________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । विभक्तीनामलोपः
अथ समासप्रकरणे यथायोगं विभक्तीनामलुपं सङ्क्षेपेण निर्देष्टुमाहसमासे कचित्स्यादीनामलुप् स्यात् ।
समासे इत्यादि-अथात्र सङ्क्षेपेण सूत्राणि दर्शयति
३१७
"न नाम्येकस्वरात्खित्युत्तरपदेऽमः” (३३२९) । स्त्रीं स्त्रियं वात्मानं मन्यते स्त्रीम्मन्यः स्त्रियम्मन्यः ॥ " ओजोऽञ्जः सहोऽम्भस्तमस्तपसष्टः ” ( ३।२।१२ ) । ओजसाकृतम् ॥ ५ “आत्मनः पूरणे” (३।२।१४ ) । आत्मना चतुर्थः ॥ " परात्मभ्यां डे” (३|२|१०७) । नानि । परस्मैपदम् । आत्मनेपदम् || असन्त्वे उसे ” ( ३।२।१० ) । स्तोकान्मुक्तः ॥ “षष्ठ्याः क्षेपे” (३|२|३० ) । चौरस्य कुलम् || "पुत्रे वा" ( ३।२।३१ ) । दास्याः पुत्रः दासीपुत्रः ॥ " पश्यद्वागूदिशो हरयुक्तिदण्डे” ( ३।२।३२ ) । पश्यतो हरः ॥ "अदसोकायनो” (३२।३३) । अमुष्यपुत्रस्य भाव अमुष्यपुत्रिका । अमुष्यापत्यमामु- १० व्यायणः ॥ "देवानां प्रियः " ( ३|२|३४ ) । इत्यादि । “अध्यञ्जनात्सप्तम्या बहुलम् " ( ३।२।१८ ) । नाम्नि । अरण्ये तिलकाः । युधिष्ठिरः । अमूर्द्धमस्तकात्स्वाङ्गादकामे " (३२२२ ) । कण्ठेकालः । उरसिलोमा || * "कचिह्ना" मनसिजः मनोजः । सरसिजं सरोजम् || 'वाचस्पत्यादयो निपात्याः ।
“नना०” । समासारम्भकमन्त्यपदमुत्तरपदम्, नाम्यन्तादेकस्वरात्पूर्वपदात्परस्यामः खित्प्रत्ययान्ते उत्तरपदे परे लुब् भवति । श्रीम्मन्य इति "वाम् शसि" ( २।१।५५ ) इति वेय् । एवं श्रियम्मन्यः भ्रुवम्मन्यः नरम्मन्यः रायम्मन्यः गाम्मन्यः नावम्मन्यः । अथ श्रियमात्मानं मन्यते श्रियम्मन्यं कुलमित्यत्र नपुंसकलक्षणोऽमो लोपः कस्मान्न भवति ? उच्यते - श्रीशब्दस्यात्मसमानाधिकरणस्य नपुंसके वृत्त्यभावादाविष्टलिङ्गत्वाच्च न भवति । अन्ये त्वाहु: - यथा प्रष्ठादयः शब्दा धवयोगात्त्रियां वर्त्तमानाः स्वलिङ्गं विहाय स्त्रीलिङ्गमुपाददते, तथा श्रीशब्दः कुले वर्त्तमानः स्वलिङ्गपरित्यागेन वर्त्तते; ततो २० नपुंसकलक्षणं ह्रस्वत्व - ममो लुप् च भवति - श्रिमन्यं कुलमिति । न चायं नपुंसकलक्षणस्य लोपस्यापवादः किन्त्वैकार्थ्यलक्षणस्योत्तरपदग्रहणात्तत उत्तरपदे विधीयमानोऽयमपवाद उत्तरपदे एव प्राप्तस्य लोपस्य बाधक इति भावः । "ओजो०" । ट इति तृतीयैकवचनस्य । ओजसा कृतमिति एवं अञ्जसा सहसा अम्भसा तमसा तपसा कृतं प्राप्तमित्यादिषु " कारकं कृता” ( ३।१।६८ ) इति समासोऽनेनालुप् च । कथं 'सततनैशतमोवृतमन्यतः' इति किरातार्जुनीये पश्चमसर्गे पथम् ? उच्यते यत्र पूर्वपदी - २५ भूतस्तमःशब्दस्तत्रायं निषेधः, यत्र तु पदान्तरेण समस्तस्तत्र न प्रतिषेधः । “पुञ्जनुषोऽनुजान्धे” ( ३।२।१३)। पुंसाऽनुजः । जनुषान्धः - अविकृताक्षो जात्यन्ध उच्यते । अन्ये तु जतुशब्दात्तकारश्रुतेरिच्छन्ति । " आत्म०” । पूरणे इति - पूरणप्रत्ययान्ते उत्तरपदे परे । आत्मना चतुर्थ इति । ननु कथं “जनार्दनस्त्वात्मचतुर्थ एवे”ति ? उच्यते-आत्मा चतुर्थोऽस्येति बहुव्रीहिरयम् । एवं "मनसश्चाऽऽज्ञायिनि ” ( ३।२।१५ ) | मनः शब्दादात्मशब्दाच, आज्ञायिन्युत्तरपदे । मनसाज्ञातुं शीलमस्येति मन- ३० साज्ञायी । एवं आत्मनाशायी ॥ आत्मनो नेच्छन्त्येके । “नाम्न्नि” ( ३।२।१६ ) । मनसः परस्य टावचनस्योत्तरपदे परे संज्ञायां विषये लुब् न भवति । मनसादेवी, मनसागुप्ता, मनसादत्ता, मनसाङ्गता । एवन्नामा काचित् । इति तृतीया । "परा०" परस्मैपदमिति - एवमात्मनेपदम् । परस्मैभाषा, आत्मनेभाषा । “तादर्थ्ये” ( २।२।५४) चतुर्थी । हितादित्वात् [ " हितादिभिः ” ( ३।१।७१ ) ] समासः । नान्नीत्येष-परहितम् । कथं परहितो नाम कश्चित् ? नेयमनादिसंज्ञा । इति चतुर्थी । ३५
1
Jain Education International
For Personal & Private Use Only
१५
www.jainelibrary.org