________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशै समासपक्रिया । द्वन्द्वः "त्यदा०" । मिथ इति-त्यदादीनां मिथः सहोक्तौ तु यद्यत्साठे परं तत्तदेवैकं शिष्यते । स च यश्च यौ इति । एवं यश्च एषश्च एतौ । स च त्वं च युवाम् । त्वं च भवांश्च भवन्तौ । अहं च कश्च को । अहं च स च त्वं च वयम् । बहुलाधिकारात् कचित्पूर्वमपि शिष्यते । स च यश्च तौ। अयं च एष च इमौ । त्वं च भवांश्च युवाम् । त्यैदादेः कृतैकशेषस्य स्त्रीपुनपुंसकलिङ्गानां युगपत्प्रयोगायोगात्पर्यायप्राप्तौ शिष्यमाणलिङ्गप्राप्तौ वा स्त्रीपुन्नपुंसकलिङ्गानां 'सहवचने स्यात्पर'मिति यथापरमेव लिङ्गं ५ भवति । सा घ चैत्रश्च तौ । स च देवदत्ता च तौ-अत्र श्रीपुंसलिङ्गयोः परं पुंल्लिङ्गमेव भवति । सा च कुण्डे च तानि-अत्र स्त्रीनपुंसकयोः परं नपुंसकमेव भवति । स च कुण्डं च ते । तच्च चैत्रश्च ते अत्र पुन्नपुंसकयोः परं नपुंसकमेव भवति । कथं स च कुकुटः सा च मयूरी ते कुक्कुटमयूर्यो ? उच्यते-"परलिङ्गो द्वन्द्वोऽशीति" समासार्थस्य लिङ्गातिदेशात्तविशेषणस्य त्यदादेरपि तल्लिङ्गतैव न्याय्येति ॥ ७७॥
भ्रातृपुत्राः वसूदुहितृभिः ॥ ७८॥ [सि० ३।१।१२१ ] खस्रादिभिः सहोक्तौ भ्रात्रादिः शिष्यते । भ्राता च वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ । "श्वशुरः श्वश्रूभ्यां वा" (३३१११२३)। शिष्यते । श्वशुरौ श्वश्रूश्वशुरौ । “पिता मात्रा वा" (३।१।१२२)। तथा । पितरौ ॥ ७८॥ पक्षे__ "भ्रातृ"। बहुवचनं पर्यायार्थम् । सोदर्यश्च वसा च सोदौँ । भ्राता च भगिनी च भ्रातरौ । १५ सुतश्च दुहिता च सुतौ । भ्राता च भ्राता च भ्रातरौ, भ्राता च वसा च भ्रातरावित्युभयप्रतिपत्तावपि प्रकरणादिना विशेषावगतिः । "श्वशु०" (३।१।१२३)। श्वश्रूभ्यामिति द्विवचनं जातौ धवयोगे च वर्तमानयोः श्वश्वोः परिग्रहार्थम् । तेन जातौ तन्मात्रभेदे "पुरुषः स्त्रिया" (३।१।१२६) इति नित्यविधिन भवति । "पिता." । तथेति । मातृशब्देन सहोक्तौ पितृशब्द एकः शिष्यते मातुरय॑त्वात् पूर्वनिपातः ॥ ७८ ॥
- मातरपितरं वा ॥ ७९ ॥ [सि० ३।२।४७] मातृपित्रोर्द्वन्द्वे ऋतोऽरो वा निपात्यः । मातरपितरौ ॥ ७९ ॥ पक्षे
आ द्वन्द्वे ॥ ८० ॥ [सि० ३।२।३९] ऋता द्वन्द्वे विद्यायोनिसम्बन्धे पूर्वपदस्य आः स्यात् । होतापोतारौ । मातापितरौ । “पुत्रे" (३।२।४०)। पितापुत्रौ मातापुत्री होतापुत्रौ ॥ ८०॥
२०
१ न केवलं तावत् स्पर्द्ध यत्परं तच्छिश्यत इति क्वचिच्च पूर्वमपीत्यर्थः । २ शिष्यमाणस्य लिङ्गानुशासने लिङ्गस्य चिन्तायां कृतायामपि विस्मरणशीलं प्रति स्मारयितुमाह-त्यदादेः कृतैकशेषस्येत्यादि । ३ यदि लिङ्गानां सहविवक्षायां परमेव लिङ्गं भवति कथं ते कुक्कुटमयूयौँ इति स्त्रीलिङ्गतेत्याशङ्कार्थः।-उच्यत इत्यादिनात्र परिहारमाह-अयमों द्वन्द्वस्य परलिङ्गखात् त्यदादेश्चात्र द्वन्द्वशेषत्वात् द्वन्द्वलिङ्गतैव द्रष्टव्या, द्वन्द्वाभावे तु सहोकौ तौ कुक्कुटो मयूरीति चार्थे गम्ये तो कुकुटो मयूरी चेत्येकयोगे तो कुक्कुटश्च मयूरी चेति चकारद्वययोगे च भवति स्त्रीपुनपुंसकानामिति वचनात् । ४ तचार्द्ध पिपल्या इति अर्धकथनम् , तत् पिपल्यर्द्ध सा च अर्धपिप्पलीत्यपि कृते (समानामर्थे )-इति क्लीबे स्त्रियां च न विशिष्यते दिगम्बरसमाधिवत्, ततश्च खाद्यौ अर्धपिप्पल्यौ खादुनी पिप्पल्य? इति युक्त उदाहरणे पिप्पल्यर्द्धस्य अर्धपिप्पल्याश्च शेषत्वाभावे तद्विशेषणानामेकशेषे तु नपुंसकलिङ्गतैव स्त्रीनपुंसकानां सहेति भणनात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org