________________
५
महामहोपाध्यायश्रीविनयविजयगणिविरचिते स्वोपज्ञहैमलघु
वृन्दारकनागकुअरैः ॥ ६८ ॥ [ सि० ३|१|१०८ ]
एमिः सह पूज्यवाचि समस्यते । मुनिवृन्दारकः । “किम् क्षेपे” (३|१|११० ) । समस्यते । क्षेपार्थात्किमः पूजार्थाभ्यां स्वतिभ्यां नञ्तत्पुरुषाच्च यथायोगं समासान्तनिषेधो वक्तव्यः । किंराजा । किंगौः ॥ ६८ ॥
३०२
"वृन्दा०” । “किंक्षेपे" इति सूत्रद्वयं सुगमम् ॥ ६८ ॥ अथात्र समासान्तविधिमाह ।
जातमहद्वृद्धादुक्ष्णः कर्मधारयात् ॥ ६९ ॥ [ सि०७३।९५ ]
कर्मधारये एभ्य उक्ष्णोऽत्स्यात् । जातोक्षः ॥ ६९ ॥
" जात ०" । जातोक्ष इति - एवं 'महोक्षः स्यादुक्षतरः, वृद्धोक्षस्तु जरद्गवः' । कर्मधारय इति किम् ? १० वृद्धस्योक्षा वृद्धोक्षा ।। ६९ ।। अथात्र पुंवद्भावविधिमाह ।
पुंवत्कर्मधारये ॥ ७० ॥ [ सि० ३।२२५७ ]
अनूपरतः स्त्री स्येकार्थे उत्तरपदे पुंवत्स्यात् । कल्याणी चासौ प्रिया च कल्याणप्रिया ॥ ७० ॥ इति कर्मधारयः ।
“पुंव०”कल्याणप्रियेति एवं कल्याणमनोज्ञा । योऽपि "नाप्रियादौ” ( ३/२/५३ ) इत्यादौ १५ पुंवद्भावनिषेधस्तमपि बाधित्वात्र पुंवद्भावो भवति । तथाहि " तद्धिताककोपान्त्यपूरण्याख्याः” ( ३।२।५४ ) इत्युक्तं तत्रापि भवति — मद्रिका चासौ भार्या च मद्रिकभार्या । लाक्षिकबृहतिका, पाचकवृन्दारिका, पञ्चमवृन्दारिका, दत्तवृन्दारिका । " तद्धितः स्वरवृद्धिहेतुररक्तविकारे” ( ३/२/५५) इत्युक्तम्, तत्रापि भवति — माथुरी चासौ वृन्दारिका च माथुरवृन्दारिका । “स्वाङ्गान्ङीर्जातिश्चाऽमानिनि” ( ३।२।५६ ) इत्युक्तं तत्रापि भवति - चन्द्रमुखी चासौ वृन्दारिका च चन्द्रमुखवृन्दारिका, दीर्घकेश२० वृन्दारिका, कठवृन्दारिका बह्वृचवृन्दारिका । सर्व्वत्र जातिलक्षणङीबाध को वृन्दारिकाशब्दे जातित्वादाप्, “द्व्येषसूतपुत्रवृन्दारकस्य” (२।४।१०९) इति विकल्पेनेत्वम् । "वतण्डात् ” ( ६ | १|४५) । वतण्डशब्दादाङ्गिरसे वृद्धेऽपत्यविशेषे यङ् स्यात् । वतण्डस्यापत्यं वातण्ड्यः, स्त्रीत्वे वतण्डी । "स्त्रियां लुप्" (६।१।४६ ) वतण्डशब्दादाङ्गिरसेऽपत्य विशेषे वृद्धे खियां यङो लुप् भवति । वतण्डी चासौ वृन्दारिका च वातण्ड्यवृन्दारिका । गर्गस्यापत्यं गार्ग्यः स्त्री चेद्गार्गी, सां चासौ वृन्दारिका च गार्ग्यवृन्दारिका । कपोत२५ पाक एव कपोतपाक्यः, स्त्री चेत् कपोतपाका, कपोतं पचति अण् अत्राण्लक्षणं जातिनिमित्तं वा ङीप्रत्ययं बाधित्वा “अजादेः” ( २।४।१६ ) इत्याप् कापोतपाका चासौ वृन्दारिका च कापोतपाक्यवृन्दारिका । कुञ्जस्यापत्यं कौञ्जायन्यः । “कुञ्जादेर्मायन्यः " ( ६।१।४७ ) । कुञ्जादिभ्यो ङसन्तेभ्यो वृद्धेऽपत्येऽर्थे आयन्यः स्यात् । स्त्रीचेत्कौआयनी । “स्त्रीबहुष्वायनञ् " ( ६।१।४८ ) । कुञ्जादिभ्यो सन्तेभ्यो बहुत्वविशिष्टे वृद्धे स्त्रियां वा बहुत्वेऽपि आयनव् स्यात् । कौआयनी चासौ वृन्दारिका च कौञ्जायन्य३० वृन्दारिका । अङ्गस्यापत्यानि अङ्गाः “पुरुमगध ०" (६।१।११६) इत्यण् " बहुष्वस्त्रियाम्" (६।१।१२४)
इति न लुप् (?) स्त्रिय आयः । ताच ता वृन्दारिकाच अङ्गवृन्दारिकाः । गर्गवृन्दारिकाः । इडविड् पृथ् दरद् ३२ उशिज् एते जनपदशब्दाः क्षत्रियवाचिनः, एभ्योऽपत्यप्रत्ययस्य स्त्रियां लुपि, इविट् चासौ वृन्दारिका
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org