________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे समासप्रक्रिया । तत्पुरुषः कर्मधारयश्च
२९९ समासः । साक्षात् च्व्यन्तानां तु गत्यादिसूत्रेण नित्यसमास एव । श्रेणि, ऊक, पूग, कुन्दुम, कन्दुम, राशि, निचय, विशिष्ट, निर्द्धन, कृपण, इन्द्र, देव, मुण्ड, भूत, श्रमण, वदान्य, अध्यायक, अध्यापक, ब्राह्मण, क्षत्रिय, पटु, पण्डित, कुशल, चपल, निपुण २५ इति श्रेण्यादयः पञ्चविंशतिः । अत्र अनूका ऊकाः कृताः ऊककृता राशिस्थानीकृता इत्यर्थः । कन्दुमः कान्दविकः, निचयः समूहो गन्धद्रव्यं च ॥ कृत, मत, मित, भूत, उप्त, उक्त, समाज्ञात, समाख्यात, समाम्नात, सम्भावित, अवधारित, ५ अवकल्पित, निराकृत, उपकृत, अपाकृत, अपकृत, कलित, उदाहृत, उदीरित, उदित, दृष्ट, विश्रुत, विहित, निरूपित, आसीन, आस्थित, अवबद्ध २७ इति कृतादयः सप्तविंशतिः । बहुवचनमाकृतिगणार्थम् । यत्र सामर्थ्यं नास्ति तत्रेति शब्दाध्याहारो द्रष्टव्यः । अनिर्द्धना निर्द्धना इत्युपकृता निर्द्धनोपकृताः, अचपलाश्चपला इत्यपाकृताश्चपलापाकृताः । (अभूता भूता इति निराकृताः) । श्रेणिकृताः इत्यादौ क्रियाकारकसम्बन्धमात्रं न विशेषणविशेष्यभाव इति वचनम् । “क्तं नत्रादिभिन्न” ( ३।१।१०५ ) नमा- १० दयो नन्प्रकारास्तैरेव भिन्नैर्नामभिः सह कान्तं नामैकार्थं सामर्थ्यादऽनन् समस्यते । कृतं च तदकृतं च कृताकृतम्, एवं भुक्ताभुक्तम् । इटः क्तावयत्वाद्विकारस्य त्वेकदेशविकृतस्यानन्यत्वान्न भेदकत्वम् । तेन किष्टाक्किशितम् । आदिग्रहणात् कृतापकृतम् भुक्तविभुक्तम् पीतावपीतम् । नमादिभिरेव भिन्नैरित्यवधारणेन कृतं चाविहितं चेति प्रकृतिभेदे, कृतं चाकर्त्तव्यं चेति प्रत्ययभेदे गतश्च प्राप्तोऽगतश्चाज्ञात इत्यर्थभेदे, सिद्धं चाभुक्तं चेति प्रकृत्यर्थयोर्भेदे च न स्यात् । "सेट् नाऽनिटा" ( ३।१।१०६ ) । सेट् १५ क्तान्तं नञादिभिन्नेनानिटा न समस्यते । पूर्वस्यापवादः । क्लिशितमक्लिष्टम् । इट्ग्रहणमर्थभेदातो - कारस्योपर्लक्षणम् । तेन शिताशातं छिताच्छितमित्यादि न भवति । कथं विनावित्तम् त्राणात्रातम् “क्तादेशोऽषि ” ( २।१।६१ ) इति परे समासे नत्वस्यासत्त्वाद्भविष्यति । " कतरकतमौ जातिप्रश्ने" ( ३।१।१०९) समस्येते । कतरश्चासौ कठच कतरकठः । कतमकठः । जातिप्रश्न इति किम् ? गुणक्रियाद्रव्यप्रश्ने न भवति । कतरः शुडो, गन्ता, कुण्डली । “पोटायुवतिस्तोककतिपयगृष्टि- २० धेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाध्यायकधूर्त्तप्रशंसारूढैर्जातिः” ( ३|१|१११) । जातिवाचि नाम पोटादिभिस्त्रयोदशभिः प्रशंसारूढैश्च सह समस्यते । इभ्या च सा पोटा च इभ्यपोटा । पोटा पुरुषवेषधारिणी स्त्री, गर्भ एव दास्यं प्राप्ता वा, स्त्री नृलक्षणा वा, भुजिष्यदासी वा । इभ्ययुवतिः । अभिश्चासौ स्तोकं च अग्निस्तोकम्, दधिकतिपयम्, गौश्वासौ गृष्टिश्च गोगृष्टिः, सकृत् प्रसूतिका | गौश्वास धेनुश्च गोधेनुः, धेनुर्नवप्रसूता । गोवशा, वशा वन्ध्या । गोवेहत्, वेहगर्भघा- २५ तिनी । गोबष्कयिणी, बष्कयेण वृद्धवत्सेन या दुह्यते प्रौढवत्सा बष्कयिणी । कठप्रवक्ता, प्रवक्ता उपाध्यायः । कठश्रोत्रियः, श्रोत्रियश्छन्दोध्यायी । कठाध्यायकः, अध्यायकोऽध्येता । मृगधूर्त्त "निन्द्यं कुत्सनैर० (३|१|१०० इत्यत्र शब्दप्रवृत्तिनिमित्तकुत्सायां समासः । इह तु तदाश्रयाकुत्सायामिति धूर्तप्रहणम् । प्रशंसायां रूढा मतल्लिकादयः आविष्टलिङ्गास्तैः समासः । गौश्चासौ मतल्लिका च गोमतल्लिका। “स्युरुत्तरपदे व्याघ्रपुङ्गवर्ष भकुञ्जराः । सिंहशार्दूलनागाद्यास्तल्लजच मतल्लिका ॥ मचर्चिका प्रकाण्डो ३० द्वौ प्रशस्यार्थप्रकाशकाः” । तातपादाः, आर्यमिश्राः, केशपाशः, केशहस्तः, अंसभित्तिः, वक्षःस्थलम्, कपोलपाली, उरः कपाटः, स्तनतटम् । रूढग्रहणादिह न भवति - गौः रमणीया । रमणीयादयो हि रमणीयत्वादिगुणमादाय प्रशंसायां वर्त्तमाना न रूढा इति विशेष्यस्य जातेः पूर्वनिपातार्थं वचनम् "चतुष्पाद् गर्भिण्या” ( ३|१|११२ ) । चतुष्पाद्गवादिजातिस्तद्वाचि नाम गर्भिणीनाम्ना समस्यते । गौश्चासौ गर्भिणी च गोगर्भिणी । “युवा खलतिपलितजरद्बलिनैः” ( ३।१।११३ ) । ३५ १ तेन सविकारमविकारेण न समस्यते इत्यपि सिद्धम् ।
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org