________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहमलधुइखत्वे द्विखारि । केचिदत्र पुंस्त्वमपीच्छन्ति, तन्मते "गोश्चान्ते.” (२।४।९६) इत्यादिना ह्रखत्वे द्विखारिः । स्त्रीत्वमप्यन्ये तन्मते पूर्ववत् इखत्वे "इतोऽत्यर्थात्" (२।४।३२) इति ब्यां द्विखारी । एवं पञ्चसारम् पञ्चखारी । तद्धितविषये उत्तरपदे च परे द्विगुसंज्ञायां द्वाभ्यामञ्जलिभ्यामागतं व्यञ्जलमयम् व्यअलिमयम् । द्वावञ्जली प्रियो यस्य व्यञ्जलप्रियः व्यञ्जलिप्रियः । पञ्चखाररूप्यम् पश्चखारी५रूप्यम् । पञ्चखारधनः पश्चखारीधनः । इत्यादि सर्वमित्यादिशब्देन सदृहीतं ज्ञेयम् ॥ ७३ ॥
___ *इति द्विगुः ।
अथ द्वन्द्वसमासमाह । चार्थे इन्द्रः सहोकौ ॥ ७४ ॥ [सि० ३।१।११७] नाम नाना सह चार्थे समस्यते, सहोक्तिविषये सति, स समासो द्वन्द्वः स्यात् । समुच्चया१०न्वाचयेतरेतरयोगसमाहाराश्चार्थाः । तत्रैकसिन् यादीनां क्रियाकारकद्रव्यगुणानां तुल्यकक्षतया ढौकनं समुच्चय:-चैत्र: पचति पठति चेति । गुणमुख्यभावेनैकसिन् यादीनां क्रियादीनां ढौकनमन्वाचयः-बटो भिक्षामट गां चानय इत्येतयोः सहोत्यभावान समासः । परस्परसापेक्षाणां द्रव्याणां क्रियां प्रति दौकनमितरेतरयोगसमाहारौ । तत्रोद्भूतावयवमेद इतरेतरयोगोऽत एवा
त्रावयवद्वित्वबहुत्वापेक्षया द्विवचनबहुवचने । चैत्रश्च मैत्रश्च चैत्रमैत्रौ पश्यतः । चैत्रमैत्रदत्ताः १५पश्यन्ति । न्यग्भूतावयवमेदस्तु समाहारोऽतस्तत्रैकवचनमेव । धवखदिरपलाशम् ॥ ७४॥
चार्थे० । नाम नान्नेत्यनुवर्तमानेऽपि “लध्वक्षरा.” (३।१।१६०) इत्यादि सूत्रे एकग्रहणादहूनामपि द्वन्द्वो भवति । तख्यनेकस्य पूर्वनिपातप्रसक्तावेकस्य पूर्वनिपातनियमार्थम् , द्वयोश्च द्वन्द्वेऽनेकस्य पूर्वनिपातप्रसङ्गाभावादेकग्रहणमनर्थकं स्यादिति । ततो बहूनां द्वन्द्वे होतृपोतनेष्टोद्गातारः । द्वयोर्द्वयोर्द्वन्द्वे हि होता पोता नेष्टोद्गातार इत्येव स्यात् । चार्थ इति किम् ? प्रामो प्रामो रमणीयः अत्र वीप्सायां २० सहोक्तिसावेऽपि चार्थाभावान्द्वाभावः । सहोक्ताविति किम् ? पक्षश्च न्यग्रोधश्च वीक्ष्यताम्-अत्र
प्रत्येक क्रियया सम्बन्ध इति सहोक्क्यभावः। खञ्जश्चासौ कुण्टश्चेत्यादि कर्मधारयविषयेऽपि न सहोक्तिः। विशेष्यस्यैव प्राधान्यात् ; सहोक्तिस्तु द्वयोचर्मयोर्द्धर्मिणोर्वा भिन्नयोः प्राधान्ये सति सम्भवतीति । का पुनरियं सहोक्तिः ? यवर्तिपदैः प्रत्येकं तदर्थानां (पदार्थानां ) युगपदभिधानं सा सहोक्तिः । लक्षन्य
ग्रोधावित्यत्र हि प्लक्षोऽपि व्यर्थो न्यग्रोधोऽपि व्यर्थः । प्लक्षश्च न्यग्रोधश्चेति वाक्येऽपि चकारेणायमेवार्थः २५ कथ्यते । ननु प्लक्षन्यग्रोधावितिशब्दक्रमात् क्रमवदर्थानुगमाभैकेनानेकस्याभिधानं सम्भवतीति चेत् ? न । एवं हि द्विवचनबहुवचनानुपपत्तिः । यतः प्लक्षशब्दः सार्थको निवृत्तोऽन्यो न्यग्रोधशब्द उपस्थितसत्र न्यग्रोधार्थप्रतिपत्तिकाले यदि लक्षार्थावगतिर्न स्यार्त्तदा न्यग्रोधशब्दादेकार्थत्वादेकवचनं स्यादेव, शशकुशपलाशा इत्यादिबहुवचनेऽपि । ततश्च द्विवचनान्यथानुपपत्त्या प्लक्षन्यग्रोधावित्यादावेकैकोऽनेका
भिधायीत्यभ्युपगन्तव्यम् । नन्वेवं तर्हि कथं प्लक्षश्च न्यग्रोधश्चेत्येकवचनान्तयोर्वाक्यं वृत्तौ प्रदर्शितम् , ३० द्विवचनान्तयोाय्यम् । सत्यम् । लौकिकमेतद्वाक्यम् , न प्रक्रियावाक्यम् । यदा तु परस्परशक्त्यनुप्रवेशेन द्वन्द्वो भविष्यतीत्यभिधित्सयातिवाहिकशरीरस्थानीयं वाक्यं क्रियते, तदा खल्वलौकिकं समीपगतपदान्तरवस्तुखचितं द्विवचनान्तयोर्वाक्यं क्रियते ॥ यद्वाष्यम्, सति प्रदर्शयितव्ये वरमेव वाक्यं धवौ च खदिरौ चेति । अलौकिकत्वाच वृत्तौ न प्रदर्शितम् । न चैवं प्लक्षन्यग्रोधयोकिद्वयकल्पनेनानेकार्थत्वाद्बहुवचनं प्राप्नोतीति वाच्यम् । यतो नात्र चत्वारोऽर्थाः । किं तर्हि ? द्वावेवार्थों यकाभ्यामे३५ वात्रैकः शब्दो व्यर्थस्ताभ्यामपरोऽपि । नहि द्वाभ्यां लक्षाभ्यामविभक्तको भ्रातरौ चतुर्लक्षौ भवतः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org