________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । द्वन्द्वः । समाहारः पश्वादि सूत्रोक्तेभ्यश्च येऽन्ये द्रव्यभूताः पदार्थास्तेषां जातौ वर्तमानानां स्वैर्द्वन्द्व एकार्थो भवति । आरा च शस्त्री च आराशस्ति । जातिविवक्षायामयं विधिर्व्यक्तिविवक्षायां तु यथाप्राप्तम्-आराशस्त्रि आराशख्याविमे ॥ प्राणिपश्वादिवर्जनं किम् ? ब्राह्मणक्षत्रियविशूद्राः ब्राह्मणक्षत्रियविट्शूद्रम् । गोमहिषम् गोमहिषौ । दधिघृते दधिघृतम् । लक्षम्यग्रोधौ २, कुशकाशौ २, व्रीहियवौ २, रुरुपृषतौ २, हंसचक्रवाकौ २, अश्वरथौ २ । अप्राणीति किम् ? प्राणिनो द्रव्यस्य पर्युदासेनाप्राणिनोऽपि५ द्रव्यस्य ग्रहणादिह न भवति-रूपरसगन्धस्पर्शाः । उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि । स्वैरित्येव । बदरशृगालौ । यत्राप्राणीतिवचनात्प्राप्तिस्तत्र पश्वादिसूत्रोक्ता व्यञ्जनादयो ग्राह्याः, न तु पशवस्तत्राप्राणीत्यनेनैव निषेधसिद्धेः । “चरणस्य स्थणोऽतन्यामनुवादे" (३।१।१३८)। शाखाध्ययननिमित्तकव्यपदेशभाजो द्विजन्मानश्चरणाः कठादयः । प्रमाणान्तरप्रतिपन्नस्यार्थस्य शब्देन सङ्कीर्तनमनुवादः। यज्ञकर्मणि 'शंसितानुशंसनमित्येके। अनुकरणमित्यपरे । अद्यतन्यां परभूतायां यौ स्थेणौ तयोः अनुकथने १० कर्तृत्वेन सम्बन्धिनो ये चरणास्तद्वाचिनां शब्दानां स्वैर्द्वन्द्वोऽनुवादविषये एकएकार्थो भवति । प्रत्यष्ठात्कठकालापम् , उदगात्कठकौथुमम् , प्रत्यष्ठान्मौदपैष्पलादम् । एषामुदयप्रतिष्ठे कश्चिदनुवदति । चरणस्येति किम् ? उदगुस्तार्किकवैयाकरणाः । स्थेण इति किम् ? अगमन् कठकालापाः । अद्यतन्यामिति किम् ? अतिष्ठन् कठकालापाः । अनुवाद इति किम् ? उदगुः कठकालापाः-अप्रसिद्धं कथयति । अन्ये तु स्थेणोऽद्यतनीप्रयोगादतु पश्चाद्वादश्चरणद्वन्द्वस्येत्यनुवादस्तत्रेच्छन्ति । तन्मते इह न भवति । कठका-१५ लापाः प्रत्यष्ठः । गौणमुख्ययोरिति न्यायान्मुख्यः कर्ता प्रथमान्तो लभ्यते । तेन भावे प्रत्यष्ठायिकठकालापाभ्यामिति स्थान तु समाहारः । "अक्लीवेऽध्वर्युक्रतो" (३।१।१३९) । अध्वर्यवो यजुर्वेदविदः, तेषां वेदोऽप्यध्वर्युस्तत्र विहिताः क्रतवोऽश्वमेधादयोऽध्वर्युक्रतवः । ससोमको यागः क्रतुः । अध्वर्युऋतुवाचिन शब्दानां स्वैर्द्वन्द्व एकार्थो भवति, अलीबे-क्लीवे चेद्ध्वर्युक्रतुवाची शब्दो न भवति । अर्कश्च अश्वमेधश्च अर्काश्वमेधम् । अर्कादयः पुंल्लिङ्गाः । अक्लीबग्रहणं किम् ? गवामयनादित्यानामयने । २० प्रसज्यप्रतिषेधः किम् ? । राजसूयं च वाजपेयं च राजसूयवाजपेये । इमौ ऋतू पुंल्लिङ्गावपि स्त इति पर्युदासाश्रयणेऽत्रापि स्यात् । अध्वर्युग्रहणं किम् ? इषुवौ उद्भिदलभिदौ । इष्वादयः सामवेदे विहिताः । क्रतुग्रहणं किम् ? दर्शपौर्णमासौ । “निकटपाठस्य" ( ३।१।१४०)। निकटः पाठो येषामध्येतॄणां ते निकटपाठास्तद्वाचिनां द्वन्द्व एकार्थो भवति, स्वैः । पदमधीते पदकः, एवं क्रमकः । पदकश्च क्रमकश्च पदकक्रमकम् । पदानन्तरं क्रमकस्य पाठापाठयोनिकटत्वम् । “नदीदेशपुरा विलि-२५ गानाम्" (३।१।१४२)। विविधलिङ्गानां नदीदेशपुराभिधायिनां स्वैर्द्वन्द्व एकार्थो भवति । उध्यश्च इरावती च उध्येरावति । नदीविशेषो नद इत्यभेदोपचारान्मिथः स्वत्वम् । देश. कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । पुर. मथुरापाटलीपुत्रम् । विलिङ्गानामिति किम् ? गङ्गायमुने मद्रकेकयाः मथुरातक्षशिले । “पाठ्यशद्रस्य" (३।१।१४३) । यैर्भुक्ते पात्रं संस्कारेण भस्मोद्वर्त्तनादिना, "शुद्ध्यति भस्मना कांस्यम् , ताम्रमम्लेन शुद्ध्यति", इत्यादि मन्वादिशास्त्रोक्तेन शुद्ध्यति ते पात्र्याः । पात्र्यशूद्रवाचिनां ३० खैर्द्वन्द्व एकार्थो भवति । तक्षायस्कारम् , रजकतन्तुवायम्, किष्किन्धगन्धिकम् , शक्यवनम् एते चत्वार आर्यावर्ताद्वाया म्लेच्छभेदाः । द्विविधा हि पाव्यशूद्रा आर्यावर्तान्तर्गतास्तद्वाह्याश्च । तदन्तर्गतानां तक्षादीनां तदन्तर्गतैरयस्कारादिभिः स्वत्वम् , तद्बाह्यानां तद्बाबैरिति । पात्र्येति किम् ? जनगम-३३
१शब्दात्प्रमाणादन्यत्प्रत्यक्षादि प्रमाणान्तरं तेन प्रतिपन्नम् । २ शंसितस्य कथितस्यानुशंसनम् । ३ पूर्वकृतस्य पश्चात् , साहश्येन वा, करणं किया। ४ क्लीबे चेदध्वर्युक्रतुवाची न भवतीति यः प्रसज्यप्रतिषेधो वृत्तौ दर्शितः स किमर्थः, प्रसज्यो हि न क्रियया संबध्यते, इतरतु नाम्ना।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org