________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । णत्वप्रकरणम्
३२३ वृक्षवनं )वणम् वचनसामर्थ्याच्छकारव्यवधानेऽपि भवति । आम्रवणम् , शरवणम् , इक्षुवणम् , लक्षवणम् , पीयुक्षावणम् । पीयुक्षाशब्दोऽव्युत्पन्न आबन्तो द्राक्षापर्यायः ॥ ८७ ॥ द्वित्रिखरौषधिवृक्षभ्यो न वाऽनिरिकादिभ्यः॥ ८८ ॥ [सि० २।३।६७ ]
द्वित्रिखरेभ्य इरिकादिवर्जेभ्यश्चौषधिवृक्षवाचिभ्यः परस्य वनस्य नस्य णो वा स्यात् । दूर्वावणं दूर्वावनम् । नीवारवणं नीवारवनम् । “गिरिनद्यादीनाम्" (२॥३॥६८)।वा। गिरिणदी५ गिरिनदी । *एवं क्षीरपाणं क्षीरपानम् । 'व्रीहिवापिणौ व्रीहिवापिनौ । “ग्रामाग्राग्नियः" (२।३७१)। ग्रामणीः ॥ ८८॥
"द्वित्रि०" दूर्वावणमिति-एवं मूर्वावणम् २, ब्रीहिवणम् २, माषवणं माषवनमित्यादि द्विस्वरौषध्युदाहरणम् । कोद्रवणम् २, प्रियङ्गुवणम् २, इत्यादि त्रिखरोषध्युदाहरणम् , धान्यानामौषधिजातीयत्वात् । शिग्रुवणम् २, दारुवणम् २, इत्यादि द्विस्वरवृक्षोदाहरणम् । करीरवणम् २, शिरीषवणम् २, बदरी-१० वणम् २, इत्यादि त्रिस्वरवृक्षोदाहरणम् । "ओषध्यः फलपाकान्ता लतागुल्माश्च वीरुधः । फली वनस्पतिज्ञेयो वृक्षाः पुष्पफलोपगाः” ॥ १॥ इति यद्यपि भेदोऽस्ति तथाप्यतिबहुत्वार्थबहुवचनबलावृक्षग्रहणे वनस्पतीनामपि ग्रहणं भवति । अत एव च यथासयमपि न । तथा संज्ञायामसंज्ञायां च भवति । द्वित्रिखरेति किम् ? देवदारुवनम् । इरिकादिवर्जनं किम् ? इरिकावनम् । इरिका, गिरिका, तिमिर, चीरिका, [ क्षीर हरि ] कर्मीर, सप्तकोऽयमिरिकादिराकृतिगणः । इरिकादिविशेषवर्जनाद्विशे-१५ षाणामेवेह विधिस्तेनेह न भवति । द्रुवनम् , वृक्षवनम् । “गिरि०” सूत्रम् स्पष्टम् । *एवं क्षीरपाणमिति “पानस्य भावकरणे” (२।३।६९) पूर्वपदस्थेभ्यो रघुवर्णेभ्यः परस्य भावे करणे च यः पानशब्दस्तत्सम्बन्धिनो नकारस्य णो वा भवति । क्षीरपाणम् २, वर्तते । करणे क्षीरपाणं २, भाजनम् । कषायपाणः २ कंसः । भावकरण इति किम् ? क्षीरं पीयतेऽस्मिन्निति क्षीरपानो घोषः । एवं "देशे" (२।३।७०)। (योगविभागानवेति निवृत्तम् )। पीयत इति पानम् । क्षीरं पानमेषां क्षीरपाणा २० उशीनराः । सुरापाणाः प्राच्याः। “वाह्याद्वाहनस्य” (२।३।७२)। वोढव्यं वाह्यम् । उह्यतेऽनेनेति वहनम् । प्रज्ञादित्वात्स्वार्थिकोऽण् । अतो वा निपातनादुपान्त्यदीर्घत्वम् । इक्षुवाहणम् । शरवाहणम् । वाह्यादिति किम् ? सुरवाहनम् । सम्बन्धमात्रमत्र विवक्षितम् । नरवाहनः-नात्र वाह्यात्परं वाहनम् , किं तर्हि वाहनात् ? । “अतोऽहस्य" (२।३।७३)। पूर्वाह्नः । अपराहः । अत इति किम् ? निरह्नः पुरह्नः । “चतुस्नायनस्य वयसि” (२।३।७४) चतुर्हायणी त्रिहायणी वत्सा । वयसीति २५ किम् ? चतुर्हायना शाला । कालकृता प्राणिनामवस्था हि वयः । ङीरपि वयस्येव भवति । "ब्रीहिवापिणाविति” । “वोत्तरपदान्तनस्यादेरयुवपक्काहः" (२।३।७५) पूर्वपदस्थाद्रपूवर्णात् परस्योत्तरपदान्तभूतस्य तथा नागमस्य स्यादेश्च नकारस्य णो वा भवति, न चेत्स नकारो युवन्-पक-अहन्शब्दसम्बन्धी भवति । उत्तरपदान्त. व्रीहिवापिणी २ कुले । नागम, व्रीहिवापाणि २, माषवापाणि २, कुलानि । 'इवु व्याप्तौ इत्यस्यानटि प्रेण्वनम् २। 'हिवु प्रीणने पिवु सेचने' इत्यनयोः शतरि प्रहिण्वन् ३० प्रहिन्वन् । प्रपिण्वन् २। हिवोरेव ह्यस्तन्याम्-प्राहिण्वन् प्राहिन्वन् । बहुलवचनादनाम्नापि समासः। समासे हि पूर्वोत्तरपदव्यवहारः । पुरुषश्च वारि च पुरुषवारिणी इत्यत्र तु परमपि विकल्पं बाधित्या अन्तरङ्गत्वादेकपदाश्रितं (रघुवर्णादित्यादिना नित्यं) णत्वं स्यात् । स्यादि. व्रीहिवापेण २ ।बीहिवा-३३ १ मुद्रितबृहद्वृत्तौ कमरि खीर इति शब्दौ स्तः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org