________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे समासप्रक्रिया । षत्वप्रकरणम् ३२१ "निर्दुःसोः सेधसन्धिसानाम्" (२।३।३१) निषेधः दुःषेधः सुषेधः । निःषन्धिः दुःषन्धिः सुषन्धिः । निःषाम दुःषाम् सुषाम । “भीरुष्ठानादयः” (२।३।३३) एते समासे कृतषत्वा निपात्यन्ते । भीरूणां स्थानं भीरुष्ठानम् । अङ्गुलीनां सङ्गोऽङ्गलिषङ्गः । अङ्गुलिषङ्गा यवागुः । भीरुष्ठान, अङ्गुलिषङ्ग, सव्येष्ठ, परमेष्ठिन् , सुष्टु, दुष्टु, अपष्टु, वनिष्टु, गौरिषक्थ, प्रतिष्णिका नौचेषिका, दुन्दुभिषेवण, इति भीरुष्ठानादयो द्वादश । बहुवचनमाकृतिगणार्थम् ॥ “हखानानास्ति'५ (२।३।३४ ) नानो विहिते तकारादौ प्रत्यये ह्रस्वाभामिन उत्तरस्य सस्य षो भवति; तल्-त्व-तस-त्यतय-तरप्-तमपः सप्तैते प्रयोजयन्ति । सर्पिष्टा, यजुष्टा। सर्पिष्वम् , यजुष्टम् । सर्पिष्टः यजुष्टः । निष्टयः, चतुष्टयम् । सर्पिष्टरम् , वपुष्टरम् । सर्पिष्टमम् वपुष्टमम् । “असिद्धं बहिरङ्गमन्तरङ्गे” इति लुतत्वस्यासिद्धत्वादिहापि भवति । सर्पि ३ ष्ट्व । चतु ३ ष्टय । ह्रस्वादिति किम् ? गीस्त्वं धूस्त्वम् । इत्यादि सर्व कचिदित्यादिना सङ्घहवाक्येन सङ्गृहीतं ज्ञेयम् । “प्रष्ठो०" (२।३।३२) अग्रेसरेऽभिधेये प्रष्ठः ।१० प्रस्थोऽन्यः । निर्दु० (२।३।५६) निःषम इत्यादि । एवं विषमः । निःषूतिः । सुषूतिः । सैमसूतिनामग्रहणाद्धातोर्वैरूप्ये च न भवति । निःसमति, दुःसमति, सुसमति, विसमति, निःसूतं, ( इत्यादि) "भ्रातु०" ( २।३।१४ ) भ्रातुष्पुत्र इति "ऋतां विद्यायोनिसम्बन्धे" (३।२।३७) इति षष्ट्या अलुप् । सर्पिष्कुण्डिका, धनुष्कपालम्, बर्हिःपूल, यजुष्पात्राणाम् । “वेसुसोऽपेक्षायाम्" (२३।११) इति षत्वे सिद्धेऽपि समस्तार्थमिह पाठः । परमसर्पिष्कुण्डिका परमधनुष्कपालम् परमबर्हिःपूलः परमयजु-१५ पात्रम् । अन्ये त्वेषां समस्तानां षत्वं न मन्यन्ते । एते पञ्च भ्रातुष्पुत्रादयः । कस्क इति वीप्सायां द्विर्वचनम् । कुतः कुत आगतः कौतस्कुतः, "तत आगते” (६।३।१४९) इत्यण् । शुनस्कर्णः “षष्ठ्याः क्षेपे" (३।२।३०) इत्यलुप् । सद्यस्काल:-बहुव्रीहिरसमासो वा, सद्यः क्रयणं सद्यस्क्रीः तत्र भवः साद्यस्कः । एवं भास्करः अहस्करः । अयस्काण्डः । तमस्काण्डः । अयस्कान्त । अयस्कुण्ड । मेदस्पिण्ड एते चतुर्दश केस्कादयः । बहुवचनमाकृतिगणार्थम् , तेन यथादर्शनमन्येपि भवन्ति । सर्वत्र नामिनः २० परस्य रेफस्य षत्वमन्यत्र सत्वं द्रष्टव्यम् ।
एवं कस्कादिवदवस्करादयोऽप्यत्र ज्ञेयाः । तथाहि "वर्चस्कादिष्ववस्करादयः" (३।२।४८) अवकीर्यते अवस्करो अन्नमलम् । तत्सम्बन्धात्तद्देशोऽप्यवस्करः, अवकरोऽन्यः । अपस्करो रथाङ्गे (अपकरोऽन्यः । कुत्सिता तुम्बुरुः ) कुस्तुम्बुरुरौषधिजातो, तत्फलानि कुस्तुम्बुरूणि (अन्यत्र कुस्तुम्बुरुस्तिन्दुकवृक्षः।) परस्परा अवरस्परा वा क्रियासातत्ये, अवरस्पराः सार्था गच्छन्ति-सततं गच्छन्तीत्यर्थः । (अन्यत्रावरपराः सार्था गच्छन्ति, अवरे च अपरे च सकदेव गच्छन्तीत्यर्थः ) आस्पदं २६
१ समेति सह मया वर्तत इति समः, गोश्चान्ते- निर्गतो निश्चितो वा समात्, सम इति समतीति प्रयोगैकदेशः षमष्टमेत्यजन्तस्य च भवति, सूतीत्यादिकस्य इकिश्तिव-इति शितव्यपि भवति, सूतिसूयतिसुवतीनां स्यन्तानां च, तत्र 'अव: खपः' इत्यनेन पृथग्योगानानोरेव ग्रहणम् न धाखोरित्याह-नानोर्ग्रहणादिति, नामग्रहणे च लिगविशिष्टस्यापि तेन सुषमा इत्यादि, धालो रेवेच्छन्तीत्युक्त्वा कथं नि:पूतमित्याधुदाहृतम् , सत्यम् , 'तप्रत्ययात्प्रागेव सूतेरुपसर्गेण योगाद्भविष्यति । २ गणपाठादण, अन्यथा वहामात्र-इति त्यच् स्यात् किंच तसन्तस्य प्रथमान्तलेन तत इति पञ्चम्यन्ताद्विधीयमानो न प्राप्नोति, केचित्त्वपञ्चम्यन्तादपि अणमिच्छन्ति, ततस्तन्मतेन तत आगतेन इत्यनेन वाऽण् , ननु द्वित्वे कुत एकपदत्वाभावात्कथं तत आगते इत्यऽण, सत्यम् , भूतपूर्वकन्यायाद्भविष्यति । ३ अहः किरति लिहायचिति कार्यम् , कृगस्तु 'अतः कृकमि०' इति सिद्धमेव । ४ कनै इत्यस्य रूपं कामयतेस्तु 'अतः कृकमि०' इति सिद्धमेव कामयतेर्वा समस्तार्थमिह पाठः, तेन परमायस्कान्त इत्यपि भवति । ५ यद्येवं कः कः कुत्र न घुघुरायितघुरिघोरो घुरेत्सूकर इत्यादि कथं, यतस्तत्रापि कस्क इति स्यात् । सत्यम् । परमताभिप्रायेण, ते हि भ्रातुष्पुत्र इति सूत्रं संधिविधौ विदधति, ततो विरामे विवक्षिते सति 'न संधिः' इत्यस्य प्रवृत्तेने सखम् ।
है. प्रका• पूर्वा० ४१ Jain Education International
For Personal & Private Use Only
www.jainelibrary.org