________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया | द्वन्द्वः । एकशेषः । समाहारः
३०९
1
पुंवत्पुंलिङ्गा चेयं भवति । रूयर्थः पुमर्थो भवतीत्यर्थः तन्मात्रभेदे । गार्गी च गार्ग्यायणश्च गार्यो, गार्गी च गार्ग्यायणौ च गर्गाः । अत्र पुंवद्भावात् ङीनिवृत्तौ यङो लुप् । गर्गानिति "शसोऽता सा नः पुंसि” (१।४।४९) इति नत्वं च । इमौ गार्ग्यावित्यनुप्रयोगस्यापि पुंस्त्वम् । “पुरुषः स्त्रिया” (३।१।१२६) । पुरुषशब्दोऽयं प्राणिनि पुंसि रूढः । त्रीवाचिना सहोक्तौ पुरुषवाची एकः शिष्यते । तन्मात्रभेदे स्त्रीपुरुषमात्रश्चेद्भेदो भवति । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ । गौश्चायं गौश्वेयं इमौ गावौ । तन्मात्र भेद इत्येव - ५ हंसश्च वरटा च हंसवरटे, अत्र प्रकृतिभेदः । इन्द्रेन्द्राण्यौ, अत्र धवलक्षणोऽर्थभेदः, । कलभहस्तिन्यौ अत्र प्रकृत्यर्थयोर्भेदः । अन्ये तु तन्मात्रभेदादधिके प्रकृतिभेदे एवैकशेषं नेच्छन्ति, अर्थभेदे विच्छन्त्येवइन्द्रश्चेन्द्राणी च इन्द्रौ । एवं पूर्वसूत्रेऽपि भागवित्तिश्च भागवित्तिकश्च भागवित्ती । " ग्राम्याशिशुद्विशफसङ्के स्त्री प्रायः " ( ३।१।१२७ ) ग्राम्या अशिशवो ये द्विशफा द्विखुरा अर्थात्पशवस्तेषां सङ्के स्त्रीपुरुषाणां सहोक्तौ प्रायः स्त्रीवाच्येकः शिष्यते । स्त्रीपुरुषमात्रश्चेद्भेद:, । पूर्वेण पुरुषशेषे प्राप्ते स्त्रीशेषार्थ १० वचनम् | गावश्च स्त्रियः गावश्च पुरुषा इमा गावः । ग्राम्येति किम् ? आरण्यानां मा भूत् । रुरवश्चेमे रुरवश्चेमाः इमे रुरवः । अशिशुग्रहणं किम् ? वत्साचेमे वत्साश्चेमा इमे वत्साः । द्विशफेति किम् ? वश्वमा इमेऽश्वाः । सङ्घग्रहणं किम् ? गौश्चायं गौधेयं इमौ गावौ । प्राय इति किम् ? उ उष्ट्रच उष्ट्राः, छागाश्च छाग्यश्च छागाः, व्यावृत्तौ सर्वत्र पूर्वेण पुरुषशेष एव भवति । तन्मात्रभेद इत्येव—गोबलीवर्दम् । "क्लीबमन्येनैकं च वा" ( ३|१|१२८ ) क्लीबं नपुंसकं नामान्येना - १५ क्लीबेन सहोक्तावेकं शिष्यते । तन्मात्रभेदे - क्लीबाक्लीनमात्र एव चेद्भेदो भवति । तच शिष्यमाणमेकमेकार्थ वा । अर्थस्यैकत्वे तद्विशेषणानामपि तथा भावः । शुकुं च वस्त्रं शुक्लश्च कम्बलः तदिदं शुकं ते इमे शुवा । शुकुं च वस्त्रं शुक्लश्व कम्बलः शुला च शाटी तदिदं शुक्रं तानीमानि शुक्लानि वा । कीवग्रहणं किम् ? स्त्रीपुंसयोरपि शेषः स्यात् - डीबग्रहणमन्तरेण यथा क्लीबस्याक्लीबेन सहोकावेकशेषस्तथा स्त्रीपुंसयोरपि स्त्रीपुंसाभ्यां सह वचने स्यात् । अन्येनेति किम् ? शुकुं च शुकुं च शुके । " स्यादावसङ्ख्येयः " २० ( ३ | १ | ११९ ) इत्येकशेषः । अनेन त्वेकशेषे विकल्पेनैकार्थत्वं प्रसज्येत । तन्मात्रभेद इत्येव । हिमं च हिमानी हिमान्यौ | अत्रार्थभेदोऽस्ति इति नैकशेषः । इत्येकशेषप्रकरणम् ॥ ७९ ॥ ८० ॥ अथ समाहारद्वन्द्वप्रकरणं सङ्क्षेपेण दर्शयतिपशुव्यञ्जनानाम् ॥ ८१ ॥ [ सि० ३|१|१३२ ]
1
एषां खैर्द्वन्द्व एकार्थो वा स्यात् । गोमहिषम् । गोमहिषौ । दधिघृतम् दधिघृते । "तरुतृण- २५ धान्यमृगपक्षिणां बहुत्वे" ( ३|१|१३३ ) । वैकार्थता । धवन्यग्रोधम्, धवन्यग्रोधाः । कुशकाशम्, कुशकाशाः । तिलमाषम् २ । शशैणम् २ | हंसशुकम् २ | "सेनाङ्गक्षुद्रजन्तूनाम्” ( ३|१|१३४ ) बहुत्वे नित्यमेकार्थता । अश्वरथम् । यूकालिक्षम् । “प्राणितूर्याङ्गाणाम्” (३|१|१३७) जातिवैरवतां “नित्यवैरस्य” (३।१।१४१) इत्यनेन च तथा । हस्तपादम् । मार्दङ्गि- २९ नापि युववाचिनो नपुंसकत्वं वाच्यम्, आपत्यतद्धितस्य स्त्रीपुंस्त्वस्यैवोकत्वात्, ततः पुंस्त्वस्य सिद्धत्वात् पुंवद्रहणमतिरिच्यते । न । स्त्रीपुन्नपुंसकानामित्यस्य प्रायस्त्यदादिविषय एव प्रवर्त्तनात्तेन प्रायिकत्वात् नियमार्थं वचनम् । किश्च अरुणाचार्येण अपत्यप्रत्ययान्तानामाश्रयलिङ्गत्वमुक्तम्, ततश्च गार्गी च गार्ग्ययणं चेत्यपि कृते तन्मतेऽपि पुंस्त्वं यथा स्यात् ।
१ स्त्रीलक्षणोऽर्थो यस्य शब्दस्य स पुमर्थः, यद्वा शब्दस्येति वृत्तावध्याहर्त्तव्यम् । तस्य सम्बन्धी स्त्रीलक्षणोऽर्थः पुमर्थः । अर्थग्रहणाच विशेषणानामपि पुंस्त्वं सिद्धम् । शब्दस्यैव पुंस्त्वे विशेषणानां न स्यात् । गार्ग्यावित्यत्र पुंवद्भावेनानुप्रयोगे विशेषः । शोभनौ गाग्यौ । २ अत्र वृद्धो यूनेति नानुवर्त्तते अघटनात्, तदनुवृत्तौ हि वृद्धः पुरुषो यूना युवसंज्ञया स्त्रियेति स्यात्, न चैतदस्ति, अनीति वचनात् स्त्रिया युवसंज्ञाया अभावात् इति सामान्येनाह--- स्त्रीवाचिनेत्यादि ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org