________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे समासप्रक्रिया । द्वन्द्वः ३१३ *स्त्रीपुंसौ । वाचनसे । अहोरात्रः । रात्रिन्दिवम् । नक्तन्दिवम् । अक्षिश्नुवम् । दारगवमित्यादयोऽदन्ता द्वन्द्वाः साधवः ॥८२॥
"चवर्ग०" वाक च त्वक् च वाक्त्वचम् । एवं श्रीस्रजम् । वाग्विग्रुषम् , गोगोदुहम् ॥ अथात्र समासान्तविधि सङ्केपेण सनहाति । सीपुंसौ इति-अत्र सूत्रम् "स्त्रियाः पुंसोद्वन्द्वाच" (७।३।९६)। स्त्रीशब्दात्परो यः पुम्स्शब्दस्तदन्ताहन्द्वात्कर्मधारयाश्चात्समासान्तो भवति । स्त्रीपुंसम् , स्त्रीपुंसौ,५ स्त्रीपुंसाः । कर्मधारयात्-त्री चासौ पुमांश्च स्त्रीपुंसः, शिखण्डी । स्त्रीपुंसं विद्धि राक्षसम् ।। विाङ्मनसे इत्यादि-अत्र सूत्रम् "ऋक्सामय॑जुषधेन्वनडहवामानसाऽहोरात्ररात्रिन्दिवनक्तन्दिवाऽहर्दिवोर्वष्ठीवपदष्ठीवाऽक्षिधुबदारगवम्" (७३।९७) । ऋक्सामादयो द्वन्द्वा अ-प्रत्ययान्ता निपात्यन्ते । ऋक् च साम च ऋक्सामे । ऋक् च यजुश्च ऋग्यजुषम् ॥ धेनुश्च अनवांश्च धेन्वनडुहौ, धेन्वनडुहाः, असमासार्थ धेन्वनडुहप्रहणम् , समाहारे तु "चवर्गदषह०” इत्यादिनैव १० सिद्धम् ॥ वाक् च मनश्च वाड्मनसे । अहश्च रात्रिश्च अहोरात्रः, 'रात्रवृत्रा' इति पुंस्त्वम् । रात्रिश्च दिवा च रात्रिन्दिवम् , रात्रिन्दिवानि पश्यति, निपातनात् पूर्वपदस्य मोऽन्तः । नक्तं च दिवा च नक्तन्दिवम् अत्रापि मोऽन्तः । अहश्च दिवा च अहर्दिवम् , पर्याययोरपि वीप्सायां द्वन्द्वो निपातनात्, अहरहरित्यर्थः, रात्रिपर्यायोऽन्यतर इत्येके, अहर्निशमित्यर्थः ॥ अरू च अष्ठीवन्तौ च ऊर्वष्ठीवम्-निपातनादन्त्यस्वरादिलोपः ॥ पादौ चाष्ठीवन्तौ च पदष्ठीवम्-अत्र पद्भावश्च ॥ अक्षिणी च ध्रुवौ च अभिभ्रुवम् । १५ दाराश्च गावश्च दारगवम् , अत्र निपातनात् ध्रुव उवादेशोऽक्षिदारशब्दयोश्च पूर्वनिपातः ।। ८२ ॥
___ अथ द्वन्द्वे पूर्वपदनियमं दर्शयति । लघ्वक्षराऽसखीदुत्खराद्यदल्पखराय॑मेकम् ॥ ८३ ॥ [सि० ३।१।१६० ] लध्वक्षरं सखिवर्जेकारोकारान्तं खराधकारान्तमल्पखरं पूज्यवाचि चैक द्वन्द्वे प्राक् स्यात् । करशीर्षम् । पतिसुतौ । वायुतोयम् । अस्त्रशस्त्रम् । प्लक्षन्यग्रोधम् । श्रद्धामेधे ॥८३॥ २०
"लघ्व०" । सखिवर्जनादत्रानियमः । सुतसखायौ । सखिसुतौ ॥ असखीदुल्लध्वक्षरयोः "स्पर्द्ध" (७४।११९) परमेव-श्रीहियवौ । असखीदुदित्यैकपद्यादिदुतोः स्पढ़े कामचारः-पतिवसू । वसुपती । स्वराद्यकारान्तमिति स्वराद्यदन्तलध्वक्षरयोः स्पर्द्ध परमेव उष्ट्रखरम् । अल्पस्वरमिति लघ्वक्षराल्पस्वरयोः स्पर्द्ध परमेव-वागर्थों, धवाश्वकर्णौ । श्रद्धामेधे इति–अर्थप्राहिणी श्रद्धा, शब्दग्राहिणी मेधेति श्रद्धायाः पूज्यत्वम् । अत्रापि स्पर्द्ध दीक्षातपसी । श्रद्धातपसी । मेधातपसी अत्र तपसो लध्वक्षरत्वेऽपि २५ दीक्षाश्रद्धामेधानां बहूपकारकत्वान्मूलभूतत्वाच पूज्यत्वम् । मातापितरौ-गर्भधारणपोषणादिना मातुः पूज्यत्वम् । वधूवरौ-विवाहस्य स्त्रीप्रधानत्वाद्वध्वाः पूज्यत्वम् । लघ्वादिग्रहणं किम् ? कुकुटमयूरौ मयूरकुक्कुटौ ॥ एकमिति किम् ? युगपदनेकस्य पूर्वनिपाते एकस्यैव यथाप्राप्तं पूर्वनिपातः । शेषाणां तु कामचार इति प्रदर्शनार्थम्-शङ्खदुन्दुभिवीणाः । वीणादुन्दुभिशङ्खाः । शङ्खवीणादुन्दुभयः, “प्राणितूर्याङ्गाणाम्” (३।१।१३७) इति बहुवचनं कचिदेकत्वविघेरनित्यत्वार्थम् , तेनात्रैकत्वाभावः । अत्र दुन्दु-३० भिशब्दादिदन्तादल्पस्वरत्वेन परयोः शङ्खवीणाशब्दयोः युगपत्पूर्वनिपातप्राप्तावेकग्रहणादेकस्यैव क्रमेण पूर्वनिपातः ॥ एवं अश्वरथेन्द्राः इन्द्राश्वरथाः इन्द्ररथाश्वाः । एकस्यैवेत्युक्तेऽपि दुन्दुभिरथादीनां न पूर्वनिपातः-शब्दस्पर्द्धपरत्वात् न भवति ।। ८३ ॥
है. प्रका० पूर्वा० ४०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org