिबति वा रथस्पा ) नाम नदी (रथपाऽन्या) । ( किष्कुरुः प्रहरणे कस्य कुरुः ) किष्कुरुर्नाम प्रहरणं ( किमो मकारस्य षकारादेशः ) । किष्कुः प्रमाणे ( किमपीत्परिमेया कुर्भूमिरस्य किष्कुः ) हस्तो वितस्तिर्वा, ( किं करोतीति वा किष्कुः; १५ करोतेर्बुप्रत्ययः, किमो मकारस्य षकारादेशः ), कार्यं करोतीति वा किष्कुः ( डुप्रत्ययः कार्यशब्दस्य च किभावः ) | ( किष्किन्ध इति गुहापर्वतयोः । किमप्यन्तर्दधाति ) किष्किन्धा नाम गुहा ( किमो द्विर्वचनं पूर्वस्य च मकारस्य षकारः । किं किं दधाति ) किष्किन्धः पर्वतः एषु किमो द्वित्वादिकं निपातनम् । आस्कथं नगरे, ( आहृताः कथा अस्मिन्नित्यास्कथं नाम नगरम् । तस्कर चौरे - तत्करोति ) तस्करचौरः ॥ बृहस्पतिर्देवतायाम् (बृहतां पतिः बृहन् पतिरिति वा बृहस्पतिः, उभयत्र तकारस्य सकारः, २० अन्यत्र तत्करः बृहत्पतिः) । प्रायश्चित्तप्रायश्चित्ती अतीचारशोधने प्रकर्षेणैत्य गच्छत्यस्मादाचारधर्म इति प्रायो मुनिलोकः, चिन्त्यते स्म ते इति चित्तम्, चित्तिश्च व्रतम्, प्रायैश्चित्तं चिन्तितं किल्बिषविशुद्धये प्रायश्चित्तमतिचारशोधनम् आलोचनप्रतिक्रमणादि । एवं प्रायश्चित्तिः, पक्षे विसर्जनीयपूर्वः शकार इत्यन्ये (प्रायःश्चित्तम्) प्रायः श्चित्तिः । अन्ये तु प्रायणं प्रायः - परलोकगमनं भोजनत्यागो वा; तस्य चित्तं प्रायश्चित्तं प्रायश्चित्तिरित्यपि मन्यन्ते ॥ शष्कुली कृतान्ने ( शष्कुलशब्दाद्गौरादित्वात् ङीः कृतान्नादन्यत्र शकुली २५ मत्स्यविशेषः ) | गोष्पदं गोसेविते प्रमाणे च यत्र गावः पद्यन्ते स गोभिः सेवितो ग्रामसमीपादिर्देश उच्यते; प्रमाणे ( गोष्पदपूरं वृष्टो देवः ) गोष्पदमात्रं क्षेत्रम्, ( अत्र गोः पदम् ) ( अन्यस्येयत्तां परिच्छेत्तुमुपादीयमानं प्रमाणं भवति, अन्यत्र गोपदम् ॥ अगोष्पदं सेवारहिते- न विद्यते गोः पदं येषु तान्यगोष्पदान्यरण्यानि, अगोष्पदेष्वरण्येषु विश्वासमुपजग्मिवान् ॥ ननु गोष्पदप्रतिषेधाद्गोष्पदमिति सिद्ध्यति ? सत्यम् । किन्तु यत्र गवां प्रसङ्गो न ताभिः सेवितस्तत्रैव स्यात् ; यथा यत्र शुक्लगुण३० प्रसङ्गः स एवाशुक्ल इति भवति, नात्माकाशादि, यत्र तु गवामत्यन्तासम्भवस्तत्र न स्यात् ; तत्रापि यथा स्यादित्येवमर्थं निपातनम् । न विद्यते गोः पदं यत्रेति त्रिपदबहुव्रीहिविवक्षायां रूपान्तरनिवृत्त्यर्थम् ) । बहुवचनमाकृतिगणार्थम्, तेनावोवचपरोवरादयोऽपि द्रष्टव्याः । एषु सर्वेषु व्युत्पत्तिव्यावृत्त्यादिकं हैमबृहद्वृत्तेरवसेयम् । इति षत्वप्रकरणम् ।
1
"
“निष्प्रा०" (२।३।६६ ) । निर्वणं प्रवणमित्यादि । एवमग्रेवणम् “पारेमध्येऽग्रेऽन्तः षष्ठ्या वा” ३५ ( ३।१।३० ) इत्यव्ययीभावस्तत्सन्नियोगे च पूर्वपदस्य एत्वम् । अन्तर्वणम् खदिरवणम् कार्य ( शाल१ एतत्सर्वमत्र सौकर्यार्थं ( ) ईदृशचिह्नयोरन्तरे निवेशितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org