________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । आदेशविशेषाः ३१५ द्विन्यष्टानां द्वात्रयोऽष्टाः प्राक् शतादनशीति
बहुव्रीहौ ॥ ८६ ॥ [सि० ३।२।९२] शतात्प्राक् सङ्ख्यायामुत्तरपदे परे यादीनां द्वादय आदेशाः स्युः। न त्वशीती, बहुव्रीहिविषये च । द्वादश । त्रयोविंशतिः । अष्टात्रिंशत् । “चत्वारिंशदादी वा” (३।२।९३)। द्वाचत्वारिंशत् द्विचत्वारिंशत् । अनशीतिबहुव्रीहाविति किम् ? यशीतिः। द्वित्राः । *अन्याद्दोन्तो-५ ादिषु वा । अन्यदर्थः अन्यार्थः ॥ ८६ ॥
"द्विध्य." । व्यादय आदेशा इति-द्विशब्दस्य द्वा इत्यादेशः-द्वादश, द्वाविंशतिः, द्वात्रिंशत् । त्रिशब्दस्य त्रयस् इत्यादेशः-त्रयोदश त्रयोविंशतिः त्रयविंशत् । अष्टशब्दस्य अष्टा इत्यादेश:अष्टादश अष्टाविंशतिः अष्टात्रिंशत् । “चत्वा०" द्वित्र्यष्टानां प्राक् शताञ्चत्वारिंशदादौ सङ्ख्यायामुत्तरपदे व्यादय आदेशा वा भवन्ति । त्रयश्चत्वारिंशत् त्रिचत्वारिंशत् । अष्टाचत्वारिंशत् अष्टचत्वारिंशत् ।१० एवं द्विपञ्चाशत् द्वापश्चाशत् इत्यादि । *अन्याहोऽन्त इत्यादि । अत्र सूत्रम् "अषष्ठीतृतीयादन्याहोऽर्थे" (३।२।११९)। अषष्ठ्यन्तादतृतीयान्ताच्चान्यशब्दादर्थशब्द उत्तरपदे दोऽन्तो वा भवति । अन्योऽर्थों (अन्यश्चासावर्थश्च ) अन्योऽर्थोऽस्येति वा अन्यदर्थः अन्यार्थः । अन्यस्मै इदं अन्यदर्थं अन्यार्थम् । अन्यस्मिन्नर्थः अन्यदर्थः अन्यार्थः । अषष्ठीतृतीयादिति किम् ? अन्यस्यार्थः अन्यार्थः । अन्येनार्थः अन्यार्थः । अर्थादिष्वित्यत्रादिशब्दस्यायमर्थ:-"आशीराशाऽऽस्थिताऽऽस्थोत्सु-१५ कोतिरागे” (३।२।१२०)। वेति निवृत्तम् , पृथग्योगात् । आशीःप्रभृतिषु सप्तसूत्तरपदेषु अषष्ठीतृतीयान्तादन्यशब्दादोऽन्तो नित्यं भवति । अन्या आशी: अन्यदाशीः । अन्या आशा अन्यदाशा । अन्यमास्थितः अन्यदास्थितः । अन्या आस्था अन्यदास्था । अन्यस्मिन् उत्सुकः अन्यदुत्सुकः । अन्या ऊतिः अन्यदूतिः । अन्यत्र रागः अन्यद्रागः । अषष्ठीतृतीयादित्येव-अन्यस्याशीः अन्याशीः । अन्येनास्थितः अन्यास्थितः।
इत्यादिशब्दाच्च “ईय कारके" (३१२।१२१)। पृथग्योगादषष्ठीतृतीयादिति निवृत्तम् । अन्यशब्दादीये प्रत्यये कारके चोत्तरपदे दोऽन्तो भवति । अन्यस्यायमन्यदीयः । गहादित्वादीयः ("गहाऽऽदिभ्यः" ६।३।६३) अन्यस्मै हितमन्यदीयम् । अन्यस्यान्येन वा कारकः अन्यत्कारकः, अन्यत्कारिका । अन्यः कारकः अन्यत्कारकः, अन्यत्कारिका ॥ ८६ ॥
परस्पराऽन्योऽन्येतरेतरस्याम् स्यादेाऽपुंसि ॥ ८७॥ [सि० ३।२।१] २५
एषामपुंसि स्यादेराम् वा स्यात् । स्त्रियौ कुले वा परस्परां परस्परं भोजयतः । स्त्रीभिः कुलैर्वा परस्परां परस्परेण भोज्यते । पुंसि तु नराः परस्परं पश्यन्ति । त्रयोऽप्यमी क्रियाव्यतिहारविषया एकत्वपुंस्त्ववृत्तय इत एव सूत्रनिर्देशात्साधवः ॥ ८७॥
"परस्प०" । पूर्वमन्योऽन्येतरेतरशब्दयोर्द्वन्द्वः, पश्चात्परस्परेण, अन्यथा अन्योन्यशब्दस्य स्वराद्यदन्तत्वादल्पस्वरत्वाच्च पूर्वनिपातः स्यात् । स्त्रियौ कुले इत्यादि-भुङ्क्ते परस्परः कर्ता तं भुञ्जानं सख्यौ ३० प्रयुञ्जाते। “गतिबोधाहारार्थ०" (२।२।५) इत्यणिकर्तुः परस्परस्य कर्मत्वम् , विधानसामर्थ्यात् "अवर्णस्यामः साम्” (१।४।१५) इति न भवति ॥ परस्परां परस्परेणेति-अत्र करणार्थे सहार्थे वा यदा ३२
१ पूर्वपदस्य साक्षादेव निर्देशातू प्राक् शतादित्यवधेरनशीतिपर्युदासाशीतेः सङ्ख्यायाः प्रतिषेधात् सङ्ख्यारूपस्यैवोत्तरपदस्य
२०
ग्रहणम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org