________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु"मातर०"" ०"पक्षे इति-एकशेषविकल्पे द्वन्द्वप्राप्तौ वैकल्पिक सूत्रद्वयं सुगमम् । पितरौ, मातापितरो, मातरपितरौ, इति रूपत्रयम् ॥ "पुत्रे" । अस्य सूत्रस्यायं भाव:-पुत्रशब्दे उत्तरपदे परे द्वन्द्वे विद्यायोनिसम्बन्धे सति प्रवर्त्तमानानामृकारान्तानामाकारोऽन्तादेशो भवति ।
अत्रं प्रसङ्गाहन्द्वे पूर्वपदस्यात्वादिकं सङ्केपेण दर्शयति५ देवताद्वन्द्वे पूर्वपदस्सात्वादिकं वक्तव्यम् । सूर्याचन्द्रमसौ । *अग्नीषोमौ ।
देवताद्वन्द्वे इत्यादि-अत्रैवं सूत्रपद्धतिः-"वेदसहश्रुताऽवायुदेवतानाम्" (३।२।४१)। वेदे सहश्रुतानां वायुवर्जदेवतानां द्वन्द्वे पूर्वपदस्यात्वं स्यात् । सूर्याचन्द्रमसाविति-एवं इन्द्रासोमौ, इन्द्रावरुणौ, इन्द्रापूषणौ, इन्द्राबृहस्पती, शुनासीरौ, अनामारुतौ, अग्नेन्द्रौ, अनाविष्णू, सोमारुद्रौ, मित्रा
वरुणौ । सहेति किम् ? विष्णुशको । श्रुतेति किम् ? चन्द्रसूर्यों एतौ वेदे शब्दान्तरेण विद्येते चन्द्रसूर्य१० इत्यादिशब्दैस्तु न श्रुतौ । वायुवर्जनं किम् ? अभिवायू वाय्वनी ॥ अग्नीषोमौ इति-"ई: षोमवरु
णेऽग्ने" (३।२।४२) । षोमेति निर्देशादीकारसन्नियोगे षत्वं निपात्यते । एवं अग्नीवरुणौ । "इद्धिमत्य विष्णो " (३।२।४३) । विष्णुवर्जिते वृद्धिमत्युत्तरपदे देवताद्वन्द्वेऽनिरिकारोऽन्तादेशो भवति । ईकाराकारयोरपवादः । अग्नीषोमो देवतास्य अनिषौमं कर्म । "देवतानामात्वादी (७४।२८)।
देवतार्थानां शब्दानामात्वादौ विषये मिणति तद्धिते परे पूर्वोत्तरपदयोरादिवरवृद्धिः स्यात् । “वेदसह१५श्रुताऽवायुदेवतानाम्" (३।२।४१) इत्यत आरभ्य "उषासोषसः” (३।२।४६) इति यावदात्वादयः इत्युभयपदवृद्धिः । वृद्धिमतीति किम् ? अग्नीवरुणौ-"आतो नेन्द्रवरुणस्य” (७।४।२९)। आकारान्तात्पूर्वपदात्परस्य इन्द्रशब्दस्य वरुणशब्दस्य चोत्तरपदस्य स्वरेष्वादेः स्वरस्य वृद्धिर्न भवति । इति वृद्धिनिषेधादयं वरुणशब्दो वृद्धिमान भवति । *अविष्णाविति किम् ? अग्नाविष्णू देवताऽस्य अग्ना
वैष्णवं चरुं निर्वपेत । "दिवो द्यावा" (३।२।४४) । यौश्च भूमिश्च द्यावाभूमी, चावाक्षमे, २० चावाक्ष्मे । द्यावानक्ते-नक्तशब्दोऽकारान्तोऽप्यस्त्यनव्ययम् । “दिवस दिवः पृथिव्यां वा" ( ३।२।४५)। दिवशब्दस्य पृथिव्यामुत्तरपदे दिवस् दिवः इत्येतावादेशौ वा भवतः । दिवस्पृथिव्यौ, द्यावापृथिव्यौ दिवःपृथिव्यौ । दिव इति विसर्गान्तस्य निर्देशादिवसिति सकारस्य रुत्वं न भवति । "उषासोषसः” (३।२।४६) । देवताद्वन्द्वे उत्तरपदे परे उपसूशब्दस्य उषासा इत्ययमादेशो
भवति । उषश्च सूर्यश्च उपासासूर्यम् । उपासानक्तम् । उपासानक्ते । केचित्तु सूर्यशब्दस्यापीच्छन्ति२५ सूर्यश्च सोमश्च उषासासोमौ । प्रभातवाचक उषस्शब्दो द्विस्वरसन्तत्वान्नपुंसकलिङ्गः, सन्ध्यावाचकस्तु "अलाबु जम्बूडुरुषः” इति वचनात् स्त्रीलीबलिङ्गः ।
अथात्रैकशेषप्रकरणे उक्तशेषोऽयम् "वृद्धो यूना तन्मात्रभेदे" (३।१।१२४) । वृद्धः पौत्रादिरपत्यम् , युवा जीवद्वंश्यादिः । यूना सहोक्तौ वृद्धवाच्येकः शिष्यते, तन्मात्र एव चेद्वेदो विशेषो भवति (न चेत्प्रकृतिभेदोऽर्थभेदो वान्यो ३० भवतीत्यर्थः) । गाय॑श्च गाायणश्च गाग्यौँ । तन्मात्रभेद इति किम् ? गार्यवात्स्यायनौ, अत्र प्रकृति
रन्या। भागवित्तिभागवित्तिको *"भागवित्तितार्णबिन्दवाऽकशापेयान्निन्दायामिकण् वा” (६।१।१०५) __ सौवीरेषु वृद्ध वर्तमानेभ्य एभ्यो यून्यपत्ये इकण् वा स्यात् । निन्दायां गम्यायाम् । अत्र कुत्सा सौवीर३३ देशत्वं चान्योऽर्थः । "स्त्री पुंवच" (३।१।१२५)। वृद्धस्त्रीवाची युववाचिना सहोक्तौ एकः शिष्यते ।
१ नन्वत्र पुंवद्रहणं किमर्थम् , स्त्रीत्येवोच्यतां ततश्च स्त्रीवाचिनो युववाचिना पुंसा एकशेषे स्त्रीपुनपुंसकानामित्येव पुंस्वं भविष्यति । नच वाच्यं युववाचिनो यदा स्त्रीलं तदा कि भविष्यतीति । अयुवेतिभणनात् स्त्रीवाचिनो युवलसंज्ञाया अभावात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org