________________
३१० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुकपाणविकम् । अहिनकुलम् । “गवाश्वादिः” (३।१।१४४) गवाश्चमित्यादि । “न दधिपय आदिः" (३।१।१४५)। दधिपयसी । “सङ्ख्याने" (३।१।१४६) तथा । दश गोमहिषाः॥१॥
"पशु०" एषां स्वैरिति-पशवः प्रतीताः । येनानादे रसो व्यज्यते तद्दधिघृतशाकसूपादि व्यञ्जनम् । पशुत्वेन व्यञ्जनत्वेन मिथः स्वत्वम् । "तरु०" धवेत्यादीनि क्रमेण तरुतृणादीनामुदाहरणानि । ५"सेनां" क्षुद्रजन्तूनामिति-"क्षुद्रो दरिद्रे कृपणे निकृष्टेऽल्पनृशंसयोः" इत्यनेकार्थवचनात् । अल्पपरिमाणा जन्तवः क्षुद्रजन्तवः । तथोक्तम्
"क्षुद्रजन्तुरनस्थि स्यादथवा क्षुद्र एव यः । शतं वा प्रमृतिर्येषां केचिदानकुलादपि” ॥ १॥ "क्षुद्रजन्तुरकङ्कालो, येषां खं नास्ति शोणितम् । नाजलियत्सहस्रेण केचिदानकुलादपि ॥ २ ॥
बहुत्व इति किम् ? अश्वरथौ, यूकालिक्षे । “प्राणितूर्याङ्गाणाम्" इत्यादि । अश्वरथमित्यादीनि १० क्रमेणोदाहरणानि । जातिवैरवतामुदाहरणं तु अहिनकुलमिति । पशुविकल्पः पक्षिविकल्पश्चानेन
बाध्यते । अश्वमहिषम्, काकोलूकम् । अन्ये तु वैर एवाभिधेये समाहारमिच्छन्ति-श्वावराहं वैरमिति । वैरिषु यथाप्राप्तम् । दक्षिणाद्वामगमनं प्रशस्तम् । श्वशृगालयोरिति ( विद्यते लोक औत्पत्तिको (जन्मप्रभवः) विरोधो यथा मार्जारमूषिकयोः)
अत्रेत्यादिकरणाच्च "पुष्यार्थाने पुनर्वसुः” (३।१।१२९)। पुष्यार्थाच्छब्दाढ़े नक्षत्रे वर्तमाना१५ त्परो भ एव वर्तमानः पुनर्वसुशब्दः सहोक्तौ गम्यायां सामर्थ्यात् ब्यर्थः सन्नेकार्थो भवति । उदितौ पुष्यपुनर्वसू । अन्यथा हि पुनर्वसुशब्दस्य व्यर्थत्वाद्बहुवचनं स्यात् । अर्थग्रहणं पर्यायार्थम्-तिष्यपुनर्वसू । समाहारे तु पुष्यपुनर्वसु । एकत्वानेकत्वयोर्विशेषो नास्तीति । भ इति किम् ? पुष्यपुनर्वसवो माणवकाः । “विरोधिनामद्रव्याणां नवा द्वन्द्रः खैः” ( ३।१।१३०) । अद्रव्याणां गुणादीनां विरोधिनां स्वैर्द्वन्द्व एकार्थो वा भवति । सुखदुःखम् सुखदुःखे । विरोधिनामिति किम् ? रूपरसगन्ध२० स्पर्शाः । अद्रव्याणामिति किम् ? सुखदुःखाविमौ ग्रामी, अत्रोपचारात् सुखदुःखशब्दौ द्रव्ये वर्तते ।
द्रव्यं चात्र गुणाश्रयो द्रव्यमिति तार्किकप्रसिद्धं गृह्यते न तु वैयाकरणप्रसिद्धम् इदंतदित्यादिलक्षणम् , तस्मिंस्तु गृह्यमाणे सुखदुःखादीनामपि द्रव्यत्वप्रसङ्गः । छायातपमिति न भवति-तयोर्द्रव्यत्वादिति । स्वैरिति किम् ? बुद्धिसुखदुःखानि । अत्र सुखदुःखे विरोधिनी, बुद्धिस्त्वविरोधिनी । समाहारे चार्थे
एकत्वस्य इतरेतरयोगे चानेकत्वस्य सिद्धत्वाद्विकल्पे सिद्धे, सर्वमिदं विकल्पानुक्रमणं नियमार्थम् । २५ विरोधिनामेवाद्रव्याणामेव खैरेवेति । तथा च प्रत्युदाहरणे इतरेतरयोग एव । “अश्ववडवपूर्वा
पराधरोत्तराः" (३।१।१३१) । एते त्रयो द्वन्द्वा वा एकार्था भवन्ति, स्वैः । अश्वश्च वडवा च अश्ववडवम् अश्ववडवौ । अश्ववडवेति निर्देशादेवेतरेतरयोगे हस्खत्वं निपात्यते । पशुविकल्पेनैव सिद्धे अश्ववडवग्रहणं तत्पर्यायनिवृत्त्यर्थम्-हयवडवेति । स्वैरित्येव-अजाश्ववडवाः । प्राग्वत् (समाहारेतरेतरलक्षणात् न्यायात्) विकल्पे सिद्धे पूर्वापरादिग्रहणं पदान्तरनिवृत्त्यर्थम् , तेन पूर्वपश्चिमौ दक्षिणापरौ ३० इत्यादौ विकल्पो न भवति । “फलस्य जातो" (३।१।१३५)। फलवाचिनां बहुत्वे वर्तमानानां
जातौ विवक्षायां स्वैर्द्वन्द्व एकार्थों भवति । बदराणि चामलकानि च बदरामलकम् । जाताविति किम् ? व्यक्तिपरत्वे मा भूत्-एतानि बदरामलकानि तिष्ठन्ति । बहुत्वे इत्येव-बदरामलके । ३४"अप्राणिपश्वादेः” (३।१।१३६) । बहुत्व इति निवृत्तम्, पूर्वयोगारम्भात् । प्राणिभ्यः
१ एकस्याप्यावृत्त्या उभयस्यापि विशेषणम् । २ अनेकश्च नियमो वाक्यभेदेन समर्थ्यते, सर्वत्रापि च प्रत्युदाहरणं व्यवच्छेद्यम् । ३ फलस्याप्राणित्वेन अनेनैव सिद्धत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org