________________
३२० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
अथ समासे षत्वणत्वादिकं सझेपेण निरूपयति ।
समासे कचित्सकारनकारयोः षत्वणत्वे वक्तव्ये-मातृष्वसा, पितृष्वसा, निष्णः निष्णातः, नदीष्णः, "प्रष्ठोऽनगे” (२।३।३२)। प्रस्थोऽन्यः ॥ “निर्दुः सुवेः समसूतेः" (२॥३॥५६)। षः। निःषमः। दुषमा । सुषमा ॥ "भ्रातुष्पुत्र-कस्कादयः” (२३३१४)। ५एते साधवः॥"निष्प्रागेऽन्ताखदिरकााम्रशरेक्षुम्लक्षपीयूक्षाभ्यो वनस्य (२।३।६६)। नो ण् । निर्वणम् । प्रवणम् ।
समासे कचिदित्यादि मातृष्वसा पितृष्वसेति-मातृपितुः वसुः" (२।३।१८) इति षत्वम् । निष्ण इति-"निनद्याः लातेः कौशले” (२।३।२०) निनदीभ्यां परस्य नातेः सस्य षः स्यान्नै
पुण्ये गम्ये । निष्णो निष्णातः कटकरणे । नदीष्णो नदीष्णातः-प्रतरणे; कुशल इत्यर्थः । नद्याः १० लातस्य नेच्छन्त्येके ॥ "समासेऽग्नेः स्तुतः” (२।३।१६) अमिष्टुत् अग्निष्टुतौ ॥ "ज्योतिरा
युां च स्तोमस्य” (२।३।१७) । ज्योतिष्टोमः । अमिष्टोमः ॥ “प्रतेः लातस्य सूत्रे" (२।३।२१)। विशेषानुपादानाचोर्णादिसूत्रं व्याकरणादिसूत्रं च गृह्यते । प्रतिष्णातं सूत्रम्-ऊर्णादिसूत्रं क्षालनेन शुद्धम् । व्याकरणादिसूत्रं त्वतिव्यात्यादिदोषाभावेन शुद्धमित्यर्थः ॥ "लानस्य नानि" (२।३।२२) प्रतेः परस्य नानस्य समासे षः स्यात् , सूत्रविषये, नानि । प्रतिष्णानं सूत्रमित्यर्थः । १५ नानीति किम् ? प्रतिस्नानमन्यत् ॥ "वे. स्त्रः" (२।३।२३)। वेः परस्य स्सृणातेः सस्य षत्वम् , नाम्नि विषये । विष्टरो वृक्षः । विष्टरमासनम् । विष्टारपतिश्छन्दः । विष्टारबृहतीच्छन्दः । नानीत्येव-विस्तरो वचसाम्। विस्तारः पटस्य॥"अभिनिष्टाना" (२।३।२४)। अभिनिसूशब्दात्परःस्तानशब्दः समासे कृतषत्वो निपात्यते, नानि । अभिनिष्टानो वर्ण:-विसर्जनीयस्यैषा संज्ञा, वर्णमात्रस्येत्यन्ये । नानीत्येव । अभिनिस्तन्यते अभिनिस्तानो मृदङ्गः॥ "गवियुधेः स्थिरस्य" (२।३।२५)। गविष्ठिरः युधि२०ष्ठिरः ॥ "एत्यकः” (२।३।२६) । ककारवर्जितानाम्यन्तस्थाकवर्गात्परस्य सस्य एत्येकारे पो भवति,
नाम्नि । हरिषेणः । श्रीषेणः । वायुषेणः । मातृषेणः । एतीति किम् ? हरिसिंहः । अक इति किम् ? विष्वक्सेनः । नाम्यन्तस्थाकवर्गादिति किम् ? सर्वसेनः ॥"भादितो वा” (२।३।२७) । इदन्तानक्षत्रवाचिनः परस्य सस्य एकारे परे समासे षो वा स्यात् , नाम्नि । रोहिणिषेणः रोहिणिसेनः, रेवति
षेणः रेवतिसेनः । भरणिषणः भरणिसेनः । “डयापो बहुलं नाम्नि" (२।४।९९) इति ह्रस्वः । इत २५ इति किम् ? पुनर्वसुषेणः । अत्र पूर्वेण नित्यमेव ॥ "विकुशमिपरेः स्थलस्य" (२।३।२८)।
नाम्नीति निवृत्तम् । विगतम्, वीनां पक्षिणां वा स्थलं विष्ठलम् । कुत्सितं कोः पृथिव्याः स्थलं कुष्ठलम् । शमीनां स्थलं शमिष्ठलम् । “डयापो बहुल"मिति हवः । सूत्रे ह्रस्वनिर्देशादीर्घान्न स्यात्-शमीस्थलम् दीर्घादप्येके ॥ परिगतं स्थलं परिष्ठलम् । एभ्य इति किम् ? भूमिस्थलम् ॥ “कपेर्गोत्रे" (२।३।२९)। स्थलस्य सस्य षः । गोत्रमिहापत्यसन्ततेः प्रवर्त्तयिता-यन्नानापत्यसन्ततिय॑पदिश्यते सोऽभिधीयते । ३० कपिष्ठलो गोत्रप्रवर्त्तयिता यस्य कापिष्ठलिः पुत्रः । “गोऽम्बाऽऽम्बसव्यापद्वित्रिभूम्यग्नि
शेकुशङ्ककङ्गमञ्जिपुञ्जिवर्हिःपरमेदिवः स्थस्य” (२।३।३०)। एभ्योऽष्टादशभ्यः परस्य स्थस्य सः षत्वम् । गोष्ठः । अम्बाष्टः, "ड्यापो बहुल"मिति हस्खत्वे अम्बष्ठः । श्लिष्टनिर्देशादुभाभ्यामपि भवति आम्बष्ठः । सव्यष्ठः । अपष्ठः । द्विष्ठः । त्रिष्ठः । भूमिष्ठः । अग्निष्ठः । शेकुष्ठः । शकुष्ठः । कुष्ठः । अङ्गुष्ठः । मञ्जिष्ठः । पुञ्जिष्ठः । बर्हिष्ठः । परमेष्ठः । दिविष्ठः । अत एव निर्देशात्सप्तम्या ३५अलुप् । "तत्पुरुषे कृति" (३।२।२०) इति तु “नेन् सिद्धस्थे" (३।२।२९) इति प्रतिषेधात् नोपतिष्ठते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org