________________
३१४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
मासवर्णभ्रात्रऽनुपूर्वम् ॥ ८४ ॥ [ सि० ३।१।१६१ ] एतद्वाचि द्वन्द्वे यथाक्रमं प्राक् स्यात् । तुल्यवराणां भर्तनामप्येवम् ("भर्तुतुल्यखरम्" (३३१३१६२) इत्यनेन) फाल्गुनचैत्रौ । ब्राह्मणक्षत्रियौ । रामकृष्णौ । ज्येष्ठामूले । ग्रीष्मवर्षाः । "सलयास मासे” (३३१११६३)। द्वित्राः ॥ धर्मार्थादिष्वनियमः ("धर्मार्थादिषु द्वन्द्वे" ५(२१२१५९) इत्यनेन) धर्मार्थों अर्थधौं । शब्दार्थों अर्थशब्दौ ॥ ८४ ॥
इति द्वन्द्वः "मास.” । स्पष्ठम् । तुल्यस्वराणामिति वार्तिकं स्पष्टम् । तुल्यस्वराणां भर्तनामित्युक्तेः पुष्यपुनर्वसू ग्रीष्मवसन्ते इत्यादौ यथाप्राप्तम् । “सङ्ख्या" । सर्वा सङ्ख्या प्रथमोक्तेत्यनियमे प्राप्ते आनुपूर्व्याः सङ्ख्यायाः पूर्वनिपातार्थ वचनम् । समासमात्रे सङ्ख्यावाचिनामानुपूयं पूर्व निपतति । बहुव्रीहौ-द्वौ १० वा त्रयो वा द्वित्राः । त्रिचतुराः, पञ्चषाः । द्विगौ-द्वे शते समाहृते द्विशती । "अनवक्तृप्त्यवमर्षयो." (पा० ३।३।१४५) इति पाणिनीयसूत्रेण स्वराद्यदन्तस्य प्राग्निपातानित्यत्वज्ञापकात् हरिहरौ शुचीनौ इत्यादयः प्रयोगाः साधव इति कृष्णपण्डिताभिप्रायः। द्वन्द्वे, एकश्च दश च एकादश । “धर्मा०" धर्मार्थादौ द्वन्द्वसमासेऽप्राप्तपूर्वनिपातं वा पूर्व निपतति । एवं आधन्तौ अन्तादी । अग्नेन्द्रौ इन्द्राग्नी ।
चन्द्रार्को अर्कचन्द्रौ । अश्वत्थकपित्थौ कपित्थाश्वत्थौ, इत्यादिषु स्वराद्यदन्तत्वान्नित्यं पूर्वनिपाते प्राप्ते; १५ सर्पिर्मधुनी, मधुसर्पिषी । गुणवृद्धी वृद्धिगुणौ । दीर्घलघू लघुदी! । चन्द्रराहू राहुचन्द्रौ, इत्यादिषु
इदुदन्तत्वान्नित्यं पूर्वनिपाते प्राप्ते; तप:श्रुते, श्रुततपसी । द्रोणभीष्मी, भीष्मद्रोणौ । इत्यादिष्वय॑त्वा. नित्यं पूर्वनिपाते प्राप्ते; शकृन्मूत्रम् मूत्रशकृत् । कुशकाशम् काशकुशम् । करभरासभौ रासभकरभौ, इत्यादिषु लध्वक्षरत्वात्पूर्वनिपातै प्राप्ते; समीरणामी अग्निसमीरणौ । आदित्यचन्द्रौ चन्द्रादित्यौ। पाणिनीयरौढीयाः रौढीयपाणिनीयाः । रूढस्यापत्यं रौढिस्तस्य छात्रा रौढीयाः । जित्याविपूयविनीयाः विपू२० यविनीयजित्याः इत्यादिस्वल्पस्वरत्वान्नित्यं पूर्वनिपाते प्राप्ते; ब्राह्मणक्षत्रियविट्शूद्राः शूद्रविक्षत्रियविप्राः ।
भीमसेनार्जुनौ अर्जुनभीमसेनौ । देवापिशन्तनू शन्तनुदेवापी इति वर्णभ्रातृलक्षणेऽनुपूर्व निपाते प्राप्ते; विकल्पाथं वचनम् । बहुवचनमाकृतिगणार्थम् , तेन वसन्तग्रीष्मौ ग्रीष्मवसन्तौ । शुक्रशुची शुचिशुक्रौ इत्यादयोऽपि द्रष्टव्याः । इति द्वन्द्वः ॥ ८४ ॥
अथ समासप्रकरणे आदेशविशेषान्निरूपयति । २५ एकादश-षोडश-पोडत्-पोढा-षड्ढा ॥ ८५॥ [सि० ३२२२९१]
एते साधवः । षट् दन्ता यस्य षोडन् ॥ ४५ ॥
"एका.” । एकोत्तरा दश, एकं च दश च वा एकादश-अत्र पूर्वपदस्य दीर्घः ॥ षडुत्तरा दश, षट् च दश च वा षोडश-अत्र षषोऽन्तस्योत्वम् , उत्तरपददकारस्य च डकारः ॥ षड् दन्ता अस्य षोडन्
अत्र दन्तशब्दस्य दतादेशे दस्य डत्वं षषोऽन्तस्योत्वं च । एवं षोडन्तौ षोडन्तः । स्त्रियां तु षोडती, ३० अन्ये तु दत्रादेशे कृते षोडन्निति नकारान्तं (स्वमते तु तकारान्तो निपातः ) शब्दान्तरं राजन्शब्दवन्निपातयन्ति । ततश्च षोडानमिच्छतीति क्यनि नकारलोपे ईत्वे च षोडीयतीति सिद्ध्यतीति मन्यन्ते ॥ षभिः प्रकारैः षोढा षड्ढा, अत्र धाप्रत्यये षषोऽन्तस्य वोत्वम् धकारस्य तु नित्यं ढत्वम् । यत्तु षड्
धेति रूपम् न तत् धाप्रत्यये, किन्तु षड् दधाति धयति वा इति "आतो डोऽहावामः" (५।१७६) ३४ इति डे कृते स्त्रियामपि च भवति । निपातस्य चेष्टविषयत्वादत्रोत्वढत्वे न भवतः ॥ ८५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org