________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । द्वन्द्वः
३०५ समुदायरूपो हि द्वन्द्वार्थः प्रत्यवयवमवयविवत्प्रतिसक्रान्तो यथा वनविटपिषु वनमिति । नन्वेवं लौकिकात्प्रयोगाच्छब्दानामर्थावधारणं तत्र यथा घटशब्दः पटायं न प्रत्यायति, तथा प्लक्षन्यग्रोधशब्दो परस्परार्थप्रत्यायको न युक्तौ । नैवम् । वृत्तिविषये कैकस्य द्वावर्थाविति स्वार्थावेवेती, लोकप्रसिद्ध्या त्वर्थान्तराभिधायित्वमुच्यते । ननु परस्परसन्निधानेन यहयो सामर्थ्यमभिहितं तदन्यतरविगमेऽपि न हीयते । वहिविगमेऽपि वह्निसम्पादितपाकजरूपादिवदिति प्लक्षेणोक्तत्वान्नयग्रोधस्याप्रयोगः प्रानोति ।५ नैवम् । न्यग्रोधार्थस्य पक्षणानुक्तत्वान्न्यग्रोधशब्दप्रयोगः । उक्तं घेतत्-द्वन्द्वावयवानामेवानेकार्थाभिधायित्वं न केवलानां यथा वह्निसन्निधावेव तानं द्रवरूपं भवति, न तु तन्निवृत्तावेवमिहापि सहभूतावेवान्योन्यार्थमाहतुर्नतु पृथग्भूतौ भारोद्वाहकवत्सहभूतानां परस्परशक्त्याविर्भावादिति, ततश्च प्लक्षस्य न्यग्रोधस्य चानेकार्थत्वे यद्यपि बहुत्वं प्राप्तम् , तथापि इन्द्रावयवत्वेन बासमतो गौणं न तु मुख्यमिति न बहुवचनमिति । नन्वस्तु यथाकथश्चित्सहोक्तिः, समाहारे तु सा न सम्भवति, तस्यैकत्वात्सहो-१० तेश्च भेदनिबन्धनत्वादित्यत्रोच्यते-समाहारो हि सङ्घातः । स च संहन्यमानानां धर्मः, संहन्यमानाश्च सहोच्यमाना एव न पृथगुच्यमाना इति तत्रापि सहोक्तिसम्भव इत्यदोषः । उत्तरपदेन समुदायेन वा यद्वतिपदार्थानां युगपदभिधानं सा सहोक्तिरित्यन्ये । वर्तिपदार्थानामेव सह क्रियादिसम्बन्धस्य यद्वाक्येनाभिधानं सा सहोक्तिरित्यपरे । चार्था इति चकारद्योत्या अर्था इत्यर्थः । तत्रैकस्मिन्नित्यादि अयमर्थः-अर्थः क्रियाकारकद्रव्यरूपः, एकमर्थं प्रति व्यादीनां क्रियाकारकद्रव्यगुणानां तुल्यबलानाम-१५ विरोधिनामनियतक्रमयोगपद्यानामात्मरूपभेदेन चीयमानता समुच्चयः । शीतोष्णादीनां च विरोधितया, बाल्ययौवनादीनां नियतक्रमतया, रूपरसादीनां नियतयोगपद्यतया च न चीयमानताऽतो गौणमुख्यभावेनातुल्यबलानामपि न तथेति । ततश्चैकस्मिन् कारके अनेकक्रियाणाम् १ एकस्यां क्रियायामनेककारकाणां २ एकस्मिन् द्रव्येऽनेककारकाणां ३ एकस्मिन् कारकेऽनेकद्रव्याणां ४ एकस्मिन् धर्मिण्यनेकधर्माणां ढौकनं समुच्चय ५ इति । यथाक्रममेषामुदाहरणानि-चैत्रः पचति पठति च १ चैत्रो मैत्रश्च पचति २० २ । राज्ञो गौश्चाश्वश्च ३ । राज्ञो ब्राह्मणस्य च गौः ४ । शुक्लश्चायं कृष्णश्च, नीलं च तदुत्पलं चेति ५ । चशब्दमन्तरेणापि समुच्चयः सम्भवति यथा, "अहरहर्नयमानो गामश्वं पुरुषं पशुम् । वैवस्वतो न तृप्यति सुराया इव दुर्मदी ॥१॥" गुणमुख्यभावेनेति-अयमत्रार्थ:-गुणप्रधानभावमात्रविशिष्टः समुञ्चय एवान्वाचयः यथा “रुधां स्वराच्छ्नो न लुक् च" (३।४।८२) इति-अत्र विधीयमानं भं नलोपोऽपेक्षते । यत्र भस्तत्र नलोपो यथा 'भोंप आमदने' भनक्ति । अस्तु नलोपं नापेक्षते तदभावेऽपि प्रवर्तते २५ यथा युनक्तीति । बटो भिक्षामटेत्यादि-स हि भिक्षां तावदटति यदि च गां पश्यति तदा तामप्यानयति । ततो भिक्षाटनस्य मुख्यत्वं गवानयनस्य च गौणत्वमिति । द्विवचने बहुवचने इति-नन्वेकविंशतिरित्यादिसङ्ख्याद्वन्द्वो यद्यवयवप्रधानस्तदैकविंशतिरिति द्विवचनम्, द्वाविंशतिरिति बहुवचनं प्राप्नोति यदि च समुदायप्रधानस्तदा नपुंसकत्वं स्यादित्यत्रोच्यते । एकविंशतिर्द्वाविंशतिरित्यादि सङ्ख्याद्वन्द्वः समुदायसङ्ख्यैकत्वानुरोधेन विंशत्यादिवत्सङ्ख्येयमाचष्टे इतीतरेतरयोगेऽप्येकवचनान्तो भवति । समा-३० हारेऽपि च "आशताहन्द्वे" इति लक्षणात्स्त्रीलिङ्गो भवति । सङ्ख्याद्वन्द्वादन्यत्र तु एको देवदत्ताय दीयतां विंशतिश्चैत्रायेति एकविंशती अनयोर्देहि । एवं त्रिंशश्चत्वारिंशतौ षष्ठीसप्तत्यशीतयः इत्यादौ द्विवचनबहुवचनान्तता ॥ ७४ ॥
समानामर्थेनैकः शेषः ॥ ७५॥[सि० २१।११८] तुल्यार्थानां द्वन्द्व एकः शिष्यतेऽन्ये निवर्तन्ते । वक्रश्च कुटिलश्च वक्रौ, कुटिलौ वा ॥७५ ॥३५
है• प्रका• पूर्वा० ३९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org