________________
३१२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुबुक्कसाः, न तेभ्यो जनगमादिभ्यत्रैवर्णिकाः स्वं पात्रं प्रयच्छन्ति । तैर्युक्ते पात्रस्य संस्कारेणाशुद्धरिति । शुद्रग्रहणं किम् ? ब्राह्मणक्षत्रियविशः । “गवा" (३।१।१४४) अयं द्वन्द्व एकार्थो भवति । गौश्चाश्वश्व गवाश्वम्, गवैडकम् अजाविकम् अजैडकम् फुब्जवामनम् कुब्जकैरातम् कुब्जकैरातकम् पुत्रपौत्रम् । नित्यवैराभावपक्षे श्वचाण्डालम् । नित्यवैरपक्षे तु “नित्यवरस्य" ( ३।१।१४१) इति सिद्ध५मेव । श्रीकुमारम्, दासीमाणयकम् , शाटीपच्छिकम् , (पच्छिका छाजिकेति प्रसिद्धा) उष्ट्रखरम् । उष्ट्रशशम् मूत्रशकृत् , मूत्रपुरीषम् , यकृन्मेदः, मांसशोणितम् , दर्भशरम् , दर्भपूतीकम् , अर्जुनपुरुषम् , तृणोलपम्॥ कुडीकुडम्-कुडत् बाल्ये, “नाभ्युपान्त्य.” (५।११५४) इति के "वयस्यनन्त्ये” (२।४।२१) इति डयां कुडी बाला, कुडो बालः । दासीदासम्, भागवतीभागवतम् त्रिष्वेतेषु "पुरुषः स्त्रिया" (३।१।१२६)
इत्येकशेषो न भवति-निपातनात् ॥ गवाश्वादिषु यथोच्चारितरूपग्रहणादन्यत्र नायं विधिः । गोऽश्वौ १० गोऽश्वम् । गोअश्वौ गोअश्वम् “वात्यऽसन्धिः ” (१।२।३१) “स्वरे वाऽनक्षे” (१।२।२९) इत्याभ्यां त्रैरूप्ये द्वयोः पशुविभाषैव । इति आदिशब्दसट्टहीतं सर्व समाहारद्वन्द्वप्रकरणं ज्ञेयम् ।
अथात्र अपवादमाह । "न दधि." (३।१।१४५) दधिपयःप्रभृतिर्द्वन्द्व एकार्थो न भवति । दधि च पयश्च दधिपयसी। सर्पिर्मधुनी । मधुसर्पिषी । हरिवासवौ । ब्रह्मप्रजापती, ब्रह्मणो व्यतिरिक्तश्चतुर्दशविधः प्रजापतिः । शिववैश्रवणौ । स्कन्दविशाखौ, विनायकः स्वामी कार्तिकेयश्च । परिजाकौशिकौ; १५ आद्या नदी, द्वितीयः पर्वतः । प्रवापसदौ । आधावसाने । सूर्याचन्द्रमसौ । मित्रावरुणौ । अग्नीषोमौ ।
सोमारुद्रौ । नारदपर्वतो, ऋषी । खण्डामौं, देवताविशेषौ । नरनारायणौ । रामलक्ष्मणौ । भीमार्जुनौ । कम्बलाश्वतरौ । मातापितरौ । पितापुत्रौ । श्रद्धामेधे । शुक्लकृष्णे । इध्माबर्हिषी, पूर्वस्य दीर्घत्वं निपातनात् । ऋक्सामे । वाङानसे । अत्र "ऋगसामय॑जुष०” (७।३।९७) इत्यादिना अकारान्तत्वम् ।
याज्यानुवाक्ये । दीक्षातपसी । श्रद्धातपसी। श्रुततपसी। मेधातपसी । अध्ययनतपसी। उलूखलमुसले । २० अत्रायेषु त्रिषु व्यञ्जनविकल्पे, शुक्लकृष्णे इत्यत्र "विरोधिनामद्रव्याणाम्०" (३।१।१३०) इति विकल्पे,
इध्माबहिषी उलूखलमुसले इत्यत्र "अप्राणिपश्वादेः" (३।१।१३६) इति नित्यमेकत्वे, शेषेषु च "चार्थे द्वन्द्वः सहोक्तौ" (३।१।११७) इत्युभयस्मिन् प्राप्ते प्रतिषेधोऽयम् । चण्डालमृतपादयश्चात्र द्रष्टव्याः । "सायाने" (३।१।१४६) इयत्तापरिच्छेदः सङ्ख्यानम्, वर्चिपदार्थानां सङ्ख्याने गम्ये द्वन्द्व
एव एकार्थों न भवति । यथा दश गोमहिषाः । एतावन्ति दधिघृतानि । बहवः प्लक्षन्यग्रोधाः । २५ दश हस्त्यश्वाः । शतं यूकालिक्षाः । तावन्ति बदरामलकानि । बहवः पाणिपादाः । कति माईङ्गिकपा
णविकाः । उदगुर्दशेमे कठकालापाः । द्वावाश्वमेधौ । द्वादशपदकक्रमकाः । द्वौ गङ्गाशोणौ । पञ्च तक्षायस्काराः । इयन्तो गवाश्वाः ।
। ___ अत्रायं विशेषः-"वान्तिके" (३।१।१४७) वर्तिपदार्थानां सङ्ख्यानस्यान्तिके समीपे गम्यमाने
द्वन्द्व एकार्थो वा भवति । उपगता दश यस्य येषां वा उपदशं गोमहिषम् , उपदशा गोमहिषाः । उप३० दशेभ्यो गोमहिषेभ्यः । द्वन्द्वार्थस्यैकत्वात्तदनुप्रयोगस्यापि बहुव्रीहेरेकवचनान्तत्वम् । यदा तु दशानां समीपमुपदशमित्यव्ययीभावस्तदा उपदशं गोमहिषायेति भवति ॥ ८१ ॥
___अथ द्वन्द्वसमासे समासान्तविधिमाह ।
चवर्गदषहः समाहारे ॥ ८२॥ [सि०७३।९८] ३४ एतदन्तात्समाहारद्वन्द्वादत्स्यात् । वाक्त्वचम् । सम्पद्विपदम् । वाक्त्विषम् । छनोपानहम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org