________________
३१६ महामहोपाध्यायत्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुतृतीया तदैको णिग् । यथा मुझे जनस्तं भुजानं सख्यः प्रयुञ्जते इति णिग् । केन सह केन कृत्वा वा परस्परेणेति । यदा तु कर्तरि तृतीया सदा गिद्वयं, कथम् ? भुले जनस्तं भुनानं परस्परः प्रयुङ्क्ते णिग् तं परस्परं भोजयन्तं सख्यः प्रयुञ्जते इति द्वितीयो णिग् । ततः कर्तरि तृतीयेति । इत्थमनुक्तस्यापि जनस्यात्र कर्तृत्व बोध्यम् । अन्यथा "गतिबोधे"त्यादिना परस्परस्य कर्मत्वमेव स्यात् । अथवा प्रथमैकव५चनसायमाम्भावः । आमभावपक्षे आभिः सखीमिः परस्परो भोज्यते इत्यादि द्रष्टव्यम् । एवं इमाः
सख्यः कुलानि वा परस्परांपरस्परस्मै वाप्रयच्छन्ति । परसरां परस्परस्माद्वा विशन्ति । परस्परां परस्परस्य वा स्मरन्ति । परस्परां परस्परस्मिन्वा नियन्ति । एवमन्योन्यां अन्योन्यम् । इतरेतरामितरेतरं वा भोजय इत्यादि । अपरोऽर्थ:-परस्परादीनामपुंसि प्रयुज्यमानानां सम्बन्धिनः स्यादेरमादेशो वा भवति ।
आभिः सखीभिः कुलैर्वा परस्परं परस्परेण वा भोज्यते, परस्परं परस्परस्मै वा दीयते । अन्योऽर्थः१० परस्परादीनां पुंसि प्रयुज्यमानानां सम्बन्धिनः स्यादेरम्वा भवति । एभिनेरैः परस्परं परस्परेण वा भोज्यते । परस्परं परस्परस्मै वा दीयते । एवं च स्त्रीनपुंसकयोरमामौ द्वावादेशौ वा भवत इति त्रैरूप्यम् ।
एवमेकैको, *द्वन्द्वमित्यादि।
एकैक इति-अत्र सूत्रम्-"प्लुए चादावेकस्य स्यादे" (७।४।८१) । एकशब्दस्य वीप्सायां द्विरुक्तस्यादौ वर्चते य एकशब्दस्तत्सम्बन्धिनः स्यादेः प्लुप् भवति । पित्करणं पुंवद्भावार्थम् , अत एवात१५ द्धितेऽपि (लुपि) पुंवद्भावः । एकैकः, एकैका, एकैकस्याः, एक एका, एक एकस्याः। अत्र विरामस्य विवक्षितत्वात् पुंवद्भावे (सति न) सन्धिः , यथा अमे अग्रे सूक्ष्माः , यथा वा ऋक् ऋक् इति । आदिपदस्य स्यादेः प्लुप्युत्तरेणाभेदाश्रयणे स्यादन्तत्वात् "सर्वादयोऽस्यादौ” (३।२।६१) इति पुंवद्भावो न प्रामोतीति लुपः पित्त्वं विधीयते । चकार उत्तरम प्लुद्विर्वचनयोः समुच्चयार्थः । इह तु द्विवचनं
सूत्रक्रमे वीप्सायां पूर्वेणैव सिद्धम् । प्लन्मात्रं विधीयते । आदाविति किम् ? उत्तरोक्तौ मा भूत् । द्वन्द्व२० मिति, अत्र सूत्राण्येवम्-"द्वन्द्वंपा" (७।४।८२)। द्वन्द्वमिति वीप्सायां द्विरुक्तस्य द्विशब्दस्यादौ
स्यादेः प्लुप्, इकारस्याम्भावः, उत्तरत्रेकारस्यात्वं स्यादेश्वाम्भावो वा निपात्यते । द्वन्द्वं तिष्ठतः, द्वौ द्वौ तिष्ठतः । नरकपटलान्यधोऽधो द्वन्द्वं हीनानि, द्वाभ्यां द्वाभ्यां हीनानि । द्वन्द्व युद्धं वर्त्तते, द्वयोर्द्वयोयुद्धं वर्त्तते । द्वन्द्वं कृतम्, द्वाभ्यां द्वाभ्यां कृतम् । द्वन्द्वं स्थितम् , द्वयोर्द्वयोः स्थितम् । "रहस्यमर्यादोक्तिव्युत्क्रान्तियज्ञपात्रप्रयोगे" (७।४।८३) । वीप्सायामिति निवृत्तम् । द्वन्द्वमिति द्विशब्दस्य २५ द्विर्वचनं शेषं पूर्ववत् रहस्यादिषु गम्यमानेषु निपात्यते । रहस्ये-द्वन्द्वं मत्रयन्ते, रहस्यं मनयन्ते
इत्यर्थः । मर्यादोक्तौ-आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते-माता पुत्रेण पौत्रेण प्रपौत्रेण तत्पुत्रेण च मैथुनं यातीत्यर्थः । व्युत्क्रान्तिर्भेदः-द्वन्द्वं व्युत्क्रान्ता द्वैराश्येत भिन्ना इत्यर्थः । द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति द्वे द्वे प्रयुनक्ति इत्यर्थः । (रहस्यादिष्विति किम् ? द्वौ तिष्ठतः) । उक्तिग्रहणं शब्दोपात्तायां मर्यादायां
यथा स्यात्, प्रकरणाविगम्यायां मा भूत् ॥ द्वन्द्वः-समासः, कलहश्च । द्वन्द्वम्-युद्धम् , युग्मं च । ३० द्वन्द्वानि सहते-दुःखानीत्यर्थः । अत्र द्वन्द्व इति शब्दान्तरम् । “लोकज्ञातेऽत्यन्तसाहचर्ये" (७४८४) । (लोकज्ञातेऽत्यन्तसाहचर्ये योये द्विशब्दस्य पूर्ववत् द्वन्द्वमिति निपात्यते ) । द्वन्द्वं नारदपर्वतौ । द्वन्द्वं रामलक्ष्मणौ । द्वन्द्वं बलदेववासुदेवौ । द्वन्द्वं स्कन्दविशाखौ । द्वन्द्वं शिववैश्रवणौ ।
लोकज्ञात इति किम् ? द्वौ चैत्रमैत्रौ । अत्यन्तसाहचर्य इति किम् ? द्वौ युधिष्ठिरार्जुनौ । द्वन्द्वमिति च ३४सूत्रत्रयेऽपि द्वन्द्वं नपुंसकं वेदितव्यमनुप्रयोगस्य नपुंसकत्वार्थम् ।।
१ ननु चात्र स्यादेर्लपा निवृत्तेः 'सर्वादयोऽस्यादौ' इति पुंवद्रावो भविष्यति किं पित्त्वविधानेनेत्याशङ्का ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org