________________
महामहोपाध्यायश्रीविनय विजयगणिविरचिते खोपज्ञहैमलघु
“समा” । एकः शिष्यते इति तत्र विशेषानुपादानात्पर्यायेण शेषो भवति । समानामिति बहुवचनमतन्त्रम्, तेन बहूनां द्वयोरपि चैकः शिष्यते । सितश्च शुक्रुश्च श्वेतश्च सिताः शुक्काः श्वेता वा । इहैकशेषे षट्पक्षाः सम्भवन्ति, तत्र प्रत्येकमेव विभक्तौ परतो विभक्तिपरित्यागेन नामैकशेषः स्यात् १ । अथवा सविभक्तिकानां वृक्षस् वृक्षस् वृक्षस् इति स्थिते एकस्य वृक्षस् इत्यस्य शेषः अन्ये निवर्त्तन्ते ५२ । अथ वृक्षश्च ३ इति द्वन्द्वे कृते सत्येकस्य वृक्ष इत्यस्य शेष: ( अपरे निवर्त्तन्ते ) ३ | अथवा विभक्तिमनुत्पाद्यैव नाममात्रेण वृक्ष वृक्षेत्येवंविधानामेव शेषः कार्यः । ततो विभक्तिः ४ । अथवा सहोत्तौ वृक्षश्व वृक्षश्चेति द्वन्द्वे प्राप्ते एकशेषः ५ । अथवा नामसमुदायस्यैवार्थवत्त्वान्नामसंज्ञायां द्विवचनाद्युत्पत्तौ एकशेषः ६ । इति षट् पक्षाः ॥ तत्राद्यं पक्षत्रयं सावद्यकमिति तत्परिहारेणेतरत्पक्षत्रयमिहाश्रीयते । (यथा हि ) तत्र प्रथमे पक्षे, नामैकशेषेऽनेकविभक्तिश्रवणं स्यादिति दोषः । द्वितीये, विभक्त्य१० न्तस्य लोपे कृते विभक्तभ्रातृधनन्यायेन शिष्यमाणस्य निवर्त्तमानपदसङ्ख्यासम्बन्धेऽपि विभक्त्यन्तत्वाद्विवचनबहुवचनानुपपत्तिः स्यात्ततश्च वृक्ष इति नित्यमेव स्यादिति दोषः । तृतीये तु समासान्तदोषः, तथाहि-ऋक् च ऋक् 'चेति द्वन्द्वे तत एकशेषे "चवर्गदषहः ०१ ( ७।३।९८ ) इति समासान्तः स्यादिति प्रथमपक्षत्रयं दुष्टम् ।। इतरपक्षत्रये तु न कश्चिद्दोषस्तथाहि - वृक्ष वृक्ष इति स्थितानां नाम्नां विभक्तिमनुत्पाद्यैवैकशेषप्रवृत्तिरिति प्रथमः पक्षः । तुल्यकालं नामानि यदा 'विवधवैवधिकन्यायेन परस्परशक्त्यनु१५ प्रवेशादभिवेयमाहुस्तदा द्वन्द्वैकशेषाविष्टाविति द्विवचनं बहुवचनं चोपपन्नमिति द्वितीयः । नामसमुदायस्यैवार्थबन्त्वान्नामत्वाद्विभक्त्युत्पत्तिरिति तृतीयः ॥ एवं पक्षत्रयेऽपि प्राप्तो द्वन्द्वोऽनेनापोद्यते इति द्वन्द्वापवादो ऽयं योगः ॥ ७५ ॥
स्यादावसङ्घयेयः ॥ ७६ ॥ [ सि० ३।१।११९]
सर्वस्यादिषु तुल्यरूपाणां भिन्नार्थानामप्येकशेषः स्यात्, सङ्ख्येयवाचिशब्दं वर्जयित्वा । २० अक्षश्च अक्षश्च अक्षश्च अक्षाः । शकटाङ्गपाशकबिभीतकाः ॥ ७६ ॥
३०६
“स्यादा०” । सर्वस्यादिषु तुल्यरूपाणामिति - माता च जननी, माता च धान्यस्य, मातृमातरौ । अत्र ह्येकस्य मातरावन्यस्य मातारावित्यौकारे रूपं भिद्यते इति नैकशेषः । अन्ये तु यस्मिन् स्यादौ ये शब्दास्तुल्यरूपा भवन्ति तस्मिन् स्यादौ तेषां स्याद्यन्तरे विरूपाणामप्येकशेषो भवति, तेन मातृभ्यां मातृभिः मातृभ्यः मात्रोः मातृषु इत्याद्यपि भवतीत्याहुः । अपरे त्वत्रापि बहुवचने ताभिस्तैरित्याद्यनुप्रयोगवैषम्यान्न २५ भवितव्यमेकशेषेण, द्विवचनेन तु ताभ्यां तयोरित्यनुप्रयोगसाम्याद्भवितव्यमेवेत्याहुः । सङ्ख्येयवाचिशब्द वर्जयित्वेति - एकच एकश्च द्वौ च द्वौ च, इत्यादौ द्वन्द्वोऽपि न स्यादनभिधानात् । सङ्ख्येयेति कर्मनिदेशात्सङ्ख्यावाचिनो भवत्येव । विंशतिश्च विंशतिश्व विंशती । द्वन्द्वापवादोऽयं विधिस्तेनाकृतद्वन्द्वानामेवैकशेषे वाक् च, वाक् च, वाचौ इत्यादि सिद्धमन्यथा द्वन्द्वे कृते परत्वात्समासान्ते कृते वैरूप्यादे - कशेषो न स्यात् ॥ ७६ ॥
३०
त्यदादिः ॥ ७७ ॥ [ सि० ३|१|१२० ]
अन्येन सहोक्तौ त्यदादिः शिष्यते । मिथः सहोक्तौ तु यथापरम् । स च चैत्रश्च तौ । सच ३२ यश्च यौ ॥ ७७ ॥
१ भारोयन्तृन्यायेन इति मुद्रितलन्यासे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org