________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे समासप्रक्रिया । द्विगुः
३०३ चेत्यादि विग्रहे ऐडविडवृन्दारिका । पार्थवृन्दारिका, दारदवृन्दारिका, औशिजवृन्दारकेति भवति । परता स्त्रीत्वे च खट्वान्दारिका । अनूडित्येव-ब्रह्मबन्धूवृन्दारिका ॥ ७० ॥
( इति कर्मधारयः।
अथ द्विगुसमासमाह। सङ्ख्या समाहारे च द्विगुश्चानाम्न्ययम् ॥ ७१॥ [सि० ३३१४९९] ५ सङ्ख्यावाचि परेण नाम्ना समस्यते, संज्ञातद्धितयोर्विषये उत्तरपदे च परे समाहारार्थे च, स समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च स्यात् । अयमेव चासंज्ञायां द्विगुसंज्ञश्च भवति । सप्तर्षयः । द्वैमातुरः । पञ्चगवधनः। संज्ञादिषु नित्यसमासः। समाहारे तु वाक्यमपि भवति ॥७॥ __"सङ्ख्या." । सप्तर्षय इति । समुदायेषु वृत्ताः शब्दा अवयवेष्वपि वर्तन्ते इति बहुसङ्ख्याकाम्राद्यभिधायकाः पञ्चाम्रादिशब्दा एकस्मिन्नप्याम्रादौ प्रयुज्यन्ते इति फलित एकः पञ्चाम्रः । उदितात्रयः १० सप्तर्षय इति ॥ ७१ ॥
द्विगोः समाहारात् ॥७२॥ [सि० २।४।२२] समाहाराद्विगोरदन्तास्त्रियां डी: स्यात् । पञ्च प्रामाः समाहताः पञ्चग्रामी। "पात्रादिगणान्त इकारान्तश्च समाहारद्विगुर्नपुंसकम्" द्विपात्रम् । चतुर्मासम् । त्रिभुवनम् । चतुष्पथम् । त्रिगुप्ति । "अनन्तावन्तान्तो वा नपुंसकम्" ॥७२॥
"द्विगो." । स्पष्टम् । पात्रादीति-द्विपथम् । त्रिपथम् । चतुर्युगम् । त्रिपुरम् । भाष्ये तु त्रिपुरीत्युक्तम् । पात्रादयः शिष्टप्रयोगगम्याः ॥ ७२ ॥ अत्र समासान्तविधिमाह ।
द्विगोरनहोऽद ॥ ७३ ॥ [सि०७३।९९] अनन्तादहमन्ताच समाहारद्विगोरट् स्यात् । "नोऽपदस्य." इति । पञ्चराजी पश्चराजम् । यहः २० इत्यादि । पश्चमाली पश्चमालम् । त्रिसन्ध्यमिति तु क्लीयम् । त्रिफलेति च रूढितः ॥ ७३ ॥ इति द्विगुः।
"द्विगो०" । व्यह इति, द्वयोरहोः समाहारो व्यहः । “अनीनादव्यहोऽत:" (७४।६६) ईन-अतू-अटू-वर्जिते तद्धिते परे पदस्थाह्रोऽकारस्य लुक् स्यादित्यटि उपान्त्यलोपनिषेधे, "नोऽपदस्य." (७४।६१) इत्यन्यखरादिलोपे व्यह इति । "द्विगुरन्नाबन्तान्तो वान्यस्तु सर्वो नपुंसक" इति २५ स्त्रीनपुंसकत्वे प्राप्ते "अहनिर्वृहकलहा" इति लिङ्गानुशासनलक्षणेन पुंस्त्वम् । अन्नन्तत्वेनैव सिद्धे अह्न इदमविधानं समाहारे “सर्वाशसङ्ख्याव्ययात्” (७।३।११८) इति परस्याप्यटो बाधनार्थम् । तस्मिन् हि सत्यहादेशः स्यात् । एवं व्यहः, पञ्चाहः, सप्ताहः, । "
द्विरायुषः” (७।३।१००)। द्वित्रिभ्यां परो य आयुशब्दस्तदन्तात्समाहारे द्विगोरट् स्यात् । व्यायुषम् । समाहार इत्येव । व्यायुः व्यायुः प्रियः। "वाञ्जलेरलका" (७।३।१०१)। द्वित्रिभ्यां परो योऽञ्जलिस्तदन्ताहिगोरड्वा स्यात् , ने चेत्स द्विगु-३० स्तद्धितलुगन्तो भवति । द्वयोरञ्जल्योः समाहारो व्यञ्जलम् व्यञ्जलि, व्यञ्जलम् व्यञ्जलि । अलुक इति किम् ? द्वाभ्यामञ्जलिभ्यां क्रीतो ब्यञ्जलिर्घटः । "खायो वा” (७।३।१०२)। पृथग् योगात् द्वित्रेरिति निवृत्तम् । खारीशब्दान्ताहिगोरलुकोऽट् समासान्तो वा भवति । द्विखारम्, पक्षे क्लीब इति ३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org