________________
३००
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोप हैमलघु
1
युवन् इत्येतन्नाम खलत्यादिभिः समस्यते । युवा चासौ खलतिश्च युवखलतिः, युवपलितः, युवजरन्, युबवलिनः । वलयोऽस्य सन्ति वलिनः “अङ्गादित्वात् " नः । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति युबतिश्चासौ खलतिश्च युवखलतिः । पूर्वनिपातार्थं वचनम् । “कृत्यतुल्याख्यमजात्या " । ( ३।१।११४ ) । कृत्यप्रत्ययान्तं तुल्याख्यं तुल्यपर्यायं च नाम अजात्या अजातिवाचिनाम्ना सह सम ५ स्यते । भोज्यं च तदुष्णं च भोज्योष्णम् । भोज्यलवणम् । तुल्याख्यः; तुल्यश्वेतः, तुल्यसन् सदृशश्वेतः, सदृशमहान् । अजात्येति किम् ? भोज्य ओदनः । तुल्यो वैश्यः । कथं शीतपानीयम् ? पानीयशब्दोऽयमौणादिको जलवाची, तस्यायं विशेषणसमासः । जात्या समासस्याजातेः पूर्वत्वस्य च प्रतिषेधार्थं वचनम् । “कुमारः श्रमणादिना ” ( ३ | १|११५ ) । कुमार इत्येतन्नाम श्रमणादिनान समस्यते । कुमारी चासौ श्रमणा च कुमारश्रमणा । श्रमणा, प्रब्रजिता, कुलटा, गर्भिणी, तापसी, १० बन्धकी, दासी, एते सक्तीचीलिङ्गा एव । अध्यायक, अभिरूपक, पटु, मृदु, पण्डित, कुशल, चपल,
निपुण । येऽत्र स्त्रीलिङ्गास्तैः सह स्त्रीलिङ्गः एव कुमारशब्दः समस्यते । शेषैस्तूभयलिङ्गः । ( नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति हि न्यायः ) श्रमणादीनां स्त्रीलिङ्गानां पाठात् पुंल्लिङ्गैः पूर्वनिपाते कामचारः । कुमारश्रमणः, तापसकुमारः । कुमारशब्दस्य पूर्वनिपातनियमार्थं वचनम् । एतत्सर्वमादिशब्देन सङ्गृहीतं बोद्धव्यम् ॥ ६२ ॥ अथ कियत्कण्ठत आह ।
निन्द्यं कुत्सनैरपापाद्यैः ॥ ६३ ॥ [ सि० ३|१|१००]
निन्द्यं निन्दावाचिभिः समस्यते स समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च स्यात् । तार्किकखसूची | अपापाद्यैरिति किम् ? पापमुनिः । हतविधिः ॥ ६३ ॥
१५
“निन्द्यं०” । तार्किकखसूचीति - तार्किकचासौ खसूची च तार्किकखसूची, यः पृष्टः सन्निः प्रतिभत्वात्खं सूचयति स एवमुच्यते । तार्किकखसूचिरित्यन्ये । एवं मीमांसकदुर्दुरूढः, दुर्दुरूढो नास्तिकः । २० क्षत्रियभीरुः, भिक्षुविट:, मुनिखेट:, ब्राह्मणचेलः, ब्राह्मणबुवः, राक्षसहतकः, ब्राह्मणजाल्मः, तापसापसदः, काण्डीरकाण्डस्पृष्टः, प्राम्यधृष्टः, मुनिधूर्त्तः, कविचौरः, आरक्षितस्करः, पाषण्डिचण्डालः । निन्द्यमिति किम् ? वैयाकरणचौरः । प्रत्यासत्तेर्निन्द्यशब्दनिवृत्तिनिमित्तकुत्सायामयं समास इष्यते, न चात्र चौर्येण वैयाकरणत्वं कुत्स्यते किन्तु तदाश्रयं द्रव्यम् । वैयाकरणत्वं तु तदुपलक्षणमात्रम् । तेनात्र विशेषणसमास एव चौरवैयाकरणः ॥ ६३ ॥
1
उपमानं सामान्यैः ॥ ६४ ॥ [ सि० ३ | १|१०१ ]
उपमानवाचि उपमानोपमेयसाधारणधर्मवाचिभिः समस्यते स तत्पुरुषः कर्मधारयश्च स्यात् । शस्त्रीय श्यामा शस्त्रीश्यामा ॥ ६४ ॥
२५
“उप” । शस्त्रीव श्यामेत्यर्थकथनम् । समासस्तु शस्त्रीव शस्त्री, शस्त्री चासौ श्यामा च शस्त्रीश्यामेति । “विशेषणं विशेष्येण ० " ( ३|१|८६ ) इत्येव समासे, उपमानोपमेययोः साधारणधर्मप्रतीत्यन्यथानुपपत्त्यैव पूर्वनिपाते च सिद्धे, उपमानं सामान्यैरेवेति नियमार्थं वचनम् । तेनाग्निर्माणवक ३१ इत्यादौ विशेषणसमासोऽपि न भवति ॥ ६४ ॥
१ हिशब्दोऽत्र यस्मादर्थे, यद्येवं नामग्रहणपरिभाषयैव स्त्रीलिङ्गेऽपि समासस्य सिद्धत्वात् किमर्थं स्त्रीलिङ्गानां श्रमणादीनां पाठ इत्याह ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org