________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । तत्पुरुषः कर्मधारयश्च ३०१ उपमेयं व्याघ्राद्यैः साम्यानुक्तौ ॥६५॥ [सि० ३३१४१०२] उपमेयवाचि उपमानवाचिभिर्व्याघ्रायः साधारणधर्मानुक्तौ समस्यते, स तत्पुरुषः कर्मधारयश्च। पुरुषो व्याघ्र इव पुरुषव्याघ्रः । साम्योक्तौ तु पुरुषो व्याघ्र इव शूर इत्यत्र न स्यात् ॥६५॥
"उपमेयं०" । साधारणधर्मानुक्ताविति-न चेदुपमानोपमेययोः साधारणधर्मवाची शब्दः प्रयुज्यते । व्याघ्र इव व्याघ्रः पुरुषः, स चासौ व्याघ्रश्च पुरुषव्याघ्रः । राशी चासौ व्याघ्री च राजव्याघ्री,५ कर्मधारयात्पुंवद्भावः । न स्यादिति-इदमेव प्रतिषेधवचनं सापकम्-प्रधानस्य सापेक्षत्वेऽपि समासो भवति । तेन राजपुरुषो दर्शनीय इत्यादि सिद्धम् । व्याघ, सिंह, ऋषभ, वृषभ, महिष, चन्दन, वृक, वराह, हस्तिन् , कुञ्जर, रुरु, पृषत, पुण्डरीक, पलाविका पक्षिणीविशेषः, कुश्ना, (क्रुचा?), एते षोडश (पञ्चदश?) व्याघ्रादयः । बहुवचनमाकृतिगणार्थम् । तेन वाग्वजः मुखपद्मम् पाणिपल्लवम् करकिसलयम् वदनेन्दुः पार्थिवचन्द्रः वानरवा कुचकुम्भः स्तनकलश इत्यादयोऽपि १० भवन्ति । उपमानं सामान्यैरेवेत्यनेन विशेषणसमासे प्रतिषिद्ध समासविधानार्थ वचनम् ॥ ६५ ॥
सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ॥६६॥ [सि० ३।१।१०७ ] पूजायां गम्यायामेतानि पश्च पूज्यवाचिभिः समस्यन्ते, स तत्पुरुषः कर्मधारयश्च ॥६६॥ "सन्म." ॥ ६६ ॥ अनोपयोगिसूत्रमाह ।
जातीयैकार्थेऽच्वेः ॥ ६७ ॥[सि० ३२२१७०] महतोऽच्च्यन्तस्य जातीयरि प्रत्यये एकार्थे च पदे परे डाः स्यात् । महाजातीयः। महाराजः॥६७॥
"जाती०" । महान् प्रकारोऽस्य महाजातीयः । "प्रकारे जातीयर" (७१२।७५) एकार्थे-महान् भागोऽस्य महाभागः । महायशाः । महती चासौ देवी च महादेवी । महती कीर्तिरस्य महाकीर्तिः । महान्तमात्मानं मन्यते महामानी । एवं महम्मन्यः । खशि डा ह्रखत्वे मोऽन्तः । अच्वेरिति किम् ? २० अमहान् महान भूतो महद्भूतश्चन्द्रमाः । अमहती महतीभूता महद्भूता कन्या । पूजायामिति किम् ? सन् घटः, विद्यमान इत्यर्थः । कथं महोदधिः, वैपुल्यं सत्र गृह्यते न पूजा ? बहुलाधिकाराद्भवति । पूजायामेवेति नियमार्थ वचनम्, पूर्वनिपातव्यवस्थार्थ च । तेन सच्छुछ इत्यादौ खञ्जकुण्टादियदनियमेन पूर्वनिपातो न भवति । परमजरन् महावीरः परममहान् इत्यादौ च "स्पः” (७।४।११९) परमिति यथापरं पूर्वनिपातश्च सिद्धो भवति ।
अत्रामी विशेषाः "महतः करघासविशिष्टे डा" (३।२।६८) । करादिषु त्रिपूत्तरपदेषु महतो डा वा स्यात् । वैयधिकरण्ये इयं विभाषा, सामानाधिकरण्ये तु "सन्महत्” (३।१।१०७) इति नित्य एव विधिः । महतः करो महाकरः महत्करः । कर एव वा कारः महाकारः २ । महापासः २ । महाविशिष्टः २ । “स्त्रियाम्" (३।२।६९)। स्त्रियां वर्तमानस्य महतः करादिषु त्रिषु नित्यं डाः स्यात् । महत्याः करः महाकरः, महापासः महाविशिष्टः । “न पुम्वन्निषेधे" (३।२।७१)। महतः३० पुवनिषेधविषये डा न स्यात् । महती प्रियाऽस्य महतीप्रियः, महतीमनोज्ञः। "रिति” (३।२।५८)। परतः रूयनूङ रितिप्रत्यये जातीये देशीये च पुंवत् स्यात् । पत्री प्रकारोऽस्याः पटुजातीया । ईषदपरिसमाप्ता पवी पटुदेशीया ॥६७॥
३३
२५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org